SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्. [प्रत्यन्तरे ६२ तम पट्टपश्चात्-यावत् ७१ पतम पट्टपर्यन्तं निम्नलिखिता भिन्न पट्टपरंपरा समुपलभ्यते.] ६३. तत्पट्टे त्रिषष्टितमः जिनसागरसूरिः। तस्य च वोहित्थरागोत्रीयः श्रीवीकानेरवास्तव्य साह वच्छराजः पिता, मिरगादे माता। सं० १६५२ वर्षे कार्तिकसुदि १४ रखो अश्विन्यां जन्म, चोला मूलनाम । सं० १६६१ वर्षे माहसुदि ७ दिने अमरसरसि श्री जिनसिंहसूरिणा दीक्षितः। श्रीमालचुहरा अचूका श्रावकैनंदीमहोत्सवः कृतः। वादी श्री हर्षनंदनगणिना बाल्यत आरभ्य सर्वशास्त्राणि पाठितानि । सं० १६७४ वर्षे फाल्गुनसुदि सप्तम्यां मेडताख्ये नगरे चोपडागोत्रीय साह आसकरणकृतमहोत्सवेन सृरिपदं जातं, श्री जिनसागरसरिरिति नाम विहितं । तथा द्वितीय शिष्य बोहित्थरागोत्रीय राजसमुद्रगणिः, तस्मै आचार्यपदं दत्तं, जिनराजसूरिरिति नाम विहितं । ततो द्वादशवर्षाणि यावदाचार्यः श्री पूज्यानां आज्ञायां प्रवृत्तः, पश्चात् आचार्य जिनराजसूरितः त्रिभिर्गच्छो विभिन्नः । तस्य व्यवस्था इयं-सं० १६९९ मिते बृहत् भट्टारक श्रीरंगविजयगणितो रंगविजय खरतर शाखा भिन्ना, अयं नवमो गच्छभेदः। ततः तन्मध्यात् श्रीसारोपाध्यायतः श्रीसारीय खरतर शाखा भिन्ना, अयं दशमो गच्छभेदः। ततः सं० १७१२ आचार्य जिनराजसूरीणां द्वितीय शिष्य रूपचंद्रेण लघु भट्टारक खरतर शाखा भिन्ना, अयं एकादशमो गच्छभेदो जातः । ततः भट्टारक श्री जिनसागरसूरिभिः सं० १६७४ वैशाख सुदि त्रयोदश्यां शुक्रे श्रीराजनगरवास्तव्य प्राग्वाटज्ञातीय संघपति सोमजीपुत्र रूपजीकारित श्री शत्रुजयोपरि चतुर्दार विहारहारायमाण श्रीऋषभादिजिनकाधिक पंचशत (५०१) प्रतिमानां प्रतिष्ठा विहिता । एवंविधाः श्रीजिनमतोन्नतिकारकाः, अंबिकाप्रदत्तवरधारकाः, समस्ततर्कव्याकरणच्छंदोलंकारकोषकाव्यादि विविधशास्त्रपारिणः, स्थाने स्थाने सर्वत्र श्रावकर्मानिताः, परमसंवेगवंतः, भाग्यसौभाग्यवंतः, भट्टारक श्रीजिनसागरसूरयः श्री अहमदाबादनगरे सं० १७२० वर्षे ज्येष्ठवदि तृतीयायां एकादशवासराऽनशनं विधाय, स्वपट्टे श्री जिनधर्मसूद्रिान् संस्थाप्य, सर्वशिष्याणां शिक्षां दत्वा स्वर्ग जग्मुः। अयमष्टमस्तु बृहत्खरतरनामा मूलगच्छः। एवमेकादशभेदः खरतर गच्छः ॥ ६३॥ ६४. तत्पद्वे चतुषष्टितमः श्रीजिनधर्मसूरिः। स च भणशालीगोत्रीय श्रीवीकानेरवास्यव्य सा० रिणमलभार्या रतनादेपुत्रः, सं० १६९८ वर्षे पौषसुदि २ अभिजित् नक्षत्रे जन्म, खरहथ मूलनाम । सं० १७........वर्षे वैशाखसुदि ३ दिने श्रीजिनसागरसूरिणा दीक्षितः। वादि श्री हर्षनंदनगणिना बाल्ये वयसि सर्वशास्त्राणि पाठितानि। सं० १७११ वर्षे माघसुदि १२ आचार्यपदमहोत्सवः चर्द्ध (१) भार्या विमलादे कृतः । सं० १७२० वर्षे श्री विक्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003435
Book TitleKhartargaccha Pattavali Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBabu Puranchand Nahar
Publication Year
Total Pages76
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy