SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ । खरतरगच्छ पट्टावली-२॥ साधं स्तंमतीर्थगमनार्थ प्रवहणमारूढास्तत्रसमुद्रमध्यभागे पोतस्याधस्तनफलकं भग्नं, ततो जलेन पूर्यमाणं पोतं विलोक्य गुरुभिः स्वेष्टदेवाराधनं चक्रे । ततः श्रीजिनकुशलसूरिसाहायेन अकस्मान्नवीनपोतप्रादुर्भावाज्जलधेः पारं लब्धं ततः स पोतोऽदृश्यो बभूव । एवंविधाः श्रीशत्रुजयादियात्राविधायकाः सकलशास्त्रपारगा विजेतानेकवादिनः श्रीगुरवस्त्रीणि दिनान्यनशनं कृत्वा सं० १७८० ज्ये०व०१० श्रीरिणीनगरे स्वर्ग प्राप्तास्तत्र तदिने देवैरदृष्टवादित्राणि वादितानि तत्पुराधीशादिसर्वलोकास्तद्वाद्यघोषं श्रुत्वाऽऽश्चर्यवन्तो जाताः ॥६५॥ ६७. तत्पट्टे श्रीजिनभक्तिसूरिः। तस्य च इंदपालसर ग्रामवास्तव्य सेठगोत्रीय साह हरिचंद्रः पिता, हरिसुखदेवी माता। सं० १७७० ज्ये० सु०३ जन्म भीमराजेति मूलनाम । सं० १७७९ माघसुदि ९ दीक्षा भक्तिक्षेमेति दीक्षानाम । सं० १७८० ज्येष्ठवदि ३ रिणीपुरे श्रीसंघकृतमहोत्सवेन गुरुभिः स्वहस्तेनाचार्यपदं दत्तं। ततो नानादेशविहारिणः सादडीप्रभृतिनगरेषु हस्तिचालनादिप्रकारेण प्रतिपक्षान् पराजयं नीत्वा विजयलक्ष्मीधारिणः सर्व सिद्धान्तपाठप्रचारिणः श्री सिद्धाचलादि सकलमहातीर्थयात्राकारिणः श्री गूढाख्ये नगरे अजितजिनचैत्यप्रतिष्ठाविधायिनो महातेजस्विनः सकलविद्वजनशिरोमणि-श्रीराजसोमोपाध्याय, श्रीरामविजयोपाध्यायादि-सत्परिकरसंसेवितचरणाः श्रीजिनभक्तिसूरयः कच्छदेशमंडनश्रीमांडवीविंदरे सं० १८०४ ज्ये० सु० ४ स्वर्ग प्राप्ताः । तत्र सायं अग्निसंस्कारभूमौ देवैर्दीपमाला विहिता । ईदृक् प्रभावका जाताः॥६६॥ ६८. तत्पट्टे श्रीजिनलाभसूरयः। तेषां च वीकानेवास्तव्य वोहित्थरागोत्रीय साह पंचायणदासः पिता, पद्मादेवी माता। सं० १७८४ श्रा० सु० बापेउग्रामे जन्म, लालचंद्रेति मूलनाम, सं० १७९६ ज्येष्ठसुदि ६ जेसलमेरुनगरे दीक्षा, लक्ष्मीलाभ इति दीक्षानाम । सं० १८०४ ज्ये सु० ५ श्रीमांडवीविंदरे छाजहडगोत्रीय साह भोजराजकृत नंदिमहोत्सवेन पदस्थापना जाता। ततः श्रीगुरवो जेसलमेरुवीकानेरायनेकपुरेषु विहारं कृत्वा सं० १८१९ ज्ये०व०५, पंचसप्तति (७५)साधुभिः सार्धं श्रीगौडीपार्श्वेशयात्रां कृतवन्तः। ततःसं०१८२१फा०सु० प्रतिपत्तिथी पंचाशीति (८५) मुनिभिः सह श्रीअर्बुदाचलयात्रां कुर्वति स्म । ततश्च घाणेराव-शादडीनामके नगरद्वये चोपडा वषतसाहादिकृतमहोत्सवेन समागत्य उपद्रवकरणाय सं० पक्षीयान् स्ववलेन पराजयं नीत्वा विजयवादित्राणि वादितवंतः। ततस्तद्देशराणपुरादि-पंचतीर्थी वंदित्वा वेनातटमेदिनीतट-रूपनगर-जयपुरोदयपुरादि-नगरेषु विहत्य सं० १८२५ वै० सु० १५ अष्टाशीति (८८) मुनिभिःसाई श्रीधूलेवगढाधिष्ठायकऋषभदेवयात्रां कुर्वति स्म। ततः पल्लिकासत्यपुर-राधनपुरादिषु विहत्य श्रीसंखेश्वर पार्श्वयात्रां कृत्वा सेठ गुलालचंद सेठ भाईदास श्रीसंघाग्रहात्सूरतविंदरे समागताः। तत्र सं० १८२७ वै० सु० १२ आदिगोत्रीय साहनेमीदासांगज भाईदास कारित त्रिभूमप्रासादमंडन श्रीशीतलनाथ सहस्रफणपार्श्व गौडीपार्थाघेकाशीत्यधिक शत (१८१) बिंब प्रतिष्ठां कृतवंतः। तथा सं० १८२८ वै० सु० १२ तत्रैव देवगृहे श्री महावीरादि द्वयशीति (८२) बिंबप्रतिष्ठां कुर्वति स्म । तदा देवगृहबिंब निर्मापण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003435
Book TitleKhartargaccha Pattavali Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBabu Puranchand Nahar
Publication Year
Total Pages76
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy