SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तिमहालेख सरलताधिष्ठितगात्रेण उदारतापूरितमनःपात्रेण सन्तापोच्छेद निमित्तसंसेव्यमान निरन्तरसरससामोदशिशिर श्रीदेवगुरुभक्तिचारुचन्दनेन मन्त्रीश्वरमूंजालदेवनन्दनेन सं० वीराग्रजेन तत्कालशुभंयुतयाऽक्षततृतीयादिने मुख्यसङ्घ पतिप्राग्भाराविर्भावकास्मत्कृतश्रीवासक्षेपप्ररोपिताधिकप्रभवेण सङ्घपुरुषमन्त्रिपूर्ण सुश्रावकेण सम्पूर्णा सनायकतां दधमानः श्रीसङ्घः सुखसुखेन प्रयत्नेन पथि वहन् श्रेणी भूतप्रवररथसमाजव्याजविरचितजङ्गमसेतुबन्धबलेन समुत्तीर्य दुर्गम दुस्तरमहारणार्णवम्, श्वस्तनेऽहनि घोघावेलाकूलस्थाने महत्तरप्रवेश कम होच्छ (स) वपुरस्सरं श्रीनवखण्डपार्श्वजिनाधिराजं प्राणनम्यत । [ श्रीशत्रुञ्जयगिरिपरिसरकृतसङ्घशिबिरनिवेशवर्णनम् । ] ३२. एवंविधेषु हर्ष कल्लोलेषु जायमानेषु, विशेषतस्तत्र गोक्षीरपानान्तः शर्कराशिलाकागमोपमः, रसारूढव्याख्यानान्तः प्रस्तुतार्थ पोषि मधुरसुभाषितोल्लापसमानः, आह्लादभन्द- ॥ जनकः, श्रीगच्छकार्यप्राग्भार निर्वाहण विहितास्मत्साहायकानां समग्रविद्यानदीनदीवल्लभप्रायाणां श्रीविनयप्रभमहोपाध्यायानां सङ्गमो घनतरदिनेष्वभवत् । Jain Education International २७ 15 ९३३. तदनु च प्रस्थाय ततश्चारुदारुकरिदन्तरचनाविशेषशंसनीय सुखासनचामीकरच्छुरितदण्डचामरावली विशालमायूरातपत्रादिनानाचि हैः सम्भावितमहाराज सैन्यविभ्रमः श्रीसङ्घ उपश्रीविमलाचल परिसरं शिविरमकरोत् । जातश्च प्रभातसमये चारिमास्पदं तत्कालमही- 1 वलयान्तराविर्भूत आनन्दकन्द इव, संसारसागरपरिभ्रमण खिन्नप्राणिगणविश्रामान्तरी पावतार इव, चातुर्गतिकदुःख पारावारपरपारप्रापणसेतुबन्ध इव, दुर्गम भीष्म भवारण्यविहारिरागद्वेषकषायहृषीकमहादस्युपेटकवित्रासितानां जन्तुजातानां शरण्यदुर्ग इव, शिखरावसानसमासीनपीन सुधापङ्कशुक्तितुङ्ग विहारवारनिभेन निःसीमात्मीयमहिमाधरीकृताखिलवसुन्धराधरजयार्जिते धवलयशःपुञ्जमिव नित्यं मूर्त्तिमन्तं निदेधीयमानः, दूरादवेक्ष्य- 2 माणश्वेतंप्रान्तवर्त्तिसार्वमन्दिरनिकुरुम्बेण समुदयमान तुषारमयूख मण्डलेनोदय भूधर इव दृश्यमानः, उज्वलकेवलिमहालयच्छलेन भोगीन्द्र इव विकासिकुसुमशेखरं शिरसि संयमितं वहमानः, किं वा योगीन्द्र इव बहुसमयाभ्यस्तं प्रकटीभूतं मूर्त्तिधारिणं शुक्लध्यानपिण्डमिव ग्रसमानः, किं वा सङ्ख्यातीतस्वकीयवित्तव्ययीकरणेन विक्रीषूणां महीयोव्यव हारिपुरुषाणां मुक्तिक्रयाणकं तद्वर्णिकामिव प्रांश्वकृतशृङ्गकरेण प्रदर्शयन्, किं वा श्रीसङ्घ- - समागमसमुत्थं हर्षप्रकर्षं बहिः किरन् किं वा स्वं प्रति लोकत्रयीलोकविहितेन सादरपूजासन्मानेनात्मानं बहुमन्यमान इवापरपर्वतानामवहीलनाथ स्फुटाट्टहासमिवोद्रमन्, ईषदुन्मिषंददभ्रदर्भाङ्कुरप्रकरदम्भेन खसमीपवर्त्तिनं श्रीसुविधिसङ्घमवलोक्य प्रीणितान्तर इव रोमाञ्चसञ्चयं विष्वकदु (?) द्वहन् ; किं बहुना - देवदानवमानवमनोऽसम्भाव्यप्रभावविभवः; यतः 25 अस्य प्रभावजलधेरपरं पराप्यते, पारं कथं कथमहो ! नु नृदेवमात्रकैः । ख्यातिं गतस्त्रिभुवनेऽत्र दृषन्मयोऽपि यः सर्वाङ्गिलोचनसुखाय सुधारसायते ॥ ५८ ॥ मन्येऽहमस्य महिमा परमाणुदृश्वनामप्यास्पदं नहि करोति धियं ह्यचिन्त्यभूः । सन्तारणाय जगतामचलाश्मकोऽपि यः, पोतायते निपततां भवभीष्मसागरे ॥ ५९ ॥ For Private & Personal Use Only 30 www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy