SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ २४८ नि. (१४६२) देहमइजड्डुसुद्धी सुहदुक्खतितिक्खया अनुप्पेहा । झाय य सुहं झाणं एयग्गो काउसग्गंमि ॥ आवश्यक मूलसूत्रम् - २ - ५ / ३७ वृ- 'देहमतिजड्डुसुद्धी'ति देहजाड्यशुद्धिः श्लेष्मादिप्रहाणतः मतिजाड्यशद्धिः तथावस्थितस्योपयोगविशेषतः, 'सुहदुक्खति - तिक्खय'त्ति सुखदुःखतितिक्षा सुखदुःखातिसहनमित्यर्थः, 'अनुप्पेहा' अनित्यत्वाद्यनुप्रेक्षा च तथाऽवस्थितस्य भवति, तथा 'झायइ य सुहं झाणं' ध्यायति च शुभं ध्यानं धर्मशुकुलक्षणं, एकाग्रः - एकचित्तः शेषव्यापाराभावात् कायोत्सर्ग इति, इहानुप्रेक्षा ध्यानादौ ध्यानोपरमे भवतीतिकत्वा भेदेनोपन्यस्तेति गाथार्थः ॥ इह ध्यायति च शुभं ध्यानमित्युक्तं, तत्र किमिदं ध्यानमित्यत् आहनि. (१४६३) अंतोमुहुत्तकालं चित्तस्सेगग्गया हवइ झाणं । तं पुन अहं रुद्द धम्मं सुकं च नायव्वं ॥ वृ- 'अंतोमहुत्तकालं' द्विधटिको मुहूर्तः भिन्नो मुहूर्तोऽन्तर्मुहूर्त इत्युच्यते, अन्तर्मुहूर्त्तकालं चित्तस्यैकाग्रता भवति ध्यानं 'एकाग्रचित्तनिरोधो ध्यान' मितिकृत्वा, तत् पुनरार्त्तं रौद्रं धर्मं शुकुं च ज्ञातव्यमित्येषां च स्वरूपं यथा प्रतिक्रमणाध्ययने प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः || नि. (१४६४ ) तत्थ य दो आइल्ला झाणा संसारवडणा भणिया । दुनिय विमुक्खहेऊ तेसिऽहिगारो न इयरेसिं ॥ वृ- 'तत्थ उ दो आइल्ला' गाथा निगदसिद्धा । साम्प्रतं यथाभूतो यत्र यथावस्थितो यच ध्यायति तदेतदभिधित्सुराहनि. (१४६५) संवरियासवदारा अव्वाबाहे अकंटए देखे । काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा ॥ वृ- 'संवरियासवदार' त्ति संवृतानि स्थगितानि आश्रवद्वाराणि प्राणातिपातादीनि येन स तथाविधः क्व ध्यायति ? - 'अव्याबाधे अकंटए देसे' त्ति, अव्याबाधे - गान्धर्वादिलक्षणभावव्याबाधाविकले अकण्टके - पाषाणकण्टकादिद्रव्यकण्टक-विकले 'देशे' भूभागे, कथं व्यवस्थितो ध्यायति ? - 'काऊण थिरं ठाणं ठितो निसण्णो निवन्नो वा' कृत्वा स्थिरं निष्कम्पं (अव) स्थानं - अवस्थितिविशेषलक्षणं स्थितो निषण्णो निवण्णो वेति प्रकटार्थं । नि. (१४६६) चेयणमन्रवणं वा वत्युं अवलंबिउं घनं मनसा | झायइ सुअमत्थं वा दवियं तप्पज्जए वावि ।। वृ- चेतनं-पुरुषाधि अचेतनं प्रतिमादि वस्तु अवलम्ब्य विषयीकृत्त्वा (त्य) घनं ढं मनसाअन्तः करणेन यत् ध्यायति, किं ? तदाह - 'झायति सुयमत्थं वा' ध्यायतीति सम्बध्यते, सूत्रं - गणधरादिभिर्बद्धं अर्थं वा तद्गोचरं किंभूतमर्थमत आह- 'दवियं तप्पज्जवे वाचि' द्रव्यं तत्पर्यायान् वा, इह च यदा सूत्रं ध्यायति तदा तदेव स्वगतधर्मैरालोचयति, न त्वर्थं, यदा त्वर्थं न तदा सूत्रमिति गाथार्थः । अधुना प्रागुक्तचोद्यपरिहारायाहनि. ( १४६७) तत्थ उ भणिज कोई झाणं जो मानसो परीणामो । तं न हवइ जिनदिट्ठे झाणं तिविहेवि जोगंमि | For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy