SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - २ - [ नि. १०९८] नि. (१०९९ ) बोधिलाभप्राप्तावपि जिनभक्तिमात्रादेव पुनर्बोधिलाभो भविष्यत्येव, किमनेन वर्तमानकालदुष्करेणानुष्ठानेनेत्येवंवादिनमनुष्ठानप्रमादिनं सत्त्वमधिकृत्यौपदेशिकमिदं गाधाद्वयमाहद्धिल्लिअं च बोहिं अकरितोऽनागयं च पत्थंतो । दच्छिसि जह तं विभल । इमं च अन्नं च चुक्किहिसि ।। लद्धिल्लिअं च बोहिं अकरितोऽनागयं च पत्थंतो । अन्नंदाई बोहिं लब्भिसि कयरेण मुल्लेण ? नि. (११०० ) - वृ~ 'लद्वेल्लियं च ' ति लब्धां च प्राप्तां च वर्तमनकाले, कां?, 'बोधि' जिनधर्मप्राप्तिम, 'अकुवृन' इति कर्मपराधीनतया सदनुष्ठानेन सफलामकुर्वन् 'अनागतां च' आयत्यामन्यां च प्रार्थयन किम ? द्रक्ष्यसि यथा त्वं है विह्वल ! - जडप्रकृते ! इमां चान्यां बोधिमधिकृत्य, किं ? 'चुक्किहिसि' देशीवचनतः भ्रश्यसि न भविष्यतीत्यर्थः ।। तथा लब्धां च बोधिमकुर्वन्ननागतां च प्रार्थयन, अन्नंदाईति निपातः असूयायाम्, अन्ये तु व्याचक्षते - अन्यामिदानीं बोधिं लप्स्यसि, किं ?, कतरेण मूल्येन ?, इयमत्र भावना- बोधिलाभे सति तपः संयमानुष्ठानपरस्य प्रेत्य वासनावशात्तत्तत्प्रवृत्तिरेव बोधिलाभोSभिधीयतं, तदनुष्ठानरहितस्य पुनर्वासनाऽभावात्तत्कथं तत्प्रवृत्तिरिति बोधलाभानुपपत्तिः, स्यादेतद्, एवं सत्याद्यस्य बोधिलाभस्यासम्भव एवोपन्यस्तः, वासनाऽभावात, न, अनादिसंसारे राधावेधोपमानेनानाभोगत एव कथञ्चित्कर्मक्षयतस्तदवाप्तेरित्येतदावेदितमेवोपोदघात इत्यलं विस्तरेणेति गाधाद्वयार्थः । । तस्मात्सति बोधिलाभे तपस्संय-मानुष्ठानपरेण भवितव्यं, न यत्किञ्चिचैत्याघालम्बनं चेतस्याधाय प्रमादिना भवितव्यमिति, तपस्संयोमद्यमवतश्चैत्यादिषु कृत्याविराधकत्वात तथा चाऽऽह नि. (११०१ ) चेइयकुलगणसंघे आयरिआणं च पवयण सुए अ । सव्वेसुवि तेन्न कयं तवसंजममुज्जमंतेणं ।। २१ वृ- चैत्यकुलगणसङ्घेषु तथाऽऽचार्याणां च तथा प्रवचन श्रुतयोश्च किं ?, सर्वेष्वपि तेन कृतं, कृत्यमिति गम्यते, केन ?, तपः संयमोद्यमवता साधुनेति, तत्र चैत्यानि - अर्हत्प्रतिमालक्षणानि, कुलंविद्याधरादि, गणः - कुलसमुदायः सङ्घः- समस्त एव साध्वादिसङ्घातः, आचार्याः प्रतीताः, चशब्दादुपाध्यायादिपरिग्रहः, भेदाभिधानं च प्राधान्यख्यापनार्थम, एवमन्यत्रापि द्रष्टव्यं, प्रवचनंद्वादशाङ्गमपि सूत्रार्थतदुभयरूपं, श्रुतं सूत्रमेव, चशब्दः स्वगतानेकभेदप्रदर्शनार्थेः, एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं सस्तपः संयमोद्यमवान वर्तते, इयमत्र भावना - अयं हि नियमात् ज्ञानदर्शनसम्पन्नो भवति अयमेव च गुरुलाधवमालोच्य चैत्यादिकृत्येषु सम्यक् प्रवर्तते यथैहिकामुष्मिक गुणवृद्धिर्भवति, विपरीतस्तु कृत्येऽपि प्रवर्तमानोऽप्यविवेकादकृत्यमेव संपादयति, अत्र बहु वक्तव्यमिति गाथार्थः । एवं तावद्रतं सूत्रमूल एवं मए अभिथुए' त्यादि गाथाद्वयं साम्प्रतंमू. (९) चंदेसु निम्मलयरा आइचेसु अहिअं पयासयरा । - सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ।। वृ- इह प्राकृतशैल्या आर्षत्वाच्च पञ्चम्यर्थे सप्तमी द्रष्टव्येति, चन्द्रेभ्यो निर्मलतराः, पाठान्तरं वा 'चंदेहिं निम्मलयर' त्ति, तत्र सकलकर्ममलापगमाञ्च्चन्द्रेभ्यो निर्मलतरा इति, तथा आदित्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy