SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.८४८] ३१७ तक्रियोपलब्ध्यादेः सम्यग्दर्शनलाभो भवतीत्यध्याहारः, विरताविरतेच विरतेचेति गाथार्थः। कथमिति द्वारं गतं । तदित्यं लब्धं सत् कियच्चिरं भवति कालं ?, जघन्यत उत्कृष्टतश्चेति प्रतिपादयन्नाहनि. (८४९) सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई ठिई । सेसाण पुनकोडी देसूणा होइ उक्कोसा ।।। वृ- सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः, कथं ? 'विजयाइसु दो वारे गयस्स तिण्णच्चुए व छावट्ठी । नरजम्मपुव्वकोडी मुत्तमुक्कोसओ अहियं ।।१।। 'शेषयोः' देशविरतिसर्वविरतिसामायिकयोः पूर्वकोटी देशोना भवति, 'उक्कोस'त्ति उत्कृष्टस्थितिकालः, जघन्यतस्त्वाद्यत्रयस्यान्तर्मुहूर्त, सर्वविरतिसामायिकस्य समयः, चारित्रपरिणामारम्भसमयानन्तर-मेवाऽऽयुष्कक्षयसम्भवात्, देशविरतिप्रतिपत्तिपरिणामस्त्वान्तमौहूर्तिक एव, नियमितप्राणाति-पातादिनिवृत्तिरूपत्वात्, उपयोगापेक्षया तु सर्वेषामन्तर्मुहूर्तः सर्वजीवानां तु सर्वाणि सर्वदैवेति गाथार्थः ॥ अधुना कइत्ति द्वारं व्याख्यायते-कतीति कियन्तः वर्तमानसमये सम्यक्त्वादिसामायिकानां प्रतिपत्तारः प्राक्प्रतिपन्नाः प्रतिपतिता वेति, अत्र प्रतिपमानकेभ्यः प्राक्प्रतिपन्नप्रतिपतितसम्भवात्तानेव प्रतिपादयन्नाहनि. (८५०) सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ। सेढीअसंखभागो सुए सहस्सग्गसो विरई॥ वृ. सम्यक्त्वदेशविरताः प्राणिनः क्षेत्रपलितस्यासङ्ख्येयभागमात्रा एव, इयं भावनाक्षेत्रपलितासङ्ख्येयभागे यावन्तः प्रदेशास्तावन्त एव उत्कृष्टतः सम्यक्त्वदेशविरतिसामायिकयोरेकदा प्रतिप्रत्तारो भवन्ति, किन्तु देशविरतिसामायिकप्रतिपत्तृभ्यः सम्यक्त्वप्रतिपत्तारोऽ. सङ्ख्येयगुणा इति, जघन्यतस्त्वेको द्वौ वेति । 'सेढीअसंखभागो सुएत्ति इह संवर्तितचतुरस्त्रीकृतलोकैकप्रदेशनिवृत्ता सप्तरज्ज्वात्मिका श्रेणिः परिगृह्यते, तदसङ्ख्येयभाग इति, तस्याः खल्वसङ्ख्येयभाग यावन्तः प्रदेशास्तावन्त एव एकदोत्कृष्टतः सामान्यश्रुत-अक्षरात्मके सम्यग्मिथ्यात्वानुगते विचार्यो प्रतिपत्तारो भवनन्तीति हृदयं, जघन्यतस्त्वेको द्वौ वेति । 'सहस्सग्गसो विरई' सहस्त्राग्रशो विरतिमधिकृत्य उत्कृष्टतः प्रतिपत्तारो ज्ञेया इत्यध्याहारः, जघन्यतस्त्वेको द्वौ वेति गाथार्थः ॥ प्राक्प्रतिपन्नानिदानी प्रतिपादयन्नाहनि. (८५१) सम्मत्तदसविरया पडिवन्ना संपई असंखेज्जा । संखेज्जा य चरिते तीसुवि पडिया अनंतगुणा । नि. (८५२) सुय पडिवन्ना संपई पयरस्स असंखभागमेत्ता उ । सेसा संसारत्था सुयपरिवडिया हु ते सव्वे ॥ वृ-सम्यक्त्वदेशविरताः प्रतिपन्नाः ‘साम्प्रतं वर्तमानसमयेऽसङ्ख्येया उत्कृष्टतो जघन्यतश्च, किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः, एत च प्रतिपद्यमानकेभ्योऽसङ्ख्येयगुणा इति । अत्रैवान्तरे सामान्यश्रुतापेक्षया प्राक्प्रतिपन्नान् प्रतिपादयता 'सुयपडिवण्णा संपइ पयरस्स असंखभागमेत्ता उ' इदमेष्यगाथाशकलं व्याख्येयं, द्वितीयं तूत्तरत्र, तत्राक्षरात्मकाविशिष्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy