SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ ३२६ व्यवहार- छेदसूत्रम् - २ - ८/१९० अझुसिरमसंधिअबीए एक्कमुहे भंगसोलसगं ।। वृ- अशिवादिभिः कारणैस्तत्र प्रदेशेगता यो वर्षारात्रे पानीयेन प्लाव्यते, यथा सिन्धुविषयो अथवा तत्र देशे स्वभावतः प्रखराभूमिस्ततो रात्रौ शीतलवातसम्पर्कतोवश्याय-पतनतो वा जलप्लावितेव सा भूमिरुपजायते । अथवा आसन्नीभूतेन पानीयेन तमवकाशमप्राप्नुवतापिभूमिः स्विद्यति । तत्रोपधेःकोथनमाभूत् । मावाऽजीर्णेन म्लान्यमित्युपधिकोथनभयादजीर्णभयाद्वा तृणानि गृह्णन्ति । साधवस्तानि च अझुषिराणि असन्धीनि अबीजानि च एतान्येकमुखानि क्रियन्ते यत्र च अझुषिर असन्धे वा अबीज एकमुखरुपेषु चतुर्षु पदेषु भङ्ग षोडशं षोडश भङ्गाः तत्र असंतमपितदपि अझुषिरादिपदमाहकुसमादि अझुसिराई असंधबीयाई एक्कतोमुहाई । देसी पोरपमाणा, पडिलेहातिन्निवेहासं ।। [भा. ३३९३] वृ- कुशादीनि कुशवचक्रप्रभृतीनि तृणानि अभ्कूषिराणि असन्धीनि अबीजानि च भवन्ति तानि एकमुखानि कर्तव्यानि । तत्र भङ्गपोडशमध्ये यत्र भङ्गेषु झुपिराणि तत्र प्रायश्चित्तं चत्वारो लघुकाः । बीजेषु प्रत्येकेषु पञ्चारात्रिंदिवानि लघुकानि अनन्तकायिकेषु गुरुकाणि । शेषेषु भङ्गेषु मासलघु, प्रथमे भगृह्णतः शुद्धा पौरेत्यादि देशीत्यङ्गुष्टोऽभिधीयते । तस्य यत्पर्व तत्प्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानां च तृणानि भवन्ति । इयमत्र भावना - अङ्गुष्टस्य यत्पर्वं तत्राङ्गुलाग्राणि स्थापयित्वा यावद्भिस्तृणैर्मुष्टिरांपूर्यते तावन्ति मुष्टिप्रमाणानि जिनकल्पिकानां स्थविरकल्पिकानां च तृणानि भवन्ति । तेषां च तृणानां प्रत्युपेश्रास्तिस्रस्तद्यथाप्रभाते मध्याह्ने अपराह्णे च । यदा च भिक्षादौ गच्छन्ति तदा हियसि कुर्वन्ति । साम्प्रतमेतदेव किञ्चिद्व्याचिख्यासुराह [भा. ३३९४ ] अंगुठपुव्वमेत्ता जिणाण थेराण होति संडासो । भूमिए विरल्लेउं अवनेत्तु पमज्जए भूमिं । । वृ- अङ्गुष्टपर्वमात्राणि अङ्गुष्टपर्वपरिमितमुष्टिप्रमाणानि जिनानां जिनकल्पिकानां स्थविराणां स्थविर कल्पिकानां भवन्ति । तैश्च तृणैः संस्तारक आस्तीर्यमाणस्तावद्भवन्ति यावत्सण्डासः तानि च भूमौ विरल्य शयनार्थं विरलीकृत्य भूमि प्रमार्जन समये अपनीय भूमिं प्रमार्जयति । गेलन्न उत्तमठ्ठे उम्मग्गेणं तु वत्थसंथारो । [भा. ३३९५] असतीए अभ्कुसिराई खराडसतीए वज्झसिरावि ।। वृ- यो नाम ग्लानो यो वा प्रतिपन्नोत्तमार्थः कृतानशनप्रत्याख्यानः तस्मिन् द्वयेऽपि संस्तारक उत्सर्गतो वस्त्ररूपः क्रियते तस्य कोमलतया समाधिभावात् असति अविद्यमाने वस्त्ररूपे संस्तारके अझुषिराणि कुशवच्चकप्रभृतीनि मृग्यन्ते । अथ तानि खराणि यदि वा न सन्ति तदा झुषिराण्यपि शाल्यादि पलालमयान्यानेतव्यानि [भा. ३३९६] तद्दिवसं मलियाई अपरिमिय सयं तुयट्टजयणाए । उभयठ्ठि ऊठिएऊ चंकमण विजकजेवा ।। वृ- तद्दिवसं प्रति दिवसं मलितानि तृणान्युत्सार्यन्ते । अन्यानि च समानयिन्ते तानि वा परिमितानि गृह्यन्ते यथा समाधिर्भवति तथा सकृत् एकवारं तुयट्टानि प्रस्तारितानि तिष्ठति, तत्र यतनया करणं उभयं नाम उच्चारः प्रस्त्रवणं च तदर्थमुत्थिते ग्लाने उत्तमार्थे वा अन्यो निषीदति किं कारणमिति चेत्प्राणिदयार्थमन्यथा शुषिरभावस्तत्रागन्तुकाः प्राणास्तृणान्युपालीयेरन् स तावन्निषीदति यावत्स तत्र For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy