________________
उद्देशक :-८, मूल - १८७, [भा. ३३७८]
३२३ कृतौ ऋतुबद्धे काले वर्षाकाले वा पर्युषितस्तस्मिन् गाहे सूत्रे स्त्रीत्वं प्राकृतत्वात्तदेवमुत्तरत्रापि तस्मिन् प्रदेशेऽन्तर्बहिरादिलक्षणे तस्मिन्नवकाशान्तरे द्वयोर्मध्यभागलक्षणे यत् यत् शय्यासंस्तारकं शय्यासंस्तारकभूमिलाभस्तत्ममैवस्यादितिब्रूते । तत्रयदिस्थविरास्तस्याशठभावमवगम्यानुजानन्ति, तदातस्यैवस्यादथ से तस्य शठभावंमवबुध्य स्थविरा नानुजानते । एवं तर्हि से तस्य कल्पते यथा रालिकतया यथा रत्नाधिकतया शय्यासंस्तारकंशय्यासंस्तारकभूमिं परिग्रहीतुमितिसूत्रसंक्षेपार्थः । [भा.३३७९] गाहाघरे गिहेया एगठा होति उग्गहे तिविहो ।
उउबद्धे वासासुय वुड्डावासे यनाणत्तं ।। वृ-गाहा इतिधरमिति गिहमितिवाएते त्रयोऽप्येकार्थास्तच्च गृहं त्रिविधे अवग्रहभवति । तद्यथाऋतुबद्धसाधर्मिकावग्रहे वर्षावाससाधर्मिकावग्रहे तत्रऋतुरिति ऋतुबद्धावग्रहो गृहीतः । पञोसविते इत्यनेन वर्षावग्रहः । एतयोर्द्धयोरप्यवग्रहयोरंतः प्रविष्टइतिकृत्वासामर्थ्यतस्तृतीयोऽपिवृद्धावासावग्रहो गृहीतस्तथाचाह-वृद्धावासेचतत्रत्रिष्नप्यवग्रहेषुयन्नानात्वंतत्प्रत्येकसूत्रेषु वक्ष्यामीतिवाक्यशेषः । [भा.३३८०] चाउस्सालादिगिहंतत्थ पदेसोउ अंतो बाहिं वा ।
उवासंतरमो पुन अमुगाणंदोण्ह मज्झभि ।। वृ-चतुःशालादिगृहमादिशद्वादेकशालद्विशालत्रिशालपरिग्रहः । तस्यप्रदेशाअन्तरबहिरासन्नदूरादि लक्षणां अवकाशान्तरंनाम अमुकयोद्धयोर्मध्यमिति । तदेवं कृता भाष्यकारेण विषमपदव्याख्या । [भा.३३८१] खेत्तस्सउ संकमणे कारण अन्नत्थपट्टविजंतो ।
पुबुद्दिठे तंमिउउवासे सुत्तनिद्देसो ।। वृ- आचार्य ऋतुबद्धकालनिमित्तं वर्षाकालनिमित्तं वा अन्यत्क्षेत्रं संक्रमितुमना अजायत । तत क्षेत्रस्य संक्रमणे कर्तव्येऽन्यस्मिन् वा आत्मनः कारणे समुत्पन्ने कंचित्साधुमन्यत्र प्रस्थापयेत् । स च प्रस्थाप्यमानः पूर्वोद्दिष्टे तस्निवकाशे आचार्यान् विज्ञयति । अस्मिन् प्रस्तावेऽधिकृतसूत्रस्य निर्देशो भणनं । इयमत्रभावनायोऽसौप्रस्थाप्यतेतेन तत्गृहंदृष्टंयदिवायोऽन्यः पूर्वक्षेत्रप्रत्युपेक्षणाय गतस्तेन तस्य सम्यक्कथितंयथाऽमुक प्रदेशो निवादोऽमुकः प्रवातोऽमुकः साधारणोऽमुकः सुखावहोऽमुको दुःखावहोऽमुकःसालोकोऽमुको निरालोकस्ततःसप्रस्थाप्यमान आचार्य विज्ञपयति । यथाममश्लेष्मा प्रस्पन्दतेऽथवा प्रवाते स्वपतोऽजीर्णमुपजायते यदि वा धर्ममध्यासिनुं न शक्नोमि । अथवा अमुकं अमुकंचसाधुमहंसदैवप्रतिपृच्छामित्ततएतयोमध्येममशय्यासंस्तारभूमिमनुजानीतयदिवा प्रस्थापित स्तत्र गत्वा तत्गृहमालोक्यात्मनः संसाधकं प्रदेशमाचार्यस्य श्लेष्मप्रस्पन्दनादिकारणप्रकाशनपुरस्सरं सन्देशयति यथामुकाममुकांमे संस्तारकभूमिमनुजानीतेति तथा चाह[भा.३३८२] दीवेउंतंकजं गुरुंच अन्नं व सोउ अप्पाहे ।
तेवियतंभूयत्थंनाउं असढस्स वियरंति ।। वृ-तत्श्लेष्मप्रस्यन्दनादिकार्य दीपयित्वाप्रकाश्य गुरुमाचार्यमन्यं वा स्पर्धकपतिमुपाध्यायादिकं अप्पाहेति सन्देशयति । तेऽपि च गुरवोऽन्ये वा यत्सन्दिष्टं साक्षात्कथितं वा तत् भूतार्थं यथावस्थितं ज्ञात्वा तस्याशठस्यतांशय्यासंस्तारकभूमिं वितरन्ति । [भा.३३८३] अह पुन कन्दप्पातीहिमगते तो उतस्स नदलंति ।
एयं तुपिंडसुत्ते पत्तेय इहं तुयुच्छमि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org