________________
उद्देशक : २. मूलं : ६१ [भा. १३०० ]
३७९
रोपसम्पत्तौ न प्रश्नहेतोर्गणभेदः स्यात् । सम्प्रति श्रुतानेक पाक्षिकयावत्कथिकाचार्यस्थापने दोषमाहन तरइ सो संधेयं अप्पाहारो वि पुच्छियं देइ । अन्नत्थ व पुच्छंते सचित्तादीउ गिण्हंति ||
[भा. १३०१ ]
वृ स श्रुतानेक पाक्षिकस्थापितो यावत्कथिको आचार्यो भिन्नवाचकत्वात् न शक्तोति संधातुं विस्मृतमालापकं दातुमथवा श्रुतानेकपाक्षिकोऽल्पश्रुतोप्युच्यते । ततोऽल्पा धारः अल्पस्य सूत्रार्थस्य चाश्रय इति पृष्टः सन्नन्यं प्रष्टुमालापकं ददाति । अन्यत्र च गणान्तरे गत्वा पृच्छति ते गच्छान्तरवर्तिन आचार्यास्तेनात्पादितं सचित्तादिकं गृह्णन्ति अगीतार्थानां न किञ्चिदाभाव्यमिति जिनवचनात्तस्य च तेषां समीपे पृच्छनात् । उपसंहारमाह
[ भा. १३०२ ]
सुयती अनंगपक्खं एए दोसा भवे ठवंतस्स । पव्वज्जणेगपक्खित, स्वयंते इमे भवे दोसा ।।
वृ- श्रुतोनेकपक्षिणमित्वरं यावत्कथिकं वाचार्य स्थापयत एते अनन्तरोक्तदोषा भवन्ति । प्रव्रज्यानेकपक्षिणं पुनरित्वरं यावत्कथिकं वा स्थापयत इमे वक्ष्यमाणा भवंति दोषाः ।
तानेव प्रतिपादयिषुराह [भा. १३०३]
दोन्हवि बाहिर भावो सचित्तादीसुभंडणा नियमा ।
होइस गणस्स भेदी सुचिरेण नए अम्हत्ति ।।
वृ- प्रव्रज्यानेकपाक्षिकेत्वऱ्यावत्कथिकाचार्यस्थापने द्वयोरपि गच्छस्य वाचार्यस्येत्यर्थः । बहिर्भावो बहिर्भावाध्यवसायो भवत् तथाहि योऽसौ स्थापित आचार्यः स गच्छवर्तिनः साधुन समस्तानपि परकीयान्मन्यते । साधवोऽपि च गच्छवर्तिनस्तं परमभिमन्यते । एवं परस्परं बहिभावाध्यवसाये सति स्थापितस्याचार्यस्य गच्छवर्तिनां च साधुनामनिभाव्यानि सचित्तादीनि गृह्णतां नियमात् भण्डनं कलहो भवति । तथा च सति प्रवचनोड्डाहः प्राकल्पव्यावर्णितप्रायश्चितप्रायश्चित्तापत्तिश्च अन्यच्च गच्छवर्तिनस्ते साधवो मन्यन्ते सुचिरेणापि प्रभूतेनापि कालेन गच्छता नास्माकमेप परकीयत्वात् । उपलक्षणमेतत् । सोऽप्यभिमन्यते सुचिरेणाप्येत परकीया इत्येवं परस्परमध्यवसायभावतो गणस्य गच्छस्य भेदोभवन्ति । तस्मादित्वरो यावन्कथिको वा प्रथमभङ्गवर्ती स्थापयितव्यः, अत्रैवापवादमाह[भा. १३०४] अन्नयरनिगिच्छाए पढमासति तइय भंगमित्तरियं ।
तईय स्सेवस बितितो तरसाणति चउत्थी ।।
वृ- अन्यतरचिकित्सायां मोहे चिकित्सायां वाचार्यमित्वरभुपलक्षणमेतत्। अभ्युद्यतमरणप्रतिपत्तौ अभ्युद्यतविहारपरिकर्मप्रतिपत्तौ वा यावत्कथिकमाचार्यमुत्सर्गतः प्रथमभङ्गवर्तिनं स्थापयेत्, प्रथमभङ्गवर्तिनोऽसति अभावे तृतीयं तृतीयभङ्गवर्तिनमित्वरमुपलक्षणमेतत् । यावत्कथिकं वा स्थापयेत्, तत सूत्रेऽर्थे च सशीघ्रं निष्पादयितव्यः । तृतीयस्यापि तृतीयभङ्गत्वर्तिन एव शब्दार्थः । असत्यभावे पुनर्द्वितीयो द्वितीयभङ्गचर्ती स्थाप्यस्तस्याप्यसति अभावे चतुर्थभंगवर्त्ती । तत्र योऽसौ चतुर्भङ्गवर्ती स्थापयितव्यी भवति स एतादृशगुणः
[भा. १३०५ ]
पवतीए भिउसहावं पगतीए संमतं विनीतं वा । नाऊण गणस्स गुरुं टविंति अनेगपक्खिपि ।।
वृ अनेकपत्तिणमपि प्रव्रज्यापक्षरहितं श्रुतसमानपक्षरहितमपि प्रथमद्वितीय भङ्गवर्त्यसंभवे प्रकृत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org