SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १६४ व्यवहार -छेदसूत्रम्-१-१/१४ गुणास्तावद्धता एव, किंतुमूलगुणा अपि हन्यते तथा चात्र दृष्टांतमाह - [भा,४६८] अग्गग्घातो हणेमूलं, मूलघातोउ अग्गयं । तम्हा खलु मूलगुणा नसंतिनय उत्तरगुणाय ।। वृ- यथा तालद्रुमस्याग्रसूच्या घातो मूलं हंति मूलघातापि चागं हंति, एवं मूलगुणानां विनाश उत्तरगुणानपिनाशयति, उत्तरगुणानामपि विनाशोमूलगुणान्तस्मात्मूलगुणातिचाराश्चजिनैः प्रतिक्रुष्टाः, अत्र चोदक आह, यदि मूलगुणानां नाशे उत्तरगुणानामपि नाश उत्तरगुणानां नाशे मूलगुणानामपि, तस्मात्ततोनखलुनैव मूलगुणा संति, नाप्युत्तरगुणाः यस्मान्नास्तियसंयतो, यो मूलोत्तरगुणानामन्यतमं गुणंनप्रतिसेवते,अन्यतमगुणप्रतिसेवने च द्वयानामपिमूलोत्तरगुणानामभावः, तेषामभावेसामायिकादिसंयमाभावः, तदभावेवकुशादिनिर्गथानामभावस्ततः प्राप्तं तीर्थमचारित्रमिति, अत्रसूरिराह - [भा.४६९) चोयग छक्कायाणं,तुसंजमोजाऽनुधावएताव । मूलगुणउत्तरगुणा दोणिवि अनुधावते ताव ।। वृ-चोदक यावत्पट्जीवनिकायेषुसंयमोऽनुधावति, अनुगच्छति,प्रबंधन वर्तते, तावत्मूलगुणा उत्तगुणाश्च द्वयेप्येते अनुधावंति, प्रबंधन वर्तते । इत्तरसामाइयथ्यसंजमातहदुवे नियंठाय | बउस पडिसेवगातो अनुसजंते यजा तित्थं ।। वृ- यावत् मूलगुणा उत्तरगुणाश्चानुधावंति, तावदित्वरसामायिकछेदसंयमावानुधावतः, यावच्चत्वरसामायिकछेदोपस्थापनसंयमौतावद्द्वौ निग्रंथावनुधावतः तद्यथा बकुशःप्रतिसेवकश्चतथाहि यावत्मूलगुणप्रतिसेवना, तावत्प्रतिसेवको, यावदुत्तरगुणप्रतिसेवना,तावबकुशः, ततोयावत् तीर्थ तावत् बकुशाः प्रतिसेवकाच अनुसजेति, अनुवर्तते, ततो नाचारित्रं प्रसक्तं प्रवचनमिति, अथ मूलगुणप्रतिसेवनायामुत्तरगुणप्रतिसेवनायां वा चारित्रभ्रंशेऽस्ति कश्चिद्विशेष उत नास्ति ? अस्तीति बूमः, कोसावित्याहभा.४७१] मूलगुणदइयसगडे, उत्तरगुणमंडवेसरिसवाई ! छक्कायरक्खणट्ठा दोसुविसुद्धे चरणसुद्धी ।। वृ-मूलगुणेषुदृष्टांतो इतिः, शकटंच केवलम्,उत्तरगुणा अपितत्रदर्शयितव्याः, उत्तरगुणेषु दृष्टांतो मंडपे सर्पपादि, आदिशब्दात् शिलादिपरिग्रहः, अत्रापि मूलगुणा अपि दर्शवितव्याः इयमत्रभावना, एकेनापि मूलगुणप्रतिसेवनेन ततक्षणादेव चारित्रभ्रंश उपजायते, उत्तरगुणप्रतिसेवनायां पुनः कालन अत्र दृष्टांतो दृतिकः, तथाहि यथा दृतिक उदकभृतः, पंचमहाद्वारस्तेषां महाद्वाराणामेकस्मिन्नपि द्वारे मुत्कलीभूते तत्क्षणादेव रिक्तीभवति, सुचिरेण तु कालेन पूर्यते, एवं महाव्रतानामकस्मिन्नपि महाव्रत अतिचर्यमाणे तत्क्षणादेव समस्त चारित्रभ्रंशोभवति, एकमूलगुणघाते सर्वमूलगुणानां घातात्, तथा चगुरखोव्याचक्षते, एकव्रतभंगेसर्वव्रतभंगइति, एतन्निश्चयनयमतं,व्यवहारतः पुनरेकव्रतभंगेतदेवैकं भग्नं प्रतिपत्तव्यं, शेषाणां तु भंगः क्रमेण, यदि प्रायश्चित्तप्रतिपत्या नाऽनुसंधत्ते इति, अन्ये पुनराहु श्चतुर्थमहाव्रतप्रतिसंवने तत्कालमेव सकलचारित्रभ्रंशः, शेषेसु पुनर्महाव्रतेष्वभीक्ष्णं प्रतिसेवनया महत्यतिधरणे वा वेदितव्यः, उत्तरगुणप्रतिसेवनायां पुनः कालेन चरणभ्रंशो, यदि पुनः प्रायश्चित्तप्रतिपत्त्या नोचालयति, एतदपि कुतोऽवसंयमिति चेत् उच्यते, ते शकटदृष्टांतात्तथाहि, शकटस्य Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy