SearchBrowseAboutContactDonate
Page Preview
Page 1014
Loading...
Download File
Download File
Page Text
________________ उद्देशकः-१०, मूलं-२६५, [ भा. ४६००] ५२९ पत्तजहंते संभुजणा य भूतित्तिय विवेगो॥ वृ. शैक्षकस्य तिस्रो भूमयो वक्तव्याः । सूत्रोपात्तत्वात्तथा शैक्षका द्विविधाः परिणामका वक्तव्याः। द्वौ च जडौ तथा प्रात्राणि पात्रभूतान् त्यजति दोषा वक्तव्याः। संभोजना च तथा भूमित्रिकस्यं जलमूककरणजड्डलक्षणस्य विवेकः परित्यागो वक्तव्यः एष गाथाद्वारसंक्षेपार्थः । व्यासार्थस्तु प्रतिद्वारमभिधातव्यः। तत्र प्रथमतो भूमिद्वारमाहभा.[४६०१] सेहस्स तिन्निभूमी जहन्न तह मज्झिमा य उक्कोसा। राइंदिव सत्त चउमासिया य छम्मासिया चेव।। व.शैक्षकस्य तिस्पो भूमयस्तद्यथा-जघन्या मध्यमा उत्कृष्टा च तत्र जघन्या सप्तरात्रि दिवा, मध्यमा चातुर्मासिकी उत्कृष्टा षण्मासिकी। भा.[४६०२] पुव्वोवट्ठपुराणे करणजयट्टा जहनिया भूमी। उक्कोसा दुम्मेहं पमुच्च असद्दहाणं च। वृ.पूर्वमुपस्थ उपस्थितः पूर्वोपस्थः स चासौ पुराणश्च पूर्वोपस्थपुराणस्तस्मिन् करणजयाय जघन्या भूमिर्भवति । इयमत्र भावना-यः पूर्वप्रव्रज्योत्प्रवृजितः पश्चात्पुनरपि प्रव्रज्या प्रतिपन्नवान् स सप्तमे दिवसे उपस्थापयितव्यः । तस्य दि यावद्भिर्दिवसः पूर्वविस्मृतसामाचारीकरणमत्यन्तदुःप्रभवति । एष जघन्या भूमिर्दुर्मेधसमग्रदधानं च प्रतीत्य उत्कृष्टा षण्मासिकी भूमिः । भा.[४६०३] एमेव य मज्झमिया अनहिज्जंते य सद्दहंते य। भावियमेहाविस्सविकरणजयट्ठाय मज्झमिया।। वृ. एवमुक्ते उत्कृष्टे च अनधियाने अश्रद्दधाने च माध्यमिका: भूमिः प्रतिपत्तव्या। अथवा भावितस्यापि श्रद्दधानस्यापि मेधाविनश्चापि च करणजया) मध्यमिका भूमिः। भा.[४६०४] आणा दिटुंतेन य दुविहो परिणामगो समासेणं। आया परिणामो खलु तत्थ इमो होइ नायव्वो।। वृ.स द्विविधः परिणामको भवति तद्यथा आज्ञया दृष्टान्तेन, तत्र समासेन संक्षेपेणआज्ञापरिणाम: खल्वयं वक्ष्यमानो भवति तमेवाहभा.[४६०५] तमेव सच्चं नीसंकं, जंजिणेहिं पवेइयं। आणाए अक्खातो जिनेहिं परिणामगो।। वृ. तदेव सत्यं यज्जिनः प्रवेदितमित्येवं यो नि:शङ्कं श्रद्दधाति न च कारणं जानीते एष आज्ञया परिणामको जिनैराख्यातः । दृष्टान्तपरिणामकमाहभा.[४६०६] परोक्खं हेउगं अत्थं पच्चक्खेण उ साहयं । जिनेहिं एस अक्खातो दिटुंतपरिणामगो।। वृ.परोक्षहेतुकं हेतुना लिङ्गेन गम्यं तं हेतुकमर्थं प्रत्यक्षेण प्रत्यक्षप्रसिद्धेन दृष्टान्तेन साधयन् आत्मबुद्धावारोपयन् यो वर्तते एष दृष्टान्तपरिणामको जिनैराख्यातो दृष्टान्तेन विवक्षितमर्थ परिणामयत्वात्मबुद्धावारोपयतीति दृष्टान्तपरिणामक इति व्युत्पत्तेस्तत्राज्ञापरिणामक आज्ञयैव कायान् श्रद्दधाति । दृष्टान्तपरिणामकस्तु दृष्टान्तेन श्रद्दधापयितव्य इति तस्य कायश्रद्धानोत्पाद(22/34 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy