________________
२९४
बृहत्कल्प-छेदसूत्रम् - १-१/६
ग्रामो भवतु ? अपि च एवंब्रुवतो भवतो भूयसामि परस्परमतिदवीयसां ग्रामाणाभेकग्रामतैव प्रसजति, न चैतदुपपन्नम्, तस्माद् नैतावान् ग्रामः किन्तु 'यत्तु' यावन्मात्रं क्षेत्रं तृणहारककाष्ठहारकादयः सूर्येउत्थिते तृणाद्यर्थं गताः सन्तः सूर्ये अस्तमयति तृणादिभारकं बद्धवा पुनरायान्ति एतावत् क्षेत्रं ग्रामः २ ॥
[मा. १०९८] परसीमं पि वयंति हु, सुद्धतरो भणति जा ससीमा तु । उज्जाण अवत्ता वा, उक्कीलंता उ सुद्धयरो ॥
वृ- शुद्धतरो नैगमो भणति यद्यपि गवां गोचरक्षेत्रादासन्नतरं भूभागं तृणकाष्ठहारका व्रजन्ति तथापि ते कदाचित् परसीमानमपि व्रजन्ति तस्माद् नैतावान् ग्राम उपपद्यते, अहं ब्रवीमि - यावत् स्वा आत्मीया सीमा एतावान् ग्रामः ३ । ततोऽपि विशुद्धतरः प्राह-मैवमतिप्रचुरं क्षेत्रं ग्राम इति वोचः, किन्तु यावत् तस्यैव ग्रामस्य 'उद्यानम्' आरामस्तावद् ग्राम इति भण्यते ४ । विशुद्धतमः प्रतिभणति - एतदपि भूयस्तरं क्षेत्रम्, न ग्रामसंज्ञां लब्धुमर्हति, अहं भणामि यावद् ‘उदपानं' तस्यैव ग्रामस्य सम्बन्धी कूपः तावद् ग्राम इति ५ । ततोऽपि विशुद्धतरो ब्रूते - इदमप्यतिप्रभूतं क्षेत्रम् अतो यावत् क्षेत्रं 'अव्यक्तानि' चेटरूपाणि रममाणानि गच्छन्ति तावद् ग्रामः ६ । ततोऽपि विशुद्धतरः प्रतिवक्ति - एतदप्यतिरिक्ततया न समीचीनमाभाति ततोयावन्तं भूमागमतिलघीयांसो बालकाः 'उत्क्राडन्तः' रिङ्गन्तः प्रयान्ति तावान् ग्राम इति ७ ॥
[भा. १०९९] एवं विसुद्धनिगमस्स वइपरिक्खेवपरिवुडो गामो । ववहारस्स वि एवं संगहो जहि गामसमवाओ ।।
वृ ' एवं ' विचित्राभिप्रायाणां पूर्वनैगमाना सर्वा अपि प्रतिपत्तीर्व्यपोह्य सर्वविशुद्धनैगमस्य यावान् वृतिपरिक्षेपपरिवृतो भूभागस्तावान् ग्राम उच्यते । अथ सङ्ग्रहं व्यतिक्रम्य लाघवार्थमत्रैव व्यवहारमतमतिदिशति - "ववहारस्सवि एवं 'ति यथा नैगमस्यानेकेप्रतिपत्तिप्रकाराः प्ररूपितास्तथा व्यवहारस्याप्येवमेव प्ररूपणीयाः, तस्य व्यवहाराभ्युपगमपरायणत्वात् । सङ्ग्रहस्तु सामान्यग्राहित्वाद् यत्र ग्रामस्य-ग्रावास्तव्यलोकस्य समवायः- एकत्र मीलनं भवति तद् वानमन्तदेवकुलादिकं ग्राम इति ब्रूते ॥ इदमेव प्रकारान्तरेणाह
[भा. ११००] जं वा पढमं काउं, सेसग गामो निविस्सइ स गामो । तं देउलं सभा वा मज्झिम गोट्टो पवा वा वि ।।
वृ- यद् वा प्रथमं 'कृत्वा' निवेश्य शेषः सर्वोऽपि ग्रामो निविशते स सङ्ग्रहनयाभिप्रायेण
ग्रामः । तच्च देवकुलं वा भवेत् सभा वा ग्राममध्यवर्ती वा गोष्ठः प्रपा वा ॥ अथावग्रहपदं विवृण्वन् ऋजुसूत्रनयमतमाह
[भा. ११०१] उज्जुसुयस्स निओओ, पत्तेयघरं तु होए एक्केक्कं । उट्ठेति वसति व वसेण जस्स सद्दस्स सो गामो ॥
वृ- ऋजुसूत्रस्य स्वकीयार्थग्राहकत्वात् परकीयस्य च सतोऽप्यनभ्युपगमाद् यस्य यत् प्रत्येकमात्मीयांवग्रहरूपेकैकं गृहं तद् नियोग इति प्रतिपत्तव्यम्। नियोग इति ग्राम इति चैकोऽर्थः । आह च विशेषचूर्णिकृत्-गामो त्ति वा निओउ त्ति वा एगहूं। "तत्तोय आहिवई” इति व्याख्यानयन् शब्दनयमतमाह- "उट्ठेति" इत्यादि । 'शब्दस्य' शब्दाख्यनयस्य यस्य कस्यापि वशेन ग्रामः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org