SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१ नमो नमो निम्मल देसणस्स पंचम गणभर श्री सुधर्मास्वामिने नमः १९ निरयावलिका-उपाङ्गसूत्रम् सटीक अष्टमं उपाङ्गम् मूलसूत्रम् + चंद्रसूरिविरचिता वृत्ति (अध्ययनं-१ कालं) वृ. नमः श्रीशान्तिनाथदेवाय ॥ ॥१॥ पार्श्वनाथं नमस्कृत्य, प्रायोऽन्यग्रन्थवीक्षिता। निरयावलिश्रुतस्कन्धे, व्याख्या काचित् प्रकाश्यते। तत्र निरयावलिकाख्योपाङ्गग्रन्थस्यार्थतो महावीरनिर्गतवचनमभिधित्सुरावचार्यः सुधर्मस्वामी सूत्रकारः। मू. (१) नमः श्रुतदेवतायै ।। ते णं काले णं ते णं समए णं रायगिहे नामं नयरे होत्था, रिद्ध, (उत्तरपुरिच्छिमे दिसीभाए) गुणसिलए, चेइए, वनउ, असोगवरपायवे पुढविसिलापट्टए वृ. 'तेणं काले णं' इत्यादिग्रन्थं तावदाह-अत्र ‘णं' वाक्यालङ्कारार्थः। तस्मिन् कालेऽवसर्पिण्याश्चतुर्थभागलक्षणे तस्मिन् समये-तद्विशेषरूपे यस्मिन् तन्नगरं राजगृहाख्यं राजा च श्रेणिकाख्यः सुधर्म (श्रीवर्धमान) स्वामी च ‘होत्था'त्ति अभवत्-आसीदित्यर्थः । अवसर्पिणीत्वात्कालस्य वर्णकग्रन्थवर्णितविभूतियुक्तमिदानीं नास्ति। 'रिद्ध' इत्यनेन च नगरवर्णकः सूचितः, सच-"रिद्धस्थिमियसमिद्धं" भवनादिभिवृद्धिमुपगतं, भयवर्जितत्वेन स्थिरं, समृद्धं-धनधान्यादियुक्तं, ततः पदत्रयस्य कर्मधारयः। ___“पमुइयजणजाणवयं" प्रमुदिताः प्रमोदकारणवस्तूनां सद्भावात् जना-नगरवास्तव्यलोकाः जानपदाच-जनपदभवास्तत्रा याताः सन्तो यस्मिन् तत् प्रमुदितजनजानपदम् ।" उत्ताणनयनपेच्छणिज्जे" सौभाग्यातिशयात्उत्तानैः अनिमिषैः नयनैः-लोचनैः प्रेक्षणीयं यत्तत्तथा "पासाइयं" चित्तप्रसत्तिकारि । “दरिसणिज" यत् पश्यच्चक्षुः श्रमं न गच्छति । 'अभिरूवं' मनोज्ञरूपम् । “पडिरूवं" द्रष्टारं द्रष्टारं प्रति रूपं यस्य तत्तथेति। तस्मिन "उत्तरपरिच्छिमेदिसीभाएगणसिलए नामंचेइएहोत्था"चैत्यं व्यन्तरायतनम 'वन्नओ' तिचैत्यवर्णको वाच्यः-"चिराईए पुचपुरिसपन्नत्ते" चिर:-चिरकालः आदि:-निवेशो यस्य तत् चिरादिकम् अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्तम्-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तम् । "सच्छत्ते सज्झए सघंटे सपडागे कयवेयद्दीए" कृतवितर्दिकं-रचितवेदिकं Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003353
Book TitleAgam Sutra Satik 19 Nirayavalika UpangSutra 08
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages46
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 19, & agam_nirayavalika
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy