________________
२६१
पदं-११, उद्देशकः-, द्वार-- कोऽत्याभिप्राय इति चेत्, उच्यते, इह स्त्रीलिङ्गादयः शब्दाःशाब्दव्यवहारबलादन्यत्रापि प्रवर्त्तन्ते, यथा खट्वाघटकुट्यादयः खट्वादिष्वर्थेषु, न खलु तत्र यथोक्तानि स्त्र्यादिलक्षणानि सन्ति यथोक्तंप्राक, ततः किमियमव्यापकत्वात् स्त्र्यादिलक्षणप्रतिपादिका भाषानवक्तव्या आहोश्चित् वक्तव्येति संशयापनः पृष्टवान्, अत्र भगवानाह-हंता गोयमे त्यादि, अक्षरगमनिका सुप्रतीता, भावार्थस्त्वयं-इह स्त्र्यादिलक्षणं द्विधा-शाब्दव्यवहारानुगतं वेदानुगतं च, तत्र यदा शाब्दव्य वहाराश्रितंप्रतिपादयितुमिष्यते तदैवं नवक्तव्यमव्यापाकत्वात्, यथा चाव्यापकता तथा प्रागेव लेशतो दर्शिता, विस्तरतस्तु स्वोपज्ञशब्दानुशासनविवरणे, तत इयं तदधिकृत्य प्रज्ञापनी, यदा तु वेदानुगतं प्रतिपादयितुमिष्यते तदा यथावस्थितार्थाभिधानात् प्रज्ञापन्येव, न मृषेति । _ 'अह मंते ! जा जातीति इस्थिवऊ' इत्यादि, अथ भदन्त ! या जातिः स्त्रीवाक् जाती स्त्रीवचनं सत्तेति, या जातौ पुंवाक् पुंवचनं भाव इति, याच जाती नपुंसकवाक् सामान्यमिति, प्रज्ञापनी एषा भाषानैषा भाषा मृषेति?, कोऽत्राभिप्रायइति चेत्, उच्यते, जातिरिह सामान्यमुच्यते, सामान्यस्यचन लिङ्गसङ्ख्याभ्यांयोगो, वस्तूनामेव लिङ्गसख्यायभ्यायोगस्य तीर्थान्तरीयैरभ्युपगमात्, ततो यदि परं जातावोत्सर्गिकमेकवचनं नपुंसकलिङ्ग चोपपद्येत न त्रिलिङ्गता, अथ च त्रिलिङ्गाभिधायिनोऽपि शब्दः प्रवर्तन्ते यथोक्तमनन्तरं ततः संशयः-किं एषा भाषा प्रज्ञापनी उतनेति?, अथ भगवानाह-'हंता गोयमा!' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं जातिमि सामान्यमुच्यते, सामान्यं च न परिकल्पितमेकमनवयवमक्रियं, तस्य प्रमाणबाधितत्वात्, यथा च प्रमाणबाधितत्वं तथा तत्त्वार्थटीकायां भावितमिति ततोऽवधायँ, किन्तु समानः परिणामो 'वस्तुन एव समानः परिणामो यः स एव सामान्य मिति वचनात्, समानपरिणामश्चानेकधर्मात्मा, धर्माणां परस्परं धर्मिणोऽपिच सहान्योऽन्यानुवेद्याभ्युपगमात् तथा प्रमाणेनोपलब्धः, ततोघटते जातेरपि त्रिलिङ्गतेति प्रज्ञापन्येषा भाषा, नैषा भाषा मृषेति।
'अह भंते!' इत्यादि, अथभदन्त! या जातिस्त्रयाज्ञापनी-जातिमधिकृत्यस्त्रिया आज्ञापनी, यथा अमुका ब्राह्मणी क्षत्रिया वाएवं कुर्यादिति, एवं जातिमधिकृत्य पुमाज्ञापनी नपुसंकाज्ञापनी, प्रज्ञापनी एषा भाषा नैषा भाषा मृषेति ?, अत्रापि संशयकारणमिदं-आज्ञापनी हि नाम आज्ञासम्पादनक्रियायुक्तस्त्र्याधभिधायिनी, स्त्र्यादिश्चाज्ञाप्यमानस्तथा कुर्यान्न वेति संशयः, किमियं प्रज्ञापनी किंवाऽन्येति?, अत्र निर्वाचनमाह-'हंता ! गोयमा' इत्यादि, अक्षरार्थःसुगमः, भावार्थस्त्वयं-आज्ञापनी हि नाम परलोकाबाधिनी सा प्रोच्यते या स्वपरानुग्रबुध्या विवितार्थसम्पादनसामोपेतविनीतस्त्र्यादिविनेयजनविषया, यथा अमुका ब्राह्मणी साध्वी शुभं नक्षत्रमघेत्युमुकमॉ श्रुतस्कन्धं च पठेत्यादि सा प्रत्रापन्येव, दोषाभावात्, शेषा तु स्वपरपीडाजननान्मृपेत्यप्रज्ञापनीति।
__'अहभंते!' इत्यादि, अथ भदन्त! याजातिस्त्रीप्रज्ञापनीजातिमधिकृत्य स्त्रिया-स्त्रीलक्षणस्य प्रतिपादिका, यथा स्त्रीः स्वभावात् तुच्छा भवति गौरवबहुला चलेन्द्रिया दुर्बला च धृत्येति, उक्तं च-“तुच्छा गारवबहुला चलिंदिया दुब्बला य धीईए'इत्यादि, या च जातिमधिकृत्य पुम्प्रज्ञापनी-पुरुषलक्षणस्य स्वरूपनिरूपिका, यथापुरुषः स्वभावात् गम्भीराशयोभवतिमहत्यामपि चापदि न क्लीबतां भजते इत्यादि, या च जातिमधिकृत्य नपुंसकप्रज्ञापनी नाम-नपुंसक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org