SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ २७९ मूलं-३२ वैमानिकादेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रीयशरीरमारचयंति, नियइपब्वया' इति नियत्यानैयत्येन व्यवस्थिताः पर्वता नियतिपर्वताः,क्वचित् निययपव्वया' इतिपाठः, तत्र नियताः सदा भोग्यत्वेनावस्थिताः पर्वतानियतपर्वताः,यत्रसूर्याभविमानवासिनोवैमानिका देवा देव्यश्चभवधारणीयेनैव वैक्रीयशरीरेण सदारममाणाअवतिष्ठन्तेइति भावः, 'जगईपव्वया' इति जगतीपर्वतकाः पर्वतविशेषाः, दारुपर्वतका-दारुनिर्मापिता इव पर्वतकाः, 'दगमंडवा' इति दकमण्डपा:स्फाटिकाः मंडपाः। उक्तंच जीवाभिगममूलटीकायां-"दगमण्डपाः-स्फाटिका मण्डपा" इति, एवंदकमञ्चकाः दकमालका दकप्रासादाः, एते च दकमण्डपादयः केचित् 'उसड्डा' इति उत्सृता उच्चा इत्यर्थः, केचित् ‘खुड्डा खुड्डति क्षुल्लकाः क्षुल्लका इति, तथा अन्दोलकाः पक्ष्यन्दोलकाश्च, इह यत्रागत्य मनुष्या आत्मानमन्दोलयति तेऽन्दोलका इति लोके प्रसिद्धाः, यतुर तु पक्षिण आगत्यात्मानमन्दोयंति ते पक्ष्यन्दोलकाः, तत्र अन्दोलकाः पक्ष्यन्दोलकाश्च तेषु वनखण्डेषु तत्र २ प्रदेशे देवक्रीडायोग्याबहवः सन्ति, एतेच उत्पातपर्वतादयः कथंभूता? इत्याह-'सर्वरत्नमयाः' सर्वात्मना रत्नमयाः, अच्छा सण्हा इत्यादि विशेषणकदम्बकं प्राग्वत् । __ 'तेसुणमित्यादि, तेषुउत्पातपर्वतेषु यावत्यक्ष्यन्दोलकेषु, यावत्करणानियतिपर्वतकादिपरिग्रहः, बहूनि हंसासनादीनि आसनानि, तत्र येषामासनानामधो भागे हंसा व्यवस्थिता यथा सिंहासने सिंहाः तानि हंसासनानि, एवं क्रोञ्चासनानि गरुडासनानि च भावनीयानि, उन्नतासनानि-उच्चासनानिप्रणतासनानि-निम्नासनानि दीर्घासनानि-शय्यारूपाणि भद्रासनानि येषामघो भागे पीठिकाबन्धः पक्ष्यासनानि येषामघो भागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासनानिच च भावनीयानि, पद्मासनानि-पद्माकाराणि आसनानि, 'दिसासोवत्थियासणाणि' येषामघो भागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रममासनानां संग्रहणिगाथा। ॥१॥ "हंसे कोंचे गरुडे उण्णय पणए यदीह भद्दे य। पक्खे मयरे पउमे सीह दिसासोत्थि बारसमे ।। इति, तानि सर्वाण्यपि कथंभूतानित्यत आह-'सव्वरयणामयाई त्यादि प्राग्वत्। 'तेसि ण'मित्यदि, तेषुवनखण्डेषु मध्येतत्र २प्रदेशेतस्यैव देशस्य तत्रतत्रएकदेशेवहूनि आलिगृहकाणि' आलि-वनस्पतिविशेषः तन्मयानि गृहकाणिआलिगृहकाणि,मालिरपिवनस्पतिविशेषः तन्मयानि गृहकाणिमालिगृहकाणि, कदलीगृहकाणिलतागृहकाणि च प्रतीतानि, 'अच्छणघरकाणि' इति अवस्थानगृहकाणि येषुयदा तदा वा आगत्य सुखासिकयाअवतिष्ठन्ति, प्रेक्षणकगृहाण यत्रागत्य प्रेक्षणकानि विदघति निरीक्षन्तेच, मज्जनगृहकाणि यत्रागत्य स्वेच्छया मज्जनकं कुर्वन्ति। 'प्रसाधनगृहकाणि' यत्रागत्य स्वंपरचमण्डयन्ति गर्भगृहकाणि गर्भूहाकाराणि 'मोहनघराइन्तिमोहनं-मैथुनसेवा 'रिमियं मोहनरयाई' इति नाममालावचनात् तप्रधानानि गृहकाणि मोहनगृहकाणि, वासभवनानीति भावः, शालागृहकाणि-पट्टशालाप्रधानानि, जालगृहकाणिगवाक्षयुक्तानि गृहकाणि, कुसुमगृहकाणि-कुसुमप्रकरोपचितानि गृहकाणि, चित्रगृहकाणिचित्रप्रधानानि गृहकाणि गन्धर्वगृहकाणि-गीतनृत्ययोग्यानि गृहकाणि आदर्शगृहकाणिआदर्शमयानीव गृहकाणि, एतानिच कथंभूतानीत्यत आह-'सब्बरयणामया' इत्यादि विशेषण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy