SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ २४६ राजप्रम्नीयउपाङ्गसूत्रम् - २३ निवसनस्य तत्तथा तत् चित्रं - चित्रवर्णं चिल्ललगं - देदीप्यमानं निवसनं - परिधानं येषां ते तथा, ततः पूर्वपदेन विशेषणसमासस्तेषां, 'एगावलिकंठरइय-सोभंतव-च्छपरिहत्य भूस- णाण' मिति, एकावलिर्या कण्ठे रचिता तया शोभमानं वक्षो येषां ते तथा, परिहत्थशब्दो देश्यः परिपूर्णवाचकः, पsिहत्थानि - पूर्णानि भूषणानि येषां ते तथा, ततः पूर्वपदेन कर्म्मधारयस्तेषां, 'नट्टसज्जाणं' नृत्ये सज्जाः - प्रगुणीभूतानृत्यसज्जास्तेषां । तदनन्तरं च यथोक्ताविशेषणविशिष्टं वामं भुजं प्रसारयति, तस्माद् - वामभुजात् अष्टशतं देवकुमारिकाणां विनिर्गच्छति, कथम्भूतमित्याह- 'सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं एगाभरणवसणगहियनिज्जोईणं दुहतीसंवेल्लियग्गनियत्थणमिति पूर्ववत् 'आविद्धतिलयामेलाणं' आविद्धस्तिलक आमेलश्च - शेखरको यकामिस्ता आविद्धतिलकामेलास्तासां 'पिणद्धगेवेजकञ्चुकाण' मिति, पिनद्धं ग्रैवेयकं - ग्रीवाभरमं कञ्चुकश्च यकाभिस्तास्तथा तासां, 'नानामणिकणगरयणभूसणविराइयंगमंगीण' मिति, नानाविधानि मणिकनकरत्नानि येषु भूषणेषु तानि नानामणिकनकरत्नानि तैर्नानामणिकनकरत्नैर्भूषणविराजितान्यङ्गमङ्गानि – अङ्गप्रत्यङ्गानि यासां तास्तथा तासां, 'चंदाननाणं चन्दद्धसमनिडालाणं चन्दाहियसोमदंसणाणं उक्काइव उज्जोवेमाणीण' मिति सुगमं 'सिङ्गारागारचारुवेसाणं हसियभणियचिट्ठियविलाससललियसंलावणिउणजुत्तोवयारकुसलाणं गहियाउञ्जाणं नट्टसज्जाण' मिति पूर्ववत् 'तए णं से सूरिया देवे' इयादि, ततः (स) सूर्याभो देवोऽष्टशतं शङ्खानां विकुर्वति, अष्टशतं शङ्खवादकानाम् १, अष्टशतं शृङ्गाणामष्टशतं शृङ्गवादकानां २ अष्टशतं शङ्खिकानां अष्टशतं शङ्खिकावादकानां २, ह्रस्वः शङ्को जात्यन्तरात्मकः शङ्खिका, तस्या हि स्वरो मनाक् तीक्ष्णो भवति, न तु शङ्खवदतिगम्भीरः, तथा अष्टशतं खरमुखीनां - काहलानां अष्टशतं खरमुखीवादकानाम् ३, अष्टशतं पेयाना, पेया नाम महत्ती काहला, अष्टशतं पेयावादकानां ४, अष्टशतं पीरिपीरिकाणां कोलिकपुटावनद्धमुखवाद्यविशेषरूपाणामष्टशतं पीरिपीरिवादकानां ५ अष्टशतं पणवानां, पणवो - भाण्डपटहो लघुपटहो वा अष्टशतं होरम्माणां, होरम्भा - महाढक्क अष्टशतं होरम्भावादकानां ९ अष्टशतं भेरीणां ढक्ककृतिवाद्यविशेषरूपाणामष्टशतं भेरीवादकानां १० अष्टशतं झल्लरीणां झल्लरीनाम - चर्मावनद्धा विस्तीर्णवलयाकारा अष्टशतं झल्लरीवादकानां ११ अष्टशतं दुन्दुभीनाम-ष्टशतं दुन्दुभिवादकानां दुन्दुभिर्भेर्याकारा सङ्कटमुखी देवातोद्यविशेषः १२ अष्टशतं मुरुजानां महाप्रमाणो मर्दलो मुरुजः अष्टशतं मुरुजवादकानां १३ अष्टशतं मृदङ्गोऽष्टशतं मृदङ्गवादकानां १४ अष्टशतं नन्दीमृदङ्गाना नन्दीमृदङ्गो नाम एकतः सङ्कीर्णोऽन्यत्र विस्तृतो मुरजविशेषः, अष्टशतं नन्दीमृदङ्गवादकानां १५ अष्टशतमालिङ्गानां आलिङ्गो - मुरजवाद्यविशेष एवाष्टशतमालिङ्गवादकानां १६ अष्टशतं कुस्तुम्बाना कुस्तुम्बः - चर्मावनद्धपुटो वाद्यविशेषः अष्टशतं कुस्तुम्बवादकानां १७ अष्टशतं गोमुखीनां, गोमुखी लोकतोऽवसेया, अष्टशतं गोमुखीवादकानां १८ अष्टशतं मर्द्दलानां, मईलः – उभयतः समः, अष्टशतं मर्दलवादकानां १९ अष्टशतं विपञ्चीनां, विपञ्ची-त्रितन्त्री वीणा, अष्टशतं विपञ्चीवादकानां २०, अष्टशतं वल्लकीनां, वल्लकीसामान्यतो वीणा, अष्टशतं वल्लकीवादकानां २१ अष्टशतं भ्रामरीणामष्टशतं भ्रामरीवादकानां २२ अष्टशतं षडभ्रामरीणामष्टशतं षडभ्रामरीवादकानां २३ अष्टशतं परिवादिनीनां परिवादीनी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy