SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ मूलं-८ २१५ नस्सिया हरिसवसविसप्पमाणहियया' इति द्रष्टव्यं, 'करयलपरिग्गहिय'मित्यादि, द्वयोर्हस्तयोरन्योऽन्यान्तरितालिकयोः सम्पुटरूपतया यदेकत्र मीलनं सा अअलिस्तां करतलाभ्यां परिगृहीता-निष्पादिताकरतलपरिगृहीतातांदशनखायस्यांएकैकस्मिन्हस्ते नखपञ्चकसम्भवात् दशनखातां तथा आवर्तमानवतः शिरस्यावर्तो यस्याः सा शिरस्यावर्ता 'कण्ठेकाल उरसिलोमे त्यादिवत् अलुक् समासः, ताम्, अत एवाह - मस्तके कृत्वाविनयेन वचनं सूर्याभस्य देवस्यप्रतिशृण्वन्ति-अभ्युपगच्छन्ति, कथम्भूतेन विनयेनेत्याह-“एवं देवो तहत्ति आणाए' इति हे देव ! एवं' यथैव यूयमादिशत तथैवाज्ञयाभवदादेशेन कुर्म इत्येवंवपेण, देवो इत्यत्रौकार आमन्त्रणे प्राकृतलक्षणवशात्, यथा 'अन्जो' इत्यत्र, प्रतिश्रुत्य वचनं उत्तरपुरच्छिम उत्तरपूर्वदिग्मागं, ईशानकोणमित्यर्थः, तस्यात्यन्तप्रशस्तत्वात्, अपक्रमन्ति-गच्छन्ति, अपक्रम्य च वैक्रियसमुद्घातेन-वैक्रियकरणाय प्रयलविशेषण समोहनन्ति-समवहन्यन्ते समवहता भवन्तीत्यर्थः, समवहताश्चात्मप्रदेशातन्दूरतो विक्षिपन्ति, तथा चाह-संज्जाणिजोयणाणिदंडंनिस्सरन्ति' दण्डइव दण्ड:-ऊर्धाधआयतःशरीरबाहल्यो जीवप्रदेशसमूहस्तं शरीरादहि सङ्ख्येयानि योजनानि यावन्निसृजन्ति निष्काशयन्ति निसृज्य तताविधान पुद्गलानाददते, एतदेव दर्शयति, तद्यथा - रत्लानांक:तनादीनां १ वज्राणां२ वैडूर्याणां ३ लोहिताक्षाणां ४मसारगल्लाणं ५हंसगर्भाणां ६ पुद्गलानां ७ सुगन्धिकानां ८ ज्योतीरसानां ९ अञ्जनपुलकानां १० अञ्जनानां ११ रजतानां १२जातरूपाणां १३अङ्गानां १४ स्फटिकानां १५ रिष्ठानां १६योग्यान्यथाबादरान्-असारान् पुद्गलान् परिशातयन्तियथासूक्ष्मान् सारान् पुद्गलान् पर्याददतेपर्यादायचिकीर्षितरूपनिर्माणार्थं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते, समवहत्य च यथोक्तानां रलादीनामयोग्यान् यथाबादरान् पुद्गलान् परिशातयन्ति यथासूक्ष्मानाददते आदाय च ईप्सितानि उत्तरवैक्रियाणि विकुर्वन्ति, ननुरलादीनांप्रायोग्याः पुद्गला औदारिका उत्तरवैक्रयरूपयोग्याश्च पुद्गला ग्राह्या वैक्रियास्ततः कथमेवं युक्तमिति? उच्यते, इह रत्नादिग्रहणं सारतामात्रप्रतिपादनार्थं, ततो रत्नादीनामिवेति द्रष्टव्यमिति न कश्चिद्दोषः, अथवा औदारिकाअपितैः गृहीताः सन्तो वैक्रयतयापरिणमन्ते, पुद्गलानांतत्तत्सामग्रीवशात् (तथा) तथापरिणमनस्वभावत्वादतोऽपि न कश्चिद्दोषः, तत एवमुत्तरवैक्रियाणि रूपाणिकृत्वा तयादेवजनप्रसिद्धया उत्कृष्टया प्रशस्तविहायोगतिनामोदयात्प्रशस्तयाशीघ्रसञ्चरणात् त्वरितया' त्वरा साताअस्याइतित्वरितातया प्रदेशान्तरक्रमणवतीचपला तयाक्रोधाविष्टस्येव श्रमासंवेदनादचण्डेवचण्डातया निरन्तरंशीघ्रत्वगुणयोगात्शीघ्रा तयाशीघ्रया परमोत्कृष्टवेगपरिणामोपेता जवना तया वातोद्भूतस्य दिगन्तव्यापिनो रजस इव या गति। सा उद्धृता तया दिव्यया-दिवि देवलोके भवा दिव्या ताय देवगत्या तियंगसङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन, मध्येनेत्यर्थ, गृहंगृहेण मध्यंमध्येन पदंपदेन सुखंपुखेनेत्यादयः शब्दाश्चिरन्तनव्याकरणेषु सुसाधवः प्रतिपादिता इति नायमपप्रयोगः, अवपतन्योऽवपतन्तः, समागच्छन्तइतिभावः, पूर्वान् पूर्वान्द्वीपसमुद्रा व्यतिक्रमन्तो व्यतिक्रमन्तः, उल्लङ्यन्त इत्यर्थः, शेषं सुगमं यावत् For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy