SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ मूलं-४ २०७ इदं सुगमं, नवं 'जाव चोत्तीसाए' इत्यत्र यावच्छब्दकरणात् 'आइकरे तित्थगरे' इत्यादिकः समस्तोऽपि औपपातिकग्रन्थप्रसिद्धो भगवद्वर्णको वाच्यः, स चातिगरीयानिति न लिख्यते, केवलमौपपातिकग्रन्थादवसेयः, 'चोत्तीसाए बुद्धवयणातिसेससंपत्ते' चतुस्त्रिंशद् बुद्धानां - भगवतामर्हतां वचनप्रमुखाः 'सर्वस्वभाषा, नुगतं वचनं धर्मावबोधकर' मित्यादिना उक्तस्वरूपा ये अतिशेषा- अतिशयास्तान् प्राप्तश्चतुस्त्रिंशदबुद्धवचनातिशेषसम्प्राप्तः, इह वचनातिशेषस्योपादानमत्यन्तोप- कारितया प्राधान्यख्यापनार्थम्, अन्यता देहवैमल्यादयस्ते पठयन्ते, तथा (चाह) ॥१॥ देहं विमलसुगन्धं आमयपस्सेयवज्जियं अरयं । रुहिरं गोकखीरामं निव्विस्सं पंडुरं मंस || मित्यादि । 'पणतीसाए सच्चवयणाति सेससंपत्ते' पञ्चत्रिंशत् ये सत्यवचनस्यातिशेषा-अतिशयास्तान सम्प्राप्तः पञ्चत्रिंशद्वचनातिशेषसम्प्राप्तः, ते चामी सत्यवचनातिशेषाः संस्कारवत्वं १ उदात्तत्वं २ उपचारोपेतत्वं ३ गम्भीरशब्दत्वं ४ अनुनादित्वं ५ दक्षिणत्वं ६ उपनीतरागत्वं ७ महार्थत्वं ८ अव्याहतपौर्वापर्यत्वं ९ शिष्टत्वं १० असन्दिग्धत्वं ११ अपहतान्योत्तरत्वं १२ हृदयग्राहित्वं १३ देशकालयुतत्वं १४ तत्वानुरूपत्वं १५ अप्रकीर्णप्रसृतत्वं १६ अन्योऽन्यगृहीतत्वं १७ अभिजातत्वं १८ अतिस्निग्धमधुरत्वं १९ अपरममवेधित्वं २० अर्थधर्माभ्यासानपेतत्वं २१ उदारत्वं २२ परनिन्दात्मोत्कर्षविप्रमुक्तत्वं २३ उपगतश्लाघत्वं २४ अनपनीतत्वं २५ उत्पादिताविच्छिन्नकौतूहलत्वं २६ अद्भुतत्वं २७ अनतिविलम्बित्वं २८ विभ्रविक्षेपकिलिकिचितादिवियुक्तत्वं २९ अनेकजातिसंश्रयाद्विचित्रत्वं ३० आहितविशेषत्वं ३१ साकारत्वं ३२ सत्वपरिगृहीतत्वं ३३ अपरिखेदितत्वं ३४ अव्युच्छेदित्वं ३५ चेति, । तत्र संस्कारवत्वं संस्कृतादिलक्षणयुक्तत्वं, उदातत्त्वं उच्चैर्वृत्तिता उपचारोपेतत्वम्अग्राम्यता, गम्भीरशब्दत्वं मेघस्येव, अनुनादिता प्रतिरवोपेतत्वं, दक्षिणत्वं सरलता, उपनीतरागत्वं - उत्पादिता श्रोतृजन स्वविषयबहुमानता, एते सप्त शब्दापेक्षा अतिशयाः, अत उद्ध त्वर्थाश्रयाः, तत्र महार्थत्वं परिपुष्टार्थाभिधायिता, अव्याहतपौर्वापर्यत्वं पूर्वापर - वाक्याविरोधः, शिष्टत्वं वक्तुः शिष्टत्वसूचनात् असन्दिग्धत्वं परिस्फुटार्थप्रतिपादनात, अपद्रुता- न्योत्तरत्वंपरदूषमाविषयता, हृदयग्राहित्वं- दुर्गमस्याप्यर्थस्य परह्दये प्रवेशकरणं, देशकालाव्य- तीतत्वं प्रस्तावोचितता, तत्वानुरूपत्वं विवक्षितवस्तुस्वरूपानुसारिता, अप्रकीर्ष्णप्रसृतत्वंसम्बन्धाकारपरिमितता, अन्योऽन्यप्रगृहीततत्वं - पदानां वाक्यानां वा परस्परसापेक्षता, अभिजातत्वं यथाविवक्षितार्थाभिदानशीलता, अतिस्निग्धमधुरत्वं- बुभुक्षितस्य धृतगुडादिवत्परमसुखकारिता । अपरमर्मवेधत्वं - परममनुद्घाटनशीलता, अर्थधर्माभ्यासानपेतत्वं - अर्थधर्म्मप्रतिबद्धता, उदारत्वं - अतिविशिष्टगुम्फगुणयुक्तता अतुच्छार्थप्रतिपादकता वा, परनिन्दात्मोत्कर्षविप्रयुक्तत्वं प्रतीतं, उपगतश्लाघत्वं उक्तगुणयोगतः पराप्तश्लाघता, अनुपनीतत्वं- कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता, उत्पादिताविच्छिन्नकुतूहलत्वं श्रोतॄणां स्वविषये उत्पादितं-जनितमविच्छिन्नं कौतूहलं कौतुकं येन तत्तथा तद्भावस्तत्वं श्रोतृषु स्वविषयाद्भुतविस्मयाकारितेति भावः, अद्भुतत्वमनतिविलम्बित्वं च प्रतीतं, विभ्रमविक्षेपकिलिकि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy