SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ २०० राजप्रश्नीयउपाङ्गसूत्रम्-३ ___ यानि वृक्षस्थानिजरठानि पाण्डुपत्राणि वातेन निर्टून भूमौ पातितानि भूमेरपि च प्रायो निर्द्धय नि यान्यत्रापसारितानीति, 'नवहरियभिसंतपत्तभारंधयारगभीरदरिसाणिज्जा' इति नवेन-प्रत्यग्रेण हरितेन-नीलेन भासमानेन स्निग्धत्वेन वा दीप्यमानेनपत्रमारेण-दलसञ्चयेन योजातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाःसन्तो दर्शनीया नवहरितभासमान-पत्रमारान्धकारगम्भीरदर्शनीयाः, तथा उपविनिर्गतः निरन्तरविनिर्गतरितिभावः, नवतरुण-पत्रपल्लवैस्तथा कोमलैः-मनोज्ञैरुज्ज्वलैः-शुद्धेश्चलभिईषत्कम्पमानैः किशलयैः-अवस्था- विशेषोपेतैः पल्लविशेषैस्तथा सुकुमारैः प्रवाले:-पल्लवाङ्करैः शोभितानि वराङ्कुराणि-वराङ्कुरोपेतानि अग्रशिखराणि येषांते उपनविनिर्गतनवतरुणपत्रपल्लवकोमलोज्वलचलत्किशलयसुकुमालप्रवालशोभितवराङ्कुराग्रशिखराः इहाङ्कुरप्रवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीयः । तथा नित्यं-सर्वकालं षटस्वपि ऋतुषु इत्यर्थ, कुसुमिताः' कुसुमानि इहाङ्करप्रवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीयः। तथानित्यं सर्वकालंषडस्वपिऋतुषुइत्यर्थ, 'कुसुमिताः' कुसुमानि पुष्पाणि सातान्येषा-मिति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, निच्चं मालइया' इति नित्यंसर्वकालं मुकुलितानि, मुकुलानि नाम कुडमलानि कलिका इत्यर्थः, 'निचं लवइया' इति पल्लविताः, नित्यं थवइया' इति स्तबकिताः स्तबकभारवन्त इत्यर्थः, नित्यं 'गुलइया' इति गुल्मिताः स्तबकगुल्मौ गुच्छविशेषौ, नित्यं गोच्छिता' गोच्छवन्तः, नित्यं 'जमलिता' यमलंनाम समानजातीययोर्युगम् तत् सातमेषा-मिति यमलिताः, नित्यं युगलिता युगलं-सजातीयविजातीयरोर्द्वन्दंय तदेषां सातमिति युगलिताः, तथा नित्यं सर्वकालं फलभरेण विनताःईषन्नताः, तथा नित्यं महता फलभरेण प्रकर्षणातिदूरं नताः प्रणताः, तथा नित्यं-सर्वकालं सुविभक्तः-सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंस-कस्तद्धरास्तद्धारिणः । एवं सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्य वृक्षस्योक्तः, साम्प्रतं केषाञ्चिवृक्षाणां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह-'निचं कुसुमियमउयलयेत्यादि' किमुक्तं भवतिकेचित्कुसुमिताघेकैकगुणयुक्ताः केचित्समस्तकुसुमितादिगुणयुक्ता इति, अतएवकुसुमियमालइयमउलियेत्यादिपदेषुकर्मधारयः, तथा शुकबर्हिणमदनशालिकाकोकिलाकोरककोभव-भिङ्गारककोण्डकलजीवंतीजीवकनन्दीमुखकपिलपिङ्गलाक्षकारण्डवचक्रवाककलहंससारसाख्यानामनेकेषां शकुनगणानां मिथुनः-स्त्रीपुंसयुक्तैर्यद्विचरितम्-इतस्ततोगमनं यच्चशब्दोन्नितिक-अन्नतशब्दकं मधुरस्वरंच नादितं-लपितं येषुते तथा, अत एव सुरभ्याः सुष्टुरमणीयाः, अत्र शुकाः-कीराः, बर्हिणो-मयूराः, मदनशालिकाःशारिकाः, कोकिलाः-पिकाः, चक्रवाककलहंससारसाःप्रतीताः, शेषास्तुजीवविशेषा लोकतो वेदितव्याः,तता सम्पिण्डिताः एकत्रपिण्डीभूताः साः-मदोन्मत्तया दध्माता भ्रमरमधुकरीणां पहकराः-सङघाताः ‘पहकर ओरोह संघाया' इति देशीनाममालावचनात् यत्र ते सम्पिण्डितप्तभ्रमरमधुकरीपहकराः। तथा परिलीयमानाः-अन्यत आगत्याश्रयन्तो मत्ताः षट्पदाः कुसुमासवलोलाःकिञ्जल्कपानलम्पटा मधुरं गुमगुमायमाना गुञ्जन्तश्च-शब्दविशेषं च विदधाना देशभागेषु येषां ते परिलीयमानमत्तषटपदकुसुमासवलोलमधुरगुमगुमायमानगुअद्देशभागाः, गमकत्वादेवमपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy