SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ मूलं-३ ७५ . 'पिंडिमणीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणिं मुयंता' पिण्डिमनिहारिमां-पुद्गलसमूहरूपां दूरदेशगामिनींचसुगन्धिंच-सद्गन्धिकांशुभसुरभिभ्योगन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तांच, महता मोचनप्रकारेण विभकतिव्यत्ययान्महती वा गन्ध एव ध्राणिहेतुत्वात्तृप्तिकारित्वाद्गन्धप्राणिस्तां मुञ्चन्त इति वृक्षविशेषणम् । एवमितोऽन्यान्यपि 'नानाविहगुच्छगुम्ममंडवकघरकसुहसेउकेउबहुला' नानाविधागुच्छाः गुल्मानि मण्डपका गृहकाणि चयेषां सन्तिते तथा, तथा शुभाः सेतवो-मार्गाआलवालपाल्योवाकेतवो-ध्वजाबहुला-बहवो येषां ते तथा, ततः कर्मधारयः । अनेगरहजाणजुग्गसिवियपविमोयणा' अनेकेषां रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा । 'सुरम्मा पासाइया दरिसणिज्जा अभिरुवा पडिरूव'त्ति एतान्येव वृक्षविशेषणानि वनखण्डविशेषणतया वाचनान्तरेऽधीतानि । मू. (१) तस्स णं वनसंडस्स बहुमज्झदेसभाए एत्थ णं महं एके असोगवरपायवे पन्नते, कुसविकुसविसुद्धरुक्खमूले मूलमंते कंदमंते जाव पविमोयणे सुरम्मे पासादीए दरिसणिज्जे अभिरुवे पडिलवे वृ. 'तस्स णं वनसंडस्से' त्यादौ अशोकपादपवर्णके कवचिदिदमधिकमधीयते'दूरोवगयकंदमुलवट्टलङ्कसंठियसिलिट्टयणमसिणणिद्धसुजायनिरुवहउब्विद्धपवरखंधी' दूरोपगतानि अत्यर्थं भूम्यामवगाढानि कन्दमूलानि-प्रतीतानि यस्य स तथा, वृत्तो-वर्तुलो, लष्टो-मनोज्ञः, संस्थितो-विशिष्टसंस्थानः,श्लिष्टः-सातो, घनो-निबिडो, मसृणः-अपरुषः, स्निग्धः-अरूक्षः, सुजातः-सुजन्मा, निरुपहतो-विकारविरहित,उविद्धः अत्यर्थमुच्चः,प्रवरःप्रधानः,स्कन्धः-स्थुडं यस्य स तथा, इन्प्रत्ययश्च समासान्तः। 'अनेगनरपवरभुयागेज्झो' अनेकनराणां प्रवरभुजैः-प्रलम्बबाहुभिर्वामाभिरित्यर्थः, अग्राह्यः-अनाश्लोष्यो यः सतथा, 'कुसुमभरसमोनमंतपत्तलविसालसालो' कुसुमभरेण समवनमन्त्यः पत्रलाः-पत्रवत्यः विशालाः शाला यस्यस तथा। 'महुकरिभमरगण-गुमगुमाइयनिलिंतउडिंतसस्सिरीए' मधुकरीभ्रमरगणेन-लोकरूढिगम्येन, 'गुमगुमाइन्त'त्ति कृतगुमगुमेतिशब्देन, नीलीयमानेन-निविशमानेन, उड्डियमानेन च-उत्पतता सश्रीकः-सशोभो यः स तथा । 'नानासउणगणमिहुणसमुहुरकण्णसुहपलत्तसद्दमुहरे नानाविधानांशकुनिगणानांयानिमिथुनानि तेषां सुमधुरः कर्ण सुखश्च यः प्रलप्तशब्दस्तेनमधुरइवमधुरो-मनोज्ञोयः सतथा । अथाधिकृतवाचना-'कुसविकुसविसुद्धरुक्खमूले कुशा-दर्भाविकुशा-वल्व (ल) जादयस्तैर्विशुद्धं-विरहितं वृक्षानुरूपं वृक्षविस्तरप्रमाणमित्यर्थो मूलं-समीपं यस्य स तथा । 'मूलमंते' इत्यादिविशेषणानि पूर्वद्वाच्यानि, यावत् पडिलवे। मू. (४-वति) से णंअसोगवरपायवे अन्नेहिं बहूहिं तिलएहिं लउएहिं छत्तोवेहि सिरीसेहिं सत्तवन्नेहिं दहिवन्नेहिलो हिंधवेहिं चंदणेहिं अज्जुणेहिंजीवेहिं कुडहिंसव्वेहि फणसेहिं दाडिमेहिं सालेहिं तालेहिं तमालेहिं पियएहिं पियंगूहिं पुरोवगेहिं रायरुक्खेहिं नंदिरुक्खेहिं सब्बओ समंता संपरिखिते तेणं तिलया लवइया जाव नंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003346
Book TitleAgam Sutra Satik 12 Auppatik UpangSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages150
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy