SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ४४६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/२० ॥१॥ "अकीर्त्तकारणं योषित्, योषिद्वैरस्य कारणम् । संसारकारणं योषित्, योषितं वर्जयेत् ततः ।।" क्वचिदयशःकीर्त्तिमिति पाठः, तत्र सर्वदिग्गामि यशः एकदिग्गामिनी कीर्तिरिति विशेषः, यशसा सह कीर्तिरिति समासः तन्निषेधस्त्वयशःकीर्तिस्तां, रोगार्ताः--ज्वरादिपीडिता व्याधिताश्च-कुष्ठाघभिभूता प्रवर्द्धयन्ति-वृद्धिं नयन्ति रोगव्याधीन् परदारेभ्योऽविरता इति सम्बन्धः, आह च॥१॥ “वर्जयेद्विदलं शूली, कुष्ठी मांसं ज्वरी धृतम् । द्रवद्रव्यमतीसारी, नेत्ररोगी च मैथुनम् ।।" ॥२॥ (तथा) “व्रणैः श्वयथुरायासात्स च रोगश्च जागरात् । तौ च रुक्तं (भङ्गो) दिवास्वापात्, ते च मृत्युश्च मैथुना ।।" दिति, द्वावपि लोकौ–जन्मनी दुराराधौ भवतः, तावेवोच्येते-इहलोकः परलोकश्च, केषामित्याह-परस्य दारेभ्यः-कलत्रादे ये अविरताः-अनिव-त्ताः, आह च॥१॥ “परदारानिवृत्तानामिहाकीर्तिर्विडम्बना। परत्र दुर्गतिप्राप्तिीर्भाग्यं षण्डता तथा ।।" तथैव किंचेत्यर्थः केचित् परस्य दारान् गवेषयन्तः गृहीताश्च हताश्च बद्धरुद्धाश्च एवं 'जाव गच्छंति त्ति इह यावत्करणात् तृतीयाध्ययनाधीतो 'गहिया य हया यबद्धरुद्धाय' इत्यादि 'नरये गच्छन्ति निरभिरामे'इत्येतन्दतः सुबहुग्रन्थः सूचितः, स च सव्याख्यानस्तत एवावधार्यः किम्भूतास्ते नरयं गच्छन्ति? - विपुलेन मोहेन-अज्ञानेन मदनेन वाऽभिभूता-विजिता संज्ञासंज्ञानं येषां ते तथा, तथा मैथुनं मूलं यत्र वर्तते तन्मैथुनमूलं क्रियाविशेषणमिदं, चः पुनरर्थः,श्रूयंते-आकर्ण्यते तत्र तत्र-तेषु तेषु शास्त्रेषु वृत्ता-जाताः पूर्व-पूर्वकाले वृत्तपूर्वाः सङ्ग्रामाः बहुजनक्षयकरा रामरावणादीनां कामलालसानां, किमर्थमित्याह-शीताया द्रौपद्याश्च कृते-निमित्तं, तत्र शीताजनकाभिधनस्य मिथिलानगरीराजस्य दुहिता वैदेहीनाम्यास्तद्भार्यायाः देहजा भामण्डलस्य सहजातस्य भगिनी विद्याधरोपनीतं देवताधिष्ठितं धनुः स्वयंवरमण्डपे नानास्वेचरनाकिनिकरसमक्षं अयोध्याभिधाननगरीनिवासिनो दशरथाभिधानस्य नरनायकस्य सुतेन रामदेवेन पद्मापरनाम्ना बलदेवेन लक्ष्मणाभिधानवासुदेवज्येष्ठभ्रात्रा स्वप्रभावेनोपशान्ताधष्ठातृदेवतमारोपितगुणं विधाय प्राप्तसाधुवादेन महाबलेन परिणीता, ततोदशरथराजे प्रविजिषौ रामदेवाय राज्यदानार्थमभ्युत्थितेभरताभिधानेचरामदेवस्य मात्रान्तरसम्बन्धिनि भ्रातरि प्रव्रजितुकामे भरतमात्रा पूर्वप्रतिपन्नवरयाचनोपायेन राज्ये भरताय दापिते बन्धुस्नेहाच्चाप्रतिपद्यमाने राज्यं भरतपितृवचनसतयतार्थं भरतस्य राज्यप्रतिपत्त्यर्थं वनवासमुपाश्रितेन सलक्ष्मणेन रामेण सह वनवासमधिष्टिता, ततश्च लक्ष्मणेन कौतुकेन तत्र दण्डकारण्ये सञ्चरता आकाशस्थं खङ्गरत्नमादाय कौतुकेनेव वंशजालिच्छेदे कृते छिने च तन्मध्यवर्तिनि विद्यासाधनपरायणे रावणभागिनेये खरदूषणचन्द्रनखासुते संबुक्काभिधाने विद्याधरकुमारे दष्टाव च तं पश्चात्तापमुपगतेन लक्ष्मणेनागत्य भ्रातुर्निवेदितेऽस्मिन् व्यतिकरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy