SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ द्वारं-१, अध्ययनं-१, ३७७ महाकुम्भी - महत्यूखा तयोः पचनं च भक्तस्येव 'पउलणं' ति पचनविशेषश्च पृथुकस्येव तवगंतापिका तलनं च सुकुमारिकादेरिव भ्राष्ट्रे - अंबरीषे भर्जनं च- पाकविशेषकरणं चणकादेरिवेति द्वन्द्वोऽतस्तानि च लोहकटाहोत्क्वाथनानि च इक्षुरसस्येव 'कोट' त्ति - क्रीडा तेन बलिकरणंचण्डकादेः पुरतो बस्तादेरिव उपहारविधानं, पाठान्तरे कोट्टा कोट्टकिरिया दुर्गा तस्यैच, कोट्टाय वा- प्राकाराय बलिकरणं तच्च कुट्टनं च-कुटिलत्वकरणं वैकल्यकरणं वा कुट्टेन वा चूर्णनं तानि च शाल्मल्या - वृक्षविशेषस्य तीक्ष्णाग्रा ये लोहकण्टका इव लोहकण्टकास्तेष्वभिसरणं च - आपेक्षिकमभिमुखागमनमपसरणंच - निवर्त्तनं शाल्मलीतीक्ष्णाग्रलोहकण्टकाभिसरणापसरणे स्फाटनं च सकृद्दारणं विदारणं च विविधप्रकारैरिति, तेच ते अवकोटकबन्धनानि - बाहुशिरसां पृष्ठदेशे बन्धनानि यष्टिशतताडनानि च प्रतीतानि गलके - कण्ठे बलात्- हठात् यान्युलम्बनानि - वृक्षशाखादावुद्बन्धनानि तानि गलकबलोल्लम्बनानि, शूलाग्रभेदनानि च व्यक्तानि, आदेशप्रपञ्चनानि-असत्यार्थदेशतो विप्रतारणानि, 'खिंसनविमानानि वा' तत्र खिसनानि - निन्दनानि विमानानि-अपमानजननानि 'विधु पणिञ्जणाणि त्ति विधुष्टानां एते पापाः प्राप्नुवन्ति स्वकृतं पापफलमित्यादिवाग्भिः संशब्दितानां प्रणयनानि - वध्यभूमिप्रापणानि विधुष्टप्रणयनानि वध्यशतानि व्यक्तानि तान्येव माता - उत्पत्तिभूमिर्येषां तानि बध्यशतमातृकाणि बध्याश्रितदुःखानीत्यर्थस्तानि च एवमित्युक्तक्रमेण ते पापकर्म्मकारिण इत्यनेन सम्बन्धः । मू. (८-वर्तते) पुव्वकम्मकयसंचयोवतत्ता निरयग्गिमहग्गिसंपलित्ता गाढदुक्खं महब्भयं कक्कसं असायं सारीरं मानसं च तिव्वं दुविहं वेदेति वेयणं पावकम्मकारी बहूणि पलि ओवमसागरोवमाणि कलुणं पालेन्ति ते अहाउयं जमकातियतासिता य सद्दं करेति भीया, किं ते ?, अविभायसामिभायबप्पतायजितवं भुय मे मरामि दुब्बलो वाहिपीलिओऽहं किं दानिऽसि एवंदारुणो निद्दय मा देहि मे पहारे उस्सासेतं (एयं) मुहुत्तयं मे देहि पसायं करेहि मा रुस वीसमामि विजं मुह में मरामि, गाढमं तण्हातिओ अहं देह पाणीयं हंता पिय इमं जलं विमलं सीयलंति धेत्तूण य नरयपाला तवियं तउयं से देति कलसेण अंजलीसु दङ्कण य तं पवेवियंगोवंगा अंसुपगलंतपप्पुयच्छा छिन्ना तण्हाइयम्ह कलुणाणि जंपमाणा विप्पेक्खन्ता दिसोदिसिं अत्ताणा असरणा अणाहा अबंधवा बंधुवप्पहूणा विपलायंति य मिगा इव वेगेण भयुव्विग्गा, धेत्तूण बला पलायमाणाणं निरनुकंपा मुहं विहाडेत्तु लोहडंडेहिं कलकलं हं वयणंसि छुभंति केइ जमकाइया हसंता, तेण दड्ढा संतो रसंति य भीमाई विस्सराई रुवंति य कलुणगाई पारेवतगाव एवं पलवितविलावकलुणाकंदियबहुरुन्नरुदियसद्दो परिवेवितरुद्धबद्धयनारकारवसंकुलो णीसो रसियभणियकुविउक्कूइयनिरयपालतज्जियगेण्हक्कम पहर छिंद भिंद उप्पाडेहुक्खणाहि कत्ताहि विकत्ताहि य भुजो हण विहण विच्छुभोच्छुब्भ आकड्ड विकड्ड किं न जंपसि ? सराहि पावकम्माई दुक्कयाई एवं वयणमहप्पगन्भो पडिसुयासहसंकुलो तासओ सया निरयगोयराण महानगरडज्झमाणसरिसो निग्घोसो सुच्चए अनिट्टो तहियं नेरइयाणं जाइचंताणं जायणाहिं, किं ते? असिवणदब्भवणजंतपत्थरसूइतलक्खारवाविकलकलंन्तवेयरणिकलंबवालुया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy