SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५३० स्थानाङ्ग सूत्रम् १०/-/९२७ 'सद्दाउलयंति शब्देनाकुलं शब्दाकुलं-बृहच्छब्दं, तथा महता शब्देनालोचयति यथाऽन्येऽप्यगीतार्थास्ते श्रृण्वन्तीति, अभाणि च- “सद्दाउल वड्डेणं सद्देणालोय जह अगीयावि बोहेइ।।" इति _ 'बहुजणं'ति बहवो जना-आलोचनाचार्याः यस्मिन्नालोचने तद्बहुजनं, अयमभिप्रायः॥१॥ “एक्कस्सालोएत्ता जो आलोए पुणोवि अन्नस्स । तेचेव य अवराहे तं होइ बहुजणं नाम ।।" इति, अव्यक्तस्य-अगीतार्थस्य गुरोः सकाशे यदालोचनं तत्सम्बन्धादव्यक्तमुच्यते, उक्तंच"जोयअगीयत्थस्साआलोएतंतुहोइअव्वत्तं" इति तस्सेवित्तिये दोषाआलोचयितव्यास्तत्सेवी यो गुरुस्तस्यपुरतो यदालोचनंसतत्सेविलक्षणआलोचनादोषः, तत्र चायमभिप्रायःआलोचयितुः॥१॥ “जह एसो मत्तुल्लो न दाही गुरुगमेव पच्छित्तं। इय जो किलिङ्कचित्तो दिन्ना आलोयणा तेणं ।" इति मू. (९२८) दसहि ठाणेहिं संपन्ने अनगारे अरिहति अत्तदोसमालोएत्तते, तं०-जाइसंपन्ने कुलसंपन्ने एवं जधाअट्ठाणे जावखंते दंते अमाती अपच्छानुतावी, दसहि ठाणेहिं संपन्ने अनगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा-आयारवंअवहारवंजाव अवातदंसी पितधम्मेदढधम्मे, दसविधे पायच्छित्ते पं० तं०-आलोयणारिहे जाव अणवठ्ठप्पारिहे पारंचियारिहे। वृ. एतद्दोषपरिहारिणाऽपि गुणवत एवालोचना देयेति तद्गुणनाह-दसहि ठाणेही'त्यादि, एवं अनेन क्रमेण यथाऽष्टस्थानके तथा इदं सूत्रं पठनीयमित्यर्थः, कियडूरं यावत्वंते दंतेत्तिपदे, तथाहि-'विनयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरणसंपन्ने'त्ति, 'अमायी अपच्छानुतावी'ति पदद्वयमिहाधिकं प्रकटंच, नवरं ग्रन्थान्तरोक्तंतत्स्वरूपमिदं-“नो पलिउंचे अमायी अपच्छयावीन परितप्पे'ति । एवंभूतगुणवताऽपि दीयमानाऽऽलोचना गुणवतैव प्रत्येष्टव्येति तद्गुणानाह 'दसही'त्यादि, आयारवं'तिज्ञानाद्याचारवान् १ अवहारवंति अवधारणावान २ जावकरणात् ‘ववहारवं' आगमादिपञ्चप्रकारव्यवहारवान् ३ 'उध्वीलए' अपव्रीडकः लज्जापनोदको यथा परः सुखमालोचयतीति ४ पकुव्ची' आलोचिते शुद्धिकरणसमर्थः ५ निजवए' यस्तथा प्रायश्चित्तंदत्तेयथा परो निर्वोढुमलं भवतीति६ अपरिस्सावी' आलोचकदोषानुपश्रुत्य योनोद्गिरति ७'अवायदंसी' सातिचारस्य पारलौकिकापायदर्शीतिपूर्वोक्तमेव ८'पियधम्मे ९ दढधम्मे' १० त्ति अधिकमिह प्रियधा-धर्माप्रियः विधाय आपद्यपि धमन्नि चलतीति। आलोचितदोषाय प्रायश्चित्तं देयमतस्तप्ररूपणसूत्रं-आलोचना-गुरुनिवेदनं तयैव यच्छुद्धयत्यतिचारजातंतत्तदर्हत्वादालोचनाह, तच्छुध्ध्यर्थंयप्रायश्चित्तंतदप्यालोचनाह, तच्चालोचमैवेत्येवं सर्वत्र, यावत्करणात् 'पडिक्कमणारिहे' प्रतिक्रमणं-मिथ्यादुष्कृतं तदहं तदुभयारिहे' आलोचनाप्रतिक्रमणाहमित्यर्थः 'विवेगारिहे परित्यागशोध्यं विउसग्गारिहे कायोत्सर्गाहें तवारिहे' निर्विकृतिकादितपःशोध्यं छेदारिहे' पर्यायच्छेदयोग्यं मूलारिहे व्रतोपस्थापनाह अणवठ्ठप्पारिहे' यस्मिन्नासेविते कञ्चन कालं व्रतेष्वनवस्थाप्यं कृत्वा पश्चाच्चीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्याह, 'पारश्चियारिहे' एतदधिकमिह, तत्र यस्मिन् प्रतिषेविते लिङ्गक्षेत्रकालतपोभिः पाराश्चिको-बहिर्भूतः क्रियते तत्पाराश्चिकं तदर्हमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy