SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ स्थानं - ८, ४७१ वर्त्तमानजलमिवानलरतमुद्वर्त्तनपरिवर्त्तनपरास्तत्स्वभावाद्ये ते अमध्यप्रदेशा इति । जीवमध्यप्रदेशादिपदार्थप्रतिपादकास्तीर्थकरा भवन्तीति प्रकृताध्यनावतारिणीं तीर्थङ्करवक्तव्यता सूत्रद्वयेनाह मू. (७३७) अरहंताणं महापउमे अट्ठ रायाणो मुंडा भवित्ता अगारातो अनगारितं पव्वावेस्सति, तं०-पउमं पउमगुम्मं नलिणं नलिनगुम्मं पउमद्धत धणुद्धतं कणगरहं भरहं 9 वृ. 'अरहाण 'मित्यादि सुगमं, नवरं 'महापउमे' त्ति महापद्मो भविष्यदुत्सर्पिण्यां प्रथमतीर्थकरः श्रेणिकराजजीव इति इहैव नवस्थानके वक्ष्यमाणव्यतिकर इति, 'मुंडा भवित्त' ति मुण्डान् भावयित्वेति । मू. (७३८) कण्हस्स णं वासुदेवस्स अट्ठ अग्गमहिसीओ अरहतो णं अरिट्ठनेमिस्स अंतिते मुंडा भवेत्ता अगारातो अनगारितं पव्वतिता सिद्धाओ जाव सव्वदुक्खप्पहीणाओ, तं०-पउमावती गोरी गंधारी लक्खणा सुसीमा जंबवती सच्चभामा रूप्पिणी कण्ह अग्गमहिसीओ २ वृ. कृष्णाग्रमहिषीवक्तव्यता त्वन्तकृद्दशाङ्गादवसेया, सा चेयं किल द्वारकावत्यां कृष्णो वासुदेवो बभूव, पद्मावत्यादिकास्तस्य भार्या अभूवन्, अरिष्ठनेमिस्तत्र विहरति स्म, कृष्णः सपरिवारः पद्मावतीप्रमुखाश्च देव्यो भगवन्तं पर्युपासासिरे, भगवांस्तु तेषां धर्ममाचख्यौ, ततः कृष्णो वन्दित्वाऽभ्यधात् - अस्या भदन्त ! द्वारकावत्या द्वादशनवयोजनायामविस्ताराया धनपतिनिर्म्मि- तायाः प्रत्यक्षदेवलोक भूतायाः किंमूलको विनाशो भविष्यति ?, भगवान् त्रिभुवनगुरुर्जगाद - सुराग्निद्वीपायनमुनिमूलको विनाशो भविष्यतीति निशम्य मधुमथनो मनस्येवं विभावितवान्- धन्यास्ते प्रद्युम्नादयो ये निष्क्रान्ताः अहमधन्यो भोगमूर्च्छितो न शक्नोमि प्रव्रजितुमिति, ततस्तमर्हन्नवादीद-भोः ! कृष्ण न भवत्ययमर्थो यद्वासुदेवाः प्रव्रजन्ति, कृतनिदानत्वात्तेषां, अथाहं भदन्त ! क्वोत्पत्स्ये ?, भुवनविभुराह दग्धायां पुरि पाण्डुमथुरां प्रति चलितः कौशाम्बकानेन न्यग्रोधस्याधः सुप्तो जराकुमाराभिधानभात्रा काण्डेन पादे विद्धः कालं कृत्वा वालुकप्रभायामुत्पत्स्यसे, एवं निशम्य यदुनन्दनो दीनमनोवृत्तिरभवत्, ततोजगद्गुरुगादीत्-मा दैन्यं व्रज यतस्ततस्त्वमुवृत्याऽऽगामिन्यामुत्सर्पिण्यां भारते वर्षेऽ ममाभिधानो द्वादशोऽर्हन् भविष्यसीति श्रुत्वा जहर्ष सिंहनादादि च चकार, ततो जनार्द्दनो नगरीं गत्वा घोषणां कारयाञ्चकार यदुतार्हता नेमिनाथेनास्या नगर्या विनाशः समादिष्टस्ततो यः कोऽपि तत्समीपे प्रव्रजति तस्याहं निष्क्रमणमहिमानं वितनोमीति निशम्य पद्मावतीप्रभृतिका देव्योऽवादिषुः वयं युष्माभिरनुज्ञाताः प्रव्रजामः, ततस्ता महान्तं निष्क्रमणमहिमानं कृत्वा नेमिजिननायकस्य शिष्यिकात्वेन दत्तवान्, भगवांस्तु ताः प्रब्राजितवान्, ताश्च विंशतिवर्षाणि प्रव्रज्यापर्यायं परिपाल्य मासिक्या संलेखनया चरमोच्छासनिःश्वासाभ्यां सिद्धा इति । मू. (७३९) वीरितपुव्वस्स णं अट्ठ वत्थू अट्ठ चूलिआवत्थू पं० । वृ. एताश्च सिद्धा वीर्यादिति वीर्याभिधायिनः पूर्वस्य स्वरूपमाह - ' वीरियपुव्वे 'त्यादि, वीर्यप्रवादाख्यस्य तृतीयपूर्वस्य वस्तूनि-मूलवस्तूनि अध्ययनविशेषा आचारे ब्रह्मचर्याध्ययनवत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy