SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३३४ -: स्थानं - ५ - उद्देशक:- २ : बृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः - अनन्तरोद्देशके विविधा जीववक्तव्यतोक्ता इहापि सैवोच्यत इत्येवमभिसम्बन्धस्यास्येदमादिसूत्रम् नू. (४५०) नो कप्पइनिग्गंथाण वा निग्गंथीण वा इमाओ उद्दिट्ठाओ गणियाओ वितंजितातो पंच महण्णवातो महानदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, तं०- गंगा जउणा सरऊ एरावती मही, पंचहिं ठाणेहिं कप्पति, तं०-भतंसि वा १ दुब्भिक्खंसि वा २ पव्वहेज व णं कोई ३ दओघंसि वा एज्रमाणंसि महता वा ४ अनारितेसु ५ । वृ. अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - पूर्वसूत्रे केवलिनिर्ग्रन्थगतं वस्तूक्तमिह तु छद्मस्थनिर्गन्थगतं तदुच्यत इत्येवमस्याराद्गर्भसूत्राद् अन्येषां च सम्बन्धानां नो कप्पईत्यादीनां व्याख्या सुकरैव, नवरं 'नो कप्पइ' त्ति न कल्पन्ते न युज्यन्ते, एकवचनस्य बहुवचनार्थत्वात् 'वत्थगन्धमलङ्कार' मित्यादाविवेति, निर्गता ग्रन्थादिति निर्ग्रन्थाः साधवस्तेषां तथा निर्ग्रन्थीनां - साध्वीनां, इह प्रायस्तुल्यानुष्ठानत्वमुभयेषामपीतिदर्शनार्थी वाशब्दौ - स्थानाङ्ग सूत्रम् ५/२/४५० - 'इमा' इति वक्ष्यमाणनामतः प्रत्यक्षासन्ना उद्दिष्टाः सामान्यतोऽभिहिता यथा महानद्य इति गणिताः यथा पञ्चेति व्यञ्जिता व्यक्तीकृताः यथा गङ्गेत्यादि विशेषणोपादानाद्वा यथा महार्णवा इति, तत्र महार्णव इव या बहूदकत्वात् महार्णवगामिन्योवा यास्ता वा महार्णवा महानद्यो - गुरुनिम्नगाः अन्तः मध्ये मासस्य द्विकृत्वो वा द्वौ वारौ त्रिकृत्वो वा त्रीन्वारान् उत्तरीतुं लङ्घयितुं बाहुजङ्घादिना सन्तरीतुं - साङ्गत्येन नावादिनेत्यर्थः लङ्घयितुमेव, सकृद्वोत्तरीतुमनेकशः सन्तरीतुमिति, अकल्प्यता चात्मसंयमोपघातसम्भवात् शबलचारित्रभावाद्, यत आह- "मासब्भंतर तिन्नि दगलेवा उ करेमाणे "त्ति इह सूत्रे कल्पभाष्यगाथा 119 11 ॥१॥ ॥२॥ " इम उत्ति सुत्तउत्ता १ उद्दिट्ठ नईओ २ गणिय पंचेव ३ । गंगादि वंजियाओ ४ बहूदय महन्नवाओ य ५ पंचण्हं गहणेणं सेसावि उ सूइया महासलिला ||" - इति, प्रत्यपायाश्चेह "ओहारमगराइया, घोरा तत्थ उ सावया । सरीरोवाहिमाईया, नावातेणा व कत्थइ "॥ इति, अपवादमाह - 'पंचे 'त्यादि, भये राजप्रत्यचनीकादेः सकाशादुपध्याद्यपहारविषये सति १ दुर्भिक्षे या भिक्षाऽभावे सति २, 'पव्वहेज ' त्ति प्रव्यथते - बाधते अन्तर्भूतकारितार्थत्वाद्वा प्रवाहयेत् कश्चित् प्रत्यनीकः, तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थः ३ 'दओधंसि' त्ति उदकौधे वा गङ्गादीनामुन्मार्गगामित्वेनागच्छति सति तेन प्लाव्यमानानामित्यर्थः, महता च आटोपेनेति शेषः ४, 'अनारिएसु' त्ति विभक्तिव्यत्ययादनार्यैः--लेच्छादिभिर्जीवितचारित्रापहारिभिरभिभूतानामित् शेषः, म्लेच्छेषु वा आगच्छत्स्विति शेषः, एतानि पुष्टालम्बनानीति तत्तरणेऽपि न दोष इति, उक्तं च-"सालंबणो पडतोवि अप्पयं दुग्गमेऽवि धारेइ । इय सालंबनसेवी धारेइ जई असढभावं ॥ आलंबणहीणो पुण निवड्डु खलिओ अहे दुरुत्तारे । इय निक्कारणसेवी पडइ भवोहे अगाहम्मि ” ॥ इति, 119 || For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy