SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २७४ स्थानाम सूत्रम् ४/३/३५८ प्राप्तार्थपरिच्छेदस्वभावत्वादिति, उक्तंच “पुढे सुणेइ सई रूवं पुण पासई अपुढे तु। गंधरसंच फासंच बद्धपुढे वियागरे" इति म. (३५९) चउहि ठाणेहिं जीवाय पोग्गला य नो संचातेति बहिया लोगंता गमणताते, तं०-गतिअभावेणं निरुवग्गहताते लुक्खताते लोगानुभावेणं। वृ, अनन्तरं जीवपुद्गलयोरिन्द्रियद्वारेण ग्राहकग्राह्यभाव उक्तोऽधुना तयोर्गतिधर्म चिन्तयन्नाह- 'चउही त्यादि, व्यक्तं, परमन्येषां गतिरेव नास्तीति 'जीवायपुग्गला ये त्युक्तम्, 'नोसंचाऐंति' न शक्नुवन्ति नालं 'बहिय'त्ति बहिस्ताल्लोकान्तात् अलोके इत्यर्थः, गमनतायैगमनाय गन्तुमित्यर्थः, गत्यभावेन-लोकान्तात् परतस्तेषां गतिलक्षणस्वभावाभावादधो दीपशिखावत्, तथा निरुपग्रहतया-धर्मास्तिकायाभावेन तजनितगत्युपष्टम्भाभावात् गन्त्र्यादिरहितपमुवत्, तथा रुक्षतया सिकतामुष्टिवत्, लोकान्तेषु हि पुद्गला रूक्षतया तथा परिणमन्ति यथा परतो गमनाय नालं, कर्मपुद्गलानां तथाभावे जीवा अपि, सिद्धास्तु निरुपग्रहतयैवेति, लोकानुभावेन-लोकमर्यादया विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवदिति । अनन्तरोक्ता अर्था उक्तवन्निदर्शनतःप्रायःप्राणिनांप्रतीतिपथपातिनो भवन्तीनिनिदर्शनभेदप्रतिपादनाय पञ्चसूत्री मू. (३६०) चउविहे नाते पं० तं०-आहरणे आहरणतइसे आहरणतद्दोसे १, आहरणे चउविहे पं० २०-अवाते उवाते ठवणाकम्मे पडुपन्नविणासी २, आहरणतसे चउब्बिहे पं० तं०-अणुसिट्टि उवालंभे पुच्छा निस्सावयणे ३, आहरणतद्दोसे चउब्धिहे पं० २०-अधम्मजुत्ते पडिलोमे अंतोवणीते दुरुवणीते ४, उवनासोवणए चउबिहे पं०२०-तव्वत्युते तदन्नवत्थुते पडिनिभे हेतूहेऊ५, चउव्विहेपं० तं०-पच्चक्खे अनुमाने ओवम्मे आगमे, अहवा हेऊ चउविहे पं० तं०-अस्थित्तं अस्थि सो हेऊ १, अस्थित्तं नस्थि सो हेऊ २, नत्थित्तं अस्थि सो हेऊ३, नत्थित्तं नत्यिसो हेऊ४/ वृ.तत्र ज्ञायते अस्मिन् सति दार्शन्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानात् ज्ञातंछष्टान्तः, साधनसद्भावेसाध्यस्यावश्यंभवः साध्यभावेवासाधनस्यावश्यमभाव इत्युपदर्शनलक्षणो, यदाह-- ॥१॥ "साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः, स साधर्येतरो द्विधा" इति, तत्र साधर्म्यष्टान्तोऽग्निरत्र धूमाद्यथा महानस इति, वैधर्म्यष्टान्तस्तु अग्नयभावे धूमो नभवतियथा जलाशये इति, अथवा आख्यानकरूपं ज्ञातं, तच्च चरितकल्पितभेदात् द्विधा, तत्र चरितं यथा निदानं दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति देशनीयं, यथा पाण्डुपत्रेण किशलयानां देशितं, तथाहि॥१॥ “जह तुब्भे तह अम्हे तुब्भेऽविय होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं"। अथवोपमानमात्रंज्ञातंसुकुमारः करः किशलयमिवेत्यादिवत्, अथवा ज्ञातम्उपपत्तिमात्र www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy