SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३६० सूत्रकृताङ्ग सूत्रम् २/२/-/६६७ _ 'सेजहानामए' इत्यादि, तद्यथा नामायोगोलकः-अयस्पिण्डः शिलागोलको वृत्ताश्मशकलं वोदके प्रक्षिप्तः समानः सलिलतलमतिवर्त्य-अतिलयाधोधरणीतलप्रतिष्ठानो भवति । अधुना दार्टान्तिकमाह-'एवमेवे'त्यादि, यथाऽसावयोगोलकोवृत्तत्वाच्छीघ्रमेवाधोयात्वेवमेव तथाप्रकारः पुरुषजातः, तमेवलेशतो दर्शयति-वज्रवद्वजं गुरुत्वाकर्मतबहुलः-तयुचरोबध्यमानककर्मगुरुरित्यर्थः तथा घूयत इति धूतं-प्राग्बद्धं कर्म तप्रचुरः, पुनः सामान्येनाह-पङ्कयतीति पझ्-पापं तद्बहुलः, तथा तदेव कारणतो दर्शयितुमाह-वैरबहुलो' वैरानुबन्धप्रचुरः, तथा 'अपत्तियंति मनसो दुष्प्रणिधानं तत्प्रधानः, तथा दम्भो-मायया परवञ्चनं तदुत्कटः, तथा निकृतिः-माया वेषभाषापरावृत्तिच्छद्मना परद्रोहबुद्धिस्तन्मयः, तथा सातिबहुल' इति सातिशयेनद्रव्येणापरस्य हीनगुणस्य द्रव्यस्य संयोगः सातिस्तबहुलः-तत्करणप्रचुरः, तथाअयश:-अश्लाघाअसद्वृत्ततया निन्दा, यानि यानि परापकार भूतानि कर्मानुष्ठानानि विधत्तेतेषुतेषुकर्मसु करचरणच्छेदनादिषु अयशोभाग्भवतीति, स एवंभूतः पुरुषः कालमासे' स्वायुपः क्षये कालं कृत्वा पृथिव्याःरत्नप्रभादिकायास्तलम् 'अतिवर्त्य योजनसहस्रपरिमाणमतिलझ्यनरकतलप्रतिष्ठानोऽसौ भवति नरकस्वरूपनिरूपणायाह मू. (६६८) तेणं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निचंधकारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मैदवसाममसरूहिरपूयपडलचिक्खिल्ललित्तानुलेवणतला असुई वीसा परमदुब्भिगंधा कण्हाअगणिवन्नाभा कक्खडफासादुरहियासा असुभा नरगा असुभा नरएसु वेयणाओ। नो चैव नरएसु नेरइया निदायंति वा पयलायंति वा सुई वा रतिं वा धिति वा मतिं वा उवलभंते, तेणं तत्थ उज्जलं विउलं पगाढं कडुयं कक्कसंचंडं दुक्खं दुग्गं तिव्वंदुरहियासं नेरइया वेयणं पच्चनुभवमाणा विहरंति। वृ. णमिति वाक्यालङ्कारे ते नरकाः सीमन्तकादिका बाहुल्यमङ्गीकृत्यान्तः-मध्ये वृत्ता बहिरपिचतुरम्नाअधश्च क्षुरप्रसंस्थानसंस्थिताः, एतच्च संस्थानंपुष्पावकीर्णानाश्रित्योक्तं, तेषामेव प्रचुरत्वात्, आवलिकाप्रविष्टास्तु वृत्तत्रयचतुरसंस्थाना एव भवन्ति, तथा नित्यमेबान्धतमसं येषु ते नित्यान्धतमसाः, क्वचित्पाठो नित्यान्धकारतमसा इति, मेघावच्छन्नाम्बरतलकृष्णपक्षरजनीवत् तमोबहुलाः, तथा व्यपगतो ग्रहचन्द्रसूर्यनक्षत्रज्योतिपथो येषां ते तथा । पुनरप्यनिष्टापादनार्थं तेषामेव विशेषणान्याह-'मेदवसे' त्यादि, दुष्कृतर्मकारिणां तेनरकास्तहुखोत्पादनायैवंभूता भवन्ति, तद्यथा-मेदवसामांसरुधिरपूयादीनां पटलानिसङ्कास्तैर्लिप्तानिपिच्छिलीकृतान्यनुलेपनतलानि-अनुलेपनप्रधानानि तलानि येषां ते तथा, अशुचयो विष्ठाऽसूक्लेदप्रधानत्वाद् अत एव विश्राः कुथितमांसादिकल्पकर्दमावलिप्तत्वात्, एवं परमदुर्गन्धाः कुथितगोमायुकलेवरादपि असह्यगन्धाः, तथा कृष्णाग्निवर्णाभारूपतः स्पर्शतस्तु कर्कशः-कठिनो वज्रकण्टकादप्यधिकतरः स्पर्शो येषां ते तथा । किंबहुना?,अतीव दुःखेनाधिसह्यन्ते, किमिति?, ___ यतस्तेनरकाः पञ्चानामपीन्द्रियार्थानामशोभनत्वादशुभाः, तत्र च सत्वानामशुभकर्मकारिणामुग्रदण्डपातिनां च वज्रप्रचुराणां तीव्रा अतिदुःसहवेदनाः शारीराः प्रादुर्भवन्ति, तया च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy