SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशकः - १ २७ पदार्थ उपलभ्यते, यथा वाऽलातंभ्राम्यमाणमतद्रूपमपि चक्रबुद्धिमुत्पादयति एवं भूतसमुदायोऽपि विशिष्टक्रियोपेतो जीवभ्रान्तिमुत्पादयतीति, यथा च स्वप्ने बहिर्मुखाकारतया विज्ञानमनुभूयते अन्तरेणैव बाह्यमर्पम्, एवमात्मानमन्तरेण तद्विज्ञानं भूतसमुदायेप्रादुर्भवतीति, तथा यथाऽऽदर्श स्वच्छत्वाप्रतिबिम्बितोबहिस्थितोऽप्यर्थोऽन्तर्गतोलक्ष्यते, नचासौतथा, यथा चग्रीष्मे भौमेनोष्मणा परिस्पन्दमाना मरीचयो जलाकारं विज्ञानमुत्पादयन्ति, एवमन्येऽपि गन्धर्वनगरादयः स्वस्वरूपेणातधाभूता अपि तथा प्रतिभासन्ते, तथाऽऽत्मापि भूतसमुदायस्य कायाकारपरिणतौ सत्यां पृथगसन्नेव तथा भ्रान्तिं समुत्पादयतीति। अमीषां च दृष्टान्तानां प्रतिपादकानि केचित्सूत्राणि व्याचक्षते, अस्माभिस्तु सूत्राऽऽदर्शेषु चिरन्तनटीकायां चाटत्वान्नोल्लिङ्गितानीति । ननु च यदि भूतव्यतिरिक्तः सुभगोऽपरो दुर्भगः सुखी दुःखी सुरूपो मन्दरूपो व्याधितो नीरोगीति, एवंप्रकारा च विचित्रता किंनिबन्धनेति?, अत्रोच्यते, स्वभावात्, तथाहि-कुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते, तच कुङ्कुमागरुचन्दनादिविलेपनानुभोगमनुभवतिधूपाद्यामोदंच, अन्यस्मिंस्तु पाषाणखण्डे पादक्षालनादि क्रियते, न च तयोः पाषाणखण्डयोः शुभाशुभे स्तः, यदुदयात्स ताग्विधावस्थाविशेष इत्येवं स्वभावाजगद्वैचित्र्यं, तथा चोक्तम् --- ॥१॥ “कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता। वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ।। इति तज्जीवतच्छरीरवादिमतं गतम् इदानीमकारकवादिमताभिधित्सयाऽऽहमू. (१३) कुव्वं च कारयं चेव, सव्वं कुव्वं न विजई। एवं अकारओ अय्या, एवं ते उ पगभिआ ।। वृ. कुर्वन्निति स्वतन्त्रः कर्ताऽभिधीयते, आत्मनश्चाभूर्तत्वान्नित्यत्वात् सर्वव्यापित्वाच्च कर्तृत्वानु- पपत्ति, अत एव हेतोः कारयितृत्वमप्यात्मनोऽनुपपन्नमिति, पूर्वश्चशब्दोऽतीतानागतकर्तृत्व-निषेधको द्वितीयः समुच्चयार्थ, ततश्चात्मान स्वयं क्रियायांप्रवर्तते, नाप्यन्यप्रवर्तयति, यद्यपिच स्थितिक्रियां मुद्राप्रतिबिम्बोदयन्यायेन भुजिक्रियां करोति तथाऽपि समस्तक्रियाकर्तृत्वं तस्य नास्ती---त्येतदर्शयति___'सव्वं कुव्वं न विजइ'त्ति 'सर्वां परिस्पन्दादिकांदेशाद्देशान्तरप्राप्तिलक्षणां क्रियां कुर्वन्नात्मा न विद्यते, सर्वव्यापित्वेनामूर्तत्वेन चाकाशस्येवात्मनो निष्क्रियत्वमिति, तथा चोक्तम्-"अकर्ता निर्गुणो भोक्ता, आत्मा साङ्क्षयनिदर्शने' इति । एवम्' अनेन प्रकारेणात्माऽकारक इति, 'ते' सांख्याः, तुशब्दः पूर्वेभ्यो व्यतिरेकमाह, ते पुनः साङ्ख्या एवं 'प्रगल्भिताः' प्रगल्भवन्तो धाय॑वन्तः सन्तोभूयोभूयस्तत्र तत्रप्रतिपादयन्ति, यथा-"प्रकृति करोति, पुरुष उपभुङ्के, तथा वुद्धध्यवसितमर्थं पुरुषश्चेतयते" इत्याद्यकारकवादिमतमिति साम्प्रतं तज्जीवतच्छरीराकारकवादिनोर्मतं निराचिकीर्षुराहमू. (१४) जे ते उ वाइणो एवं, लोए तेसिं कओ सिया?| तमाओ ते तमंजंति, मंदा आरंभनिस्सिया ।। वृ.तत्रयेतावच्छरीराव्यतिरिक्तात्मवादिनः एव मितिपूर्वोक्तया नीत्या भूताव्यतिरिक्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy