SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २९१ श्रुतस्कन्धः - २, उपोद्घात नियुक्तिः __२९१ स्याध्ययनस्य नाम, तन्निक्षेपार्थं नियुक्तिकृदाह । नि. [१४४] नामंठवणादविए खेत्ते काले य गणण संठाणे। __ भावे य अट्ठमे खलु निक्खेवो पुंडरीयस्स ।। वृ. 'नाम' मित्यादि, पौण्डरीकस्य नामस्थापनाद्रव्यक्षेत्रकालगणनासंस्थानभावात्मकोऽष्टधा निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनाध्त्य द्रव्यपौण्डरीकमभिधित्सुराह ! नि. [१४५] जो जीवो भविओ खलुववज्जिकामो यपुंडरीयंमि। सो दव्वपुंडरीओ भावंमि विजाणओ भणिओ॥ वृ. 'जो' इत्यादि, यः कश्चित्प्राणधारणलक्षणो जीवो भविष्यतीति भव्यः, तदेवदर्शयति'उत्पतितुकामः' समुत्पित्सुस्तथाविधकर्मोदयात् 'पौण्डरीकेषु' श्वेतपद्मेषुवनस्पतिकायविशेषेष्वनन्तरभवे भावीस द्रव्यपौण्डरीकः, खलुशब्दो वाक्यालङ्गारे, भावपौण्डरीकंत्वागमतः पौण्डरीकपदार्थ ज्ञस्तत्र चोपयुक्त इति । एतदेव द्रव्यपौण्डरीकं विशेषतरं दर्शयितुमाह -- नि. [१४६] एगभविए य बदाउए य अभिमुहियनामगोएय। एते तिन्निवि देसा दव्वंमि य पोंडरीयस्स !! वृ. 'एगे' त्यादि, एकेन भवेन गतेनानन्तरभव एव पौण्डरीकेषूत्पत्स्यते स एकभविकः, तथा तदासनतरः पौण्डरीकेषु बद्धायुष्कस्ततोऽप्यासनतमोऽभिमुखनामगोत्रोऽनन्तरसमयेषु यः पौण्डरीकेषूत्पद्यते, एते अनन्तरोक्ता त्रयोऽप्यादेशविशेषा द्रव्यपौण्डरीकेऽवगन्तव्या इति ॥१॥ "भूतस्य भाविनोवा भावस्य हि कारणं तु यल्लोके । तव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ? ।। इतिवचनात्, इहच पुण्डरीककण्डरीकयोध्रांत्रोर्महाराजपुत्रयोः सदसदनुष्ठानपरायणतया शोभनाशोभनत्वमवगम्य तदुपमयाऽन्यदपि यच्छोभनं तत्पौण्डरीकमितरत्तु कण्डीरकमिति । नि. [१४७] तेरिच्छिया मणुस्सा देवगणा चेव होंतिजे पवरा। ते होंति पुंडरीया सेसा पुण कंडरीया उ॥ वृ.तत्रच नरकर्जासुतिसृष्वपि गतिषुये शोभनाः पदार्थास्तेपीण्डरीकाः शेषास्तुकण्डरीका इत्येतप्रतिपादयन्नाह-'तेरिच्छिये'त्यादि कण्ठया, तत्र तिर्यक्षु प्रधानस्य पौण्डरीकत्वप्रतिपादनार्थमाह-- नि. [१४८] जलयर थलयर चयरा जे पवरा चेव होंति कंता या जे असभावेऽनुमया ते होति पुंडरीयाउ॥ धृ. जलधरेत्यादि, जलचरेषु मत्स्यकरिमकरादयः स्थलचरेषु सिंहादयो बलवर्णरूपादिगुणयुक्ता उरःपरिसपेषु मणिफणिनो भुजपरिसपेषु नकुलादयः खेचरेषु हंसमयूरादयः इत्येवमन्येऽपि 'स्वभावेन प्रकृत्यालोकानुमतास्ते च पौण्डरीका इव प्रधाना भवन्ति।मनुष्यगती प्रधाना विष्करणायाह - नि. [१४९] अरिहंत चक्कवट्ठी चारण विजाहरा दसारा य । जे अन्ने इड्ढिमंता ते होंति पोंडरीया उ॥ वृ. 'अरिहंते' त्यादि, सर्वातिशायिनीं पूजामर्हन्तीत्यर्हन्तः, ते निरुपमरूपादिगुणोपेताः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy