SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २६४ सूत्रकृताङ्ग सूत्रम् १/१४/-/५८२ यश्चैवं विप्रलम्भयन्ति, तद्यथा-आयुष्मन् ! न भवन्तमन्तरेणास्माकं कश्चिदस्ति पोषकः पोष्यो वा, त्वमेवास्माकं सर्वस्वं, त्वया विना सर्वं शून्यमाभाति, तथा शब्दादिविषयोपभोगामन्त्रणेन सद्धर्माच्यावनयन्ति, एवं राजादयोऽपि द्रष्टव्याः, तदेवमपुष्टधर्माणमेकाकिनं बहुभिः प्रकारः प्रतार्यापहरेयुरिति॥ मू. (५८३) ओसाणमिच्छे मणुए समाहिं, अनोसिए नंतकरिति नचा। ओभासमाणे दवियस्स वित्तं, न निकसे बहिया आसुपन्नो । वृ.तदेवमेकाकिनः साधोर्यतो बहवोदोषाः प्रादुर्भवन्ति अतः सदा गुरुपादमूले स्थातव्यमित्येतदर्शयितुमाह-'अवसान' गुरोरन्तिके स्थानं तद्यावञ्जीवं 'समाधि' सन्मार्गानुष्ठानरूपम् 'इच्छेद्' अभिलषेत् 'मनुजो' मनुष्यः साधुरित्यर्थः। सएव चपरमार्थतोमनुष्योयोयथाप्रतिज्ञातंनिर्वाहयति, तच्चसदागुरोरन्तिके व्यवस्थितेन सदनुष्ठानरूपं समाधिमनुपालयता निर्वाह्यतेनान्यथेत्येतद्दर्शयति गुरोरन्तिके अनुषितः' अव्यवस्थितः स्वच्छन्दविधायी समाधेः सदनुष्ठानरूपस्य कर्मणोयथाप्रतिज्ञातस्यवानान्तकरो भवतीत्येवं ज्ञात्वा सदा गुरुकुलवासोऽनुसर्तव्यः, तद्रहितस्य विज्ञानमुपहास्यप्रायं भवतीति, उक्तंच॥१॥ “नहि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भागं पश्यत नृत्यं मयूरस्य॥ तथाऽजां गलविलग्नवालुकां पार्णिप्रहारेण प्रगुणां दृष्ट्वाऽनुपासितगुरुरज्ञो राज्ञी संजातगलगण्डांपाणिप्रहारेण व्यापादितवान्, इत्यादयः अनुपासितगुरोर्बहवोदोषाः संसारवर्धनाद्या भवन्तीत्यवगम्यानयामर्यादया गुरोरन्तिके स्थातव्यमितिदर्शयति-'अवभासयन् उद्भासयन् सम्यगनुतिष्ठन् 'द्रव्यस्य' मुक्तिगमनयोग्यस्य सत्साधो रागद्वेषरहितस्य सर्वज्ञस्य वा वृत्तम्अनुष्ठानं तत्सदनुष्ठानतोऽवभासयेद्, धर्मकथिकः कथनतो वोद्भासयेदिति। तदेवं यतो गुरुकुलवासो बहूनां गुणानामाधारो भवत्यतो 'न निष्कसेत्' न निर्गच्छेत् गच्छादुर्वन्तिकाद्वा बहिः, स्वेच्छाचारी न भवेद्, 'आशुप्रज्ञ' इति क्षिप्रप्रज्ञः, तदन्तिके निवसन् विषयकषायाभ्यामात्मानं हियमाणंज्ञात्वा क्षिप्रमेवाचार्योपदेशात्स्वतएववा निवर्तयति' सत्समाधौ व्यवस्थापयतीति ॥ तदेवं प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासमावसन् सर्वत्र स्थानशयनासनादावुपयुक्तो भवति तदुपयुक्तस्य च गुणमुद्भावयन्नाहमू. (५८४) जे ठाणओय सयणासणे य, परक्कमे यावि सुहाहुजुत्ते। समितीसुगुत्तीसु य आयपन्ने, वियागरिते य पुढो वएज्जा ।। वृ. यो हि निर्विण्णसंसारतया प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासतः 'स्थानतश्च' स्थानमाश्रित्य तथा शयनत आसनतः, एकश्चकारः समच्चये द्वितीयोऽनुक्तसमुच्चयार्थः चकाराद्गमनमाश्रित्यागमनं च तथा तपश्चरणादौ पराक्रमतश्च, साधोः-उद्युक्तविहारिणो ये समाचारास्तैःसमायुक्तःसुसाधुयुक्तः, सुसाधुर्हि यत्रस्थानं कायोत्सर्गादिकं विधत्तेतत्र सम्यक् प्रत्युपेक्षणादिकां क्रियां करोति, कायोत्सर्गं च मेरुरिव निष्प्रकम्पः शरीरनिस्पृहो विधत्ते, तथा शयनं च कुर्वन् प्रत्युपेक्ष्य संस्तारकं तद्भुवं कायं चोदितकाले गुरुभिरनुज्ञातः स्वपेत्, तत्रापि जाग्नदिव नात्यन्तं निःसह इति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy