SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २३ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशकः - १ संयोगः, तत्राप्येतच्चिन्तनीयं-किं भूतानि प्रत्येकंचेतनावन्त्यचेतनावन्ति वा?, यदि चेतनावन्ति तदा एकेन्द्रियसिद्धि तथा (च) समुदायस्य पञ्चप्रकारचैतन्यापत्ति, अथाचेतनानि, तत्र चोक्तो दोषो, न हि यद्यत्र प्रत्येकमविद्यमानं तत्तत्समुदाये भवदुपलभ्यते, सिकतासु तैलवदित्यादिना । यदप्यत्रोक्तं-यथामद्यानेष्वविद्यमानाऽपि प्रत्येकं मदशक्ति समुदाये प्रादुर्भवतीति, तदप्ययुक्तं, यतस्तत्र किण्वादिषु या च यावतीच शक्तिरुपलभ्यते, तथाहि-किण्वे बुभुक्षापनयनसामर्थ्य भ्रमिजननसामर्थ्य च उदकस्य तृडपनयनसामर्थ्यमित्यादिनेति, भूतानां सद्भावात्, नैतदस्ति, तत्र मृतकाये वायोस्तेजसो वाऽभावान्मरणसद्भावः इत्यशिक्षितस्योल्लापः । तथाहि-मृतकायेशोफोपलब्धेर्नवायोरभावः, कोथस्य चपक्तिस्वभावस्यदर्शनानाग्नेरिति, अथ सूक्ष्मः कश्चिद्वायुविशेषोऽगिर्वा ततोऽपगत इति मतिरिति, एवं च जीव एव नामान्तरेणाभ्युपगतो भवति, यत्किञ्चिदेतत् तथा न भूतसमुदायमात्रेण चैतन्याविर्भावः, पृथिव्यादिष्वेकत्र व्यवस्थापितेष्वपि चैतन्यानुपलब्धः, अथ कायाकारपरिणतौ सत्यां तदभिव्यक्तिरिष्यते, तदपि न, यतो लेप्यमयप्रतिमायां समस्तभूतसद्भावेऽपिजडत्वमेवोपलभ्यते । तदेवमन्वयव्यतिरेकाभ्यामालोच्यमानोनायंचैतन्याख्यो गुणो भूतानां भवितुमर्हति, समुपलभ्यतेचायं शरीरेषु, तस्मात् पारिशेष्यात् जीवस्यैवायमिति स्वदर्शनपक्षपातं विहायाङ्गीक्रियतामिति । यच्चोक्तं प्राक्-'न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्ग्राहकप्रमाणाभावात्, प्रमाणं चात्र प्रत्यक्षमेवैक'मित्यादि, तत्र प्रतिविधीयते-यत्तावदुक्तं 'प्रत्यक्षमेवैकं प्रमाणं नानुमानादिकमित्येतदनुपासितगुरोर्वचः, तथाहि-अर्थाविसंवादकं प्रमाणमित्युच्यते, प्रत्यक्षस्य च प्रामाण्यमेवं व्यवस्थाप्यते-काश्चिप्रत्यक्षव्यक्तीर्धर्मित्वेनोपादाय प्रमाणयति-प्रमाणमेताः, अर्थाविसंवादकत्वाद, अनुभूतप्रत्यक्षव्यक्तिवत्, नचताभिरेवप्रत्यक्षव्यक्तिभिस्वसंविदिताभिपरं व्यवहारयितुमयमीशः, तासां स्वसंविन्निष्ठत्वात् मूकत्वाच्च प्रत्यक्षस्य, तथा नानुमानं प्रमाणमित्यनुमानेनैवानुमाननिरासं कुर्वंश्चार्वाकः कथं नोन्मत्तः स्याद् ?, एवं ह्यसौ तदप्रामाण्यं प्रतिपादयेत् यथा - नानुमानं प्रमाणं, विसंवादकत्वाद्, अनुभूतानुमानव्यक्तिवदिति, एतच्चानुमानम्, अथ परप्रसिधैतदुच्यते, तदप्ययुक्तं, यतस्तत्परप्रसिद्धमनुमानं भवतः प्रमाणमप्रमाणं वा?, प्रमाणं चेत्कथमनुमानमप्रमाणमित्युच्यते, अथाप्रमाणं कथमप्रमाणेन सता तेन परः प्रत्याय्यते?, परेण तस्य प्रामाण्येनाभ्युपगतत्वादिति चेद्, तदप्यसाम्प्रतं, यदि नाम परो मौढ्यादप्रमाणमेव प्रमाणमित्यध्यवस्यति, किं भवताऽतिनिपुणेनापि तेनैवासौ प्रतिपाद्यते?,यो ह्यज्ञोगुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुड एव दीयते ?, तदेवं प्रत्यक्षानुमानयोः प्रामाण्याप्नमाण्ये व्यवस्थापयतो भवतोऽनिच्छतोऽपि वलादायातमनुमानस्य प्रामाण्यं । तथा स्वर्गापवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमाणेन करोति?,नतावत्प्रत्यक्षेण प्रतिषेधः कर्तुंपार्यते, यतस्तत्प्रत्यक्ष प्रवर्तमानं वा तनिषेधं विदध्यान्निवर्तमानं वा?, न तावत्प्रवर्तमानं, तस्याभावविषयत्वविरोधात्, नापि निवर्तमानं, यतस्तच्च नास्तितेन च प्रतिपत्तिरित्यसंगतं, तथाहि-व्यापकविनिवृत्तौ व्याप्यस्यापि (वि)निवृत्तिरिष्यते, न चार्वाग्दर्शिप्रत्यक्षेण समस्तवस्तुव्याप्ति संभाव्यते, तत्कथं प्रत्यक्षविनिवृत्तौ पदार्थव्यावृत्तिरिति ?, तदेवं स्वर्गादेः प्रतिषेधं कुर्वाता चार्वाकणावश्यं प्रमाणान्तरमभ्युपगतं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy