SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-- १, उपोद्घात ः नमो नमो निम्मलदसणस पंचमगणपरत्री सुपास्वामिने नमः १ आचाराङ्ग सूत्रम् स टी कं प्रथमंसूत्रम् (मूलम् + श्री भद्रबाहुस्वामी कृत् नियुक्तिः एवं श्री शिलाङ्काचार्य रचित वृत्तिः युक्त) 卐प्रथमम् श्रुतस्कन्धम् ॥ (अध्ययनं-१ शस्त्रपरिज्ञा) __ ॐ नमः सर्वज्ञाय ॥ ॥१॥ जयति समस्तवस्तुपर्यायविचारापास्ततीर्थिक, विहितैकैकतीर्थनयवादसमूहवशाप्रतिष्ठितम बहुविधभङ्गिसिद्धिसद्धान्तविधूनिमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः ॥२॥ आचारशास्त्रं सुविनिश्चितंयथा, जगाद वीरो जगते हिताय यः तथैव किञ्चिद्गदतः स एवमे, पुनातु धीमान् विनयार्पिता गिरः ॥३॥ शस्त्रपरिज्ञाविवरणमतिबहुगहनंच गन्धहस्तिकृतम् तस्मात् सुखबोधार्थं गृहाम्यहमनसा सारम् इह हि रागद्वेषमोहाघभिभूतेन सर्वेणापि संसारिजन्तुना शारीरमानसानेकातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय हेयोपादेयपदार्थपरिज्ञाने यलो विधेयः, सचन विशिथविवेकमते, विशिष्टविवेकश्चनप्राप्ताशेषातिशयकलापाप्तोपदेशमन्तरेण,आप्तश्चरागद्वेषमोहादीनां दोषाणामात्यन्तिकप्रक्षयात्, सचाहतएव, अतःप्रारम्यतेऽर्हद्वचनानुयोगः, सचचतुर्धा, तद्यया - धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, गणितानुयोगः सूर्यप्रज्ञप्तयादिकः, द्रव्यनुयोगः पूर्वाणि सम्मत्यादिकश्च, चरणकरणानुयोगश्चाचारादिकः, सच प्रधानतमः,शेषाणां तदर्थत्वात्, तदुक्तम् चरणपडिवत्तिहेउं जेणियरे तिणि अनुओग"ति, तथा॥१॥ "चरणपडिवित्तिहेउं घम्मकहाकालदिक्खमादीया दविए दंसणसोही सणसद्धस्स चरणंतु" गणधरैरप्यत एव तस्यैवादौ प्रणयनमकारि, अतस्तप्रतिपादकस्याचाराङ्गस्यानुयोगः समारम्यते, सच परमपदप्राप्तिहेतुत्वात्सविघ्नः, तदुक्तम्॥9॥ "श्रेयांसि बहुविघ्नानि, भवन्तिमहतामपि अश्रेयसि प्रवृत्तानां, कापियान्ति विनायकाः" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy