SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं -१, उद्देशकः६ ७५ कायिकापर्याप्तकाः असङ्खयेयगुणाः, तथा कालतःप्रत्युत्पन्नत्रसकायिकाः सागरोपमलक्षणपृथक्त्वसमयराशिपरिमाणाजघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वपरिमाणा एवेति, तथा चागमः-“पडुप्पन्नतसकाइया केवतिकालस्स निल्लेवा सिया?, गोयमा ! जहन्नपए सागरोवमसयसहस्सपुहुत्तस्स उक्कोसपदेऽवि सागरोवमसयसहस्सपुहुत्तस्स" । उद्वर्तनोपपातौ गाथाशकलेनाभिदधाति-निष्क्रमणम्-उद्वर्त्तनं प्रवेशः- उपपातः जघन्येनैको द्वौ त्रयो वा उत्कृष्टतस्तु 'एवमेते'ति प्रतरस्यासङ्ख्येयभागप्रदेशपरिमाणा एवेत्यर्थः ।। ___ साम्प्रतमविरहितप्रवेशनिर्गमान्यां परिमाणविशेषमाह - नि. [१५९] निक्खमपवेसकालो समयाई इत्य आवलीभागो। अंतोमुहुत्तऽविरहो उदहिसहस्साहिए दोन्नि ॥ दारं ।। वृ. जघन्येन अविरहिता संतता त्रसेषु उत्पत्तिनिष्क्रमो वा जीवानामेकं समयं द्वौत्रीन् वेत्यादि, उत्कृष्टेनात्रावलिकाऽसङ्घयेयभागमात्रंकालं सततमेव निष्क्रमः प्रवेशोवा, एकजीवाङ्गीकरणेनाविरहश्चिन्त्यते गाथापश्चिमार्द्धन-अविरहःसातत्येनावस्थानम्, एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहूर्तमासित्वा पुनः पृथिव्यायेकेन्द्रियषूत्पद्यतेप्रकर्षणाधिकं सागरोपमसहप्रयं च त्रसभावेनावतिष्ठते सन्ततमिति ।। उक्तं प्रमाणद्वारं, साम्प्रतमुपभोगशश्त्रवेदनाद्वारत्रयप्रतिपा- दनायाह - नि. [१६०] मंसाईपरिभोगो सत्यं सत्याइयं अणेगविहं । सारीरमाणसा वेयणा य दुविहा बहुविहाय ।।दारं ।। वृ. मांसचर्मकेशरोमनखपिच्छदन्तस्नाय्वस्थिविषाणादिभिसजीवसम्बन्धिभिरूपभोगो भवति, शस्त्रर पुनः ‘शस्त्रादिकमिति' (शस्त्र) खङ्गतोमरक्षुरिकादि तदादिर्यस्य जलानलादेस्तच्छादिकमनेकविध-स्वकायपरकायोभयद्रव्यभावभेदभिन्नमनेकप्रकारंत्रसकायस्येति, वेदना चात्र प्रसङ्गेनोच्यते-सा च शरीरसमुत्था मनःसमुत्था च द्विधा यथासम्भवं तत्राधा शल्यशलाकादिभेदजनिता, इतरा प्रियविप्रयोगाप्रियसम्प्रयोगादिकृता, बहुविधा च ज्वरातीसारकासश्वासभगन्दरशिरोरोगशूलगुदकीलकादिसमुत्था तीब्रेति ।।पुनप्युपभोगप्रपञ्चाभिधित्सयाऽऽह - नि. [१६१] मंसस्स केइ अट्ठा केइ चम्मस्स केइ रोमाणं । पिच्छाणं पुच्छाणं दंताणऽडा वहिज्जति ॥ नि. [१६२] केई वहति अट्ठा केइ अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंघति वहंति मारंति ॥ वृ.मांसार्थं मृगशूरकादयो वध्यन्ते, चर्मार्थचित्रकादयः, रोमार्थं मूषिइकादयः, पिच्छा) मयूरगृद्धकपिञ्चुरुदुकादयः पुच्छार्थं चमर्यादयः, दन्तार्थं वारणवराहादयः वध्यन्त इति सर्वत्र सम्बध्यते इति ॥तत्र केचन पूर्वोक्तप्रयोजनमुद्दिश्यघ्नन्ति, केचित्तु, प्रयोजनमन्तरेणापि क्रीडया मान्ति, तथापरे प्रसङ्गदोषात् मृगलक्षक्षिप्तेषुलेलुकादिना तदन्तरालव्यवस्थिता अनेके कपोतकपिञ्जलशुकसारिकादयोहन्यन्ते, तथा कर्म-कृष्याद्यनेकप्रकारंतस्य प्रसङ्गः-अनुष्ठानंतत्र प्रसक्ताःसन्निष्ठाः सन्तसकायिकान्, बहून्बजन्तिरज्यादिना, जन्ति-कशलकुटादिभिःताडयन्ति, मारयन्तिप्राणैर्वियोजयन्तीति । एवं विधानादिद्वारकलापमुपवर्ण्य सकलनियुक्त्यर्थोपसंहारायाह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy