SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः १, अध्ययनं - 9, . उद्देशक: ५ नि. [१३७] एगस्स उ जंगहणं बहूणं साहारणाण ते चेव । जं बहुयाणं गहणं समासओ तंपि एगस्स ।। वृ. एको यदुच्छ्वासनिः श्वश्वासयोग्यपुद्गलोपादानं विधत्ते बहूनामपि साधारणजीवानां तदेव भवति, तथा यच्च बहवो ग्रहणमकर्षुरेकस्यापि तदेवेति । अथ ये बीजाप्ररोहन्ति वनस्पतयस्तेषां कथमाविर्भाव इत्यत आह नि. [१३८ ] जो बीए जीवो वक्त मइ सो व अन्नो वा । जोऽवि य मूले जीवो सो चिय पत्ते पढमयाए । वृ. अत्र भूतशब्दोऽवस्थावचनः, योन्यवस्थे बीजे योनिपरिणाममजहतीत्यर्थः, बीजस्य हिद्विविधावस्था-योन्यवस्था अयोन्यवस्थाच, यदा योन्यवस्थां न जहाति बीजमुज्झितं च जन्तुना तदा योनिभूतमुच्यते, योनिस्तु जन्तोरुत्पत्तिस्थानमविनष्टमिति, तस्मिन् बीजे योनिभूते जीवो 'व्युत्क्रामति' उत्पद्यते, स एव पूर्वको बीजजीवोन्यो वाऽऽ गत्य तत्रोत्पद्यते, एतदुक्तं भवति - यदा जीवेनायुषः क्षयाद्वीजपरित्यागः कृतो भवति, तस्य च यदा वीजस्य क्षित्युदकादिसंयोगस्तदा कदाचित्स एव प्राक्तनोजीवस्तत्रागत्य परिणमते कदाचिदन्य इति, यश्च मूलतया जीवः परिणमते स एव प्रथमपत्रतयाऽपीति, एकजीवकर्तृके मूलपत्रे इतियावत्, प्रथमपत्रकं च याऽसी बीजस्य समुच्छूनावस्था भूजलकालापेक्षा सैवोच्यत इति, नियमप्रदर्शनमेतत् शेषं तु किशलयादि सकलं न मूलजीवपरिणामाविर्भावितमेवेत्यवगन्तव्यमिति । यत उक्तम् - " सव्वोऽवि किसलओ खलु उग्गममाणो अनन्तओ भणिओ" इत्यादि ॥ तथाऽपरं साधारणलक्षणमभिधित्सुराह - नि. [१३९] चक्कागं भज्ञमाणस्स गंठी चुण्णघणो भवे । पुढविसरिसभेएणं अनंतजीवं वियाणेहि ॥ वृ. यस्य मूलकन्दत्वक्पत्रपुष्पफलादेर्भज्यमानस्य चक्रकं भवति, चक्राकारः समच्छेदो भङ्गो भवतीतियावत्, यस्य च ग्रन्थिः - पर्व भङ्गस्थानं वा 'चूर्णेन' रजसा 'घनो' व्याप्तो भवति, यो वा भिद्यमानो वनस्पतिः पृथिवीसदृशेन भेदेन केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते, तमनन्तकार्यं विजानीहि ।। तथा लक्षणान्तरमाह नि. [१४० ] ६५ गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जं पुणपणसंधिय अनंतजीवं वियाणाहि ।। वृ. स्पष्टार्था ।। एवं साधारणजीवान् लक्षणतः प्रतिपाद्य सम्प्रति नामग्राहमनन्तान् वनस्पतीन् दर्शयितुमाह - नि. [१४१ ] सेवालकत्थभाणियअवए पणए य किंनए य हढे । एए अनंतजीवा भणिया अन्ने अनेगविहा || 15 Jain Education International वृ. सेवालकत्थभाणिकाऽवकपनककिण्वहठादयोऽनन्तजीवा गदिता अनेकप्रकाराश्चान्येऽपीत्यमवगन्तव्या इति ॥ सम्प्रति प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीर६श्यत्वं प्रतिपिपादयिषयाह नि. [ १४२ ] एगस्स दुण्ह तिण्ह व संखिज्जाण व तहा असंखाणं । पत्तेयसरीराणं दीसंति सरीरसंघाया ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy