SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:२ ४५ कर्णनासिकाक्षिमूललाटशिरःप्रभृतिष्ववयवेषु भिद्यमानेषु छिद्यमानेषु वा ।वेदनोत्पत्तिलक्ष्यते, एवमेषामुत्कटमोहाज्ञानभाजांस्त्यानाधुदयादव्यक्तचेतनानामव्यक्तैववेदना भवतीति ग्राह्यम् अत्रैव दृष्टान्तान्तरं दर्शयितुमाह - 'अप्पेगे संपमारए अप्पेगे उद्दवए यथा नाम कश्चित् 'सम्' एकीभावेन प्रकर्षेण प्राणानां मारणम्-अव्यक्त्वापादनं कस्यचित्त कुर्यात् मूर्छामापादयेदित्यर्थः, तथाऽवस्थं च यथा नाम कश्चिदपद्रापयेत् प्राणेभ्यो व्यपरोपयेत् न चासौ तां वेदनां स्फुटमनुभवति, अस्तिचाव्यक्ता तस्यासौ वेदनेति, एवं पृथिवीजीवानामपिद्रष्टव्यमिति।पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसंपाते वेदनां चाविर्भाव्य अधुना तद्वधे बन्धं दर्शयितुमाह... मू (१८) एत्थ सत्थं असमारभमाणस इच्छेते आरंभा परिण्णाता भवंति, तं परिण्णाय मेहावी नेव सयं पुढविसत्यं समारंभेजा नेवन्नेहिं पुढविसत्थं समारंभावेजा नेवण्णे पुढविसत्थं समारंभंते समणुजाणेज्जा, जस्सेतेपुढविकम्मसमारंभा परिण्णाता भवंति सेहु मुणी परिण्णातकम्मेति बेबि। वृ. 'अत्र' पृथिवीकाये 'शस्त्रं' द्रव्यभावभिन्नं, तत्र द्रव्यशस्त्रं स्वकायपरकायोभयरूपं, भावशस्त्रं त्वसंयमो दुष्प्रणिहितमनोवाकायलक्षणः, एतद्विविधमपि शस्त्रं समारममाणेस्येति एते खननकृष्याद्यात्मकाः समारम्भाःबन्धहेतुत्वेन अपरिज्ञाता' अविदिताभवन्ति, एतद्विपरीतस्य परिज्ञाता भवन्तीति दर्शयितुमाह- 'एत्ये त्यादि अत्र'पृथिवीकाये द्विविधमपिशस्त्रम् असमारभमाणस्य' अव्यापारयत इति, एते' प्रागुक्ताः कर्मसमारम्भाः परिज्ञाता' विदिताभवन्ति, अनेन च चिरत्यधिइकारः प्रतिपादितो भवतीति, तामेव विरतिं स्वनामग्राहमाह - "त'मित्यादि, तं पृथिवीकायसमारम्भे बन्धं परिज्ञाय असमारम्भेवाऽबन्धमिति 'मेघावी' कुशलः एततकर्यादिति दर्शयति-नैवपृथिवीशस्त्रं द्रव्यमावभिन्न समारभेत, नापितद्विषयोऽन्यैः समारम्भः कारयितव्यः नचान्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयात् इति, एवं मनोवाक्कायकर्मभिरतीतानागतकालयोरप्यायोजनीयमिति, ततश्चैवं कृतनिवृत्तिरसौ मुनिरिति व्यपदिश्यते, न शेष इति दर्शयन्नुपसजिहीर्षुराह-'यस्य विदितपृथिवीजीववेदनास्वरूपस्य, एते पृथिवीविषयाः कर्मसमारम्भाः खननकृष्याद्यात्मकाः कर्मबन्धहेतुत्वेनपरिज्ञाता भवन्तिज्ञपरिज्ञया तथा प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, हुरवधारणे, स एव मुनिद्धिविधयाऽपि परिज्ञया परिज्ञातं कर्मसावद्यानुष्ठानमटप्रकारं वा कर्म येन स परिज्ञातकर्मा, नापरःशाक्यादिः, ब्रवीमि पूर्ववदिति ॥ अध्ययनं-१, उद्देशकः-२ समाप्त : -:अध्ययन-१-उद्देशकः-३:वृ. गतः पृथिव्युद्देशकः, साम्प्रतप्कायोद्देशकः समारभ्यते, अस्येचायमभिसम्बन्धः-इहानन्तरोद्देशके प्रथिवीकायजीवाः प्रतिपादितास्तद्वधे बन्धो विरतिश्च, साम्प्रतं क्रमायातस्याप्कायस्य जीवत्वं तद्वधे बन्धो विरतिश्च प्रतिपाद्यते इति, अनेन सम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणिवाच्यानि, तत्रनामनिष्पन्नेनिक्षेपेअप्कायोद्देशकः, तत्रपृथिवीकायजीवस्वरूप समधिगतयेयानिनव निक्षेपादीनि द्वाराण्युक्तानि, अकायेऽपितान्येवसमानतयाऽतिदेष्टुकामःकानिचिद्विशेषाभिधित्सयोद्धर्तुकागश्च नियुक्तिकारो गाथापाह-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy