SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, चूडा-२, सप्तककः१ ४१९ अहावरा दुधा पडिमा-अचित्तं खलु उवसज्जेजा अवलंबिजा कारण विप्परिकम्माइ नो सवियारं ठाणंठाइस्सामि दुचा पडिमा। अहावरातचापडिमा-अचित्तंखलु उवसज्जेज्जा अवलंबिञ्जा नोकाएण विपरिकम्माईनो सवियारं ठाणं ठाइस्सामित्ति तच्चा पडिमा। अहावरा चउत्था पडिमा-अचित्तं खलु उवसजेजा नो अवलंबिज्जा कारण नो परकम्माई नो सवियारंठाणं ठाइस्सामित्ति वोसट्टकाए वोसट्टकेसमंसुलोमनहे संनिरुद्धं वा ठाणंठाइस्सामित्ति चउत्था पडिमा। इच्चेयासिंचउण्डं पडिमाणंजाव पग्गहियतरायं विहरिजा, नो किंचिवि वइज्जा, एयंखलु तस्स जाव जइजासि तिबेमि।। कृ. 'स' पूर्वोक्तो भिक्षुर्यदा स्थानमभिकाङ्केत् स्थातुं तदा सोऽनुप्रविशेद्ग्रामादिकम्, अनुप्रविश्यच स्थानमूध्वस्थानाद्यर्थमन्वेषयेत्, तच्चसाण्डंयावत्ससन्तानकमप्रासुकमितिलाभे सतिनप्रतिगृह्णीयादिति, इत्येवमन्यान्यपिसूत्राणिशय्यावद्रष्टव्यानियावदुदकप्रसृतानिकन्दादीनि यदि भवेयुस्तत्तथाभूतंस्थानं न गृह्णीयादति। साम्प्रतं प्रतिमोद्देशेनाह 'इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वा 'आयतनानि' कर्मोपादानानि उपातिक्रम्य २' अतिलध्याथ भिक्षुः स्थानस्थातुमिच्छेत् 'चतसृभिप्रतिमाभि' अभिग्रहविशेषैःकरणभूतैः, तांश्चयथाक्रममाह, तत्रेयंप्रथमाप्रतिमा-कस्यचिद्भिक्षोः भूतोऽभिग्रहो भवति, यथाऽहमचित्तंस्थानमुपाश्रयिष्यामि,तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्येकायेन, तथा “विपरिक्रमिष्यामि परिस्पन्दं करिष्यामि, हस्तपा- दाद्याकुञ्चनादि करिष्यामीत्यर्थ, तथा तत्रैव सविचारं स्तोकपादादिविहरणरूपं स्थानं स्थास्यामि' समाश्रयिष्यामि, प्रथमा प्रतिमा। द्वितीयायां त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति । तृतीयायांत्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति। चतुर्या पुनस्त्रयमपिन विधत्ते, सचैवंभूतो भवति-व्युत्सृष्टः-त्यक्तः परिमितं कालं कायो येनसतथा, तथा व्युत्सृष्टं केशश्मश्रुलोमनखं येन सतथा, एवंभूतश्चसम्यग्निरुद्धंस्थानं स्थास्यामीत्येवंप्रतिज्ञायकायोत्सर्गव्यवस्थितो मेरुवन्निष्पकम्पस्तिछेत, यद्यपिकश्चित्केशाधुत्पाटयेतथाऽपि स्थानान स्थास्यामीत्येवं प्रतिज्ञाय कायोत्सर्गव्यवस्थितो मेरुवनिष्प्रकम्पस्तिछेत्, यद्यपि कश्चित्केशाधुत्पाटयेत्तथाऽपि स्थानान्न चलेदिति, आसां चान्यतमा प्रतिमा प्रतिपद्य नापरमप्रतिपन्नप्रतिमं साधुमपवदेन्नात्मोत्कर्ष कुर्यात्र किञ्चिदेवंजातीयं वदेदिति॥ चूडा-२ सप्तककः-१ समाप्तः -चूडा-२ सप्लैकक-२"निषीधिका":दृ. प्रथमानन्तरं द्वितीयः सप्तैककः, सम्बन्धश्चास्य-इहानन्तराध्ययने स्थानं प्रतिपादितं, तच्च किंभूतं स्वाध्याययोग्यं?, तस्यांचस्वाध्यायभूमौयद्विधेयं यञ्चन विधेयमित्यनेनसम्बन्धेन निषीधिकाऽध्ययनमायातम्, अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र नामनिष्पने निक्षेपे निषीथिकेति नाम, अस्य च नामस्थापनाद्रव्यक्षेत्रकालभावैः षड्विधो निक्षेपः, नामस्थापने पूर्ववत्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy