SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ४१४ आचाराङ्ग सूत्रम् २/१/७/9/४९० यथा सर्व भदन्त ! अदत्तादानं प्रत्याख्यामि, दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णामीत्यर्थ, तदनेन विशेषणकदम्बकेनापरेषांशाक्यसरजस्कादीनां सम्यक्श्रमणत्वं निराकृतं भवति, स चैवंभूतोऽकिञ्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानी वा नैव स्वयमदत्तं गृह्णीयात् नैवापरेण ग्राहयेत् नाप्यपरं गृहन्तं समनुजानीयात्, यैर्वा साधुभि सह सम्यक् प्रद्रजितस्तिष्ठति वा तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य गृह्णीयादिति दर्शयति । तद्यथा-छत्रकमिति छद अपवारणे' छादयतीति छत्रं वर्षाकल्पादि, यदिवा कारणिकः क्वचित्कुङ्कणदेशादावतिवृष्टिसम्भवाच्छनकमपिगृह्णीयायावच्चर्मच्छेदनकमप्यनुज्ञाप्याप्रत्युपेक्ष्य चनावगृह्णीयात् सकृत् प्रगृह्णीयादनेकशः । तेषां च सम्बन्धियथा गृहीयात्तथा दर्शयति-पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयादिति।किञ्च मू. (४९०) से भि० आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा, जे तत्थ ईसरे जे तत्य महिट्ठएते उग्गहं अणुनविजा-कामं खलु आउसो०! अहालंदं अहापरिन्नायंवसामोजाव आउसो जाव आउसंतस्स उग्गहे जावसाहम्मिया एइतावं उग्गहं उग्गिहिस्सामो, तेण परं विहरिस्सामो सेकिंपुणतत्योग्गहंसिएवोग्गहियंसिजेतस्थसाहम्मिया संभोइयासमणुन्ना उवागच्छिज्जा जे तेण सयमेसित्तए असणे वा ४ तेण ते साहम्मिया ३ उवनिमंतिजा, नो चेवणं परवडियाए ओगिज्झय २ उवनि०॥ वृ.सभिक्षुरागन्तागारादौप्रविश्यानुविचिन्त्यच-पालोच्य यतिविहारयोग्यक्षेत्रंततोऽवग्रहं वसत्यादिकंयाचेत, यश्च याच्यस्तंदर्शयति-यस्तत्र 'ईश्वरः' गृहस्वामी तथा यस्तत्र ‘समधिष्ठाता' गृहपतिना निक्षिप्तभरः कृतस्तानवग्रहं-क्षेत्रावग्रहम् अनुज्ञापयेत् “याचेत, कथमिति दर्शयति'काम'मितितवेच्छया 'खलु' इति वाक्यालङ्कारे आयुष्मन् ! गृहपते! अहालंद मिति यावन्मात्रं कालं भवाननुजानीते अहापरिनाय'ति यावन्मानं क्षेत्रमनुजानीषे तावन्मात्रं कालं तावन्मानंच क्षेत्रमाश्रित्य वयं वसामइति यावत, ___ इहायुष्मन् ! यावन्मानं कालमिहायुष्मतोऽवग्रहो यावन्तश्च साधर्मिकाः-साधवःसमागमिष्यन्ति एतावन्मात्रमवग्रहिष्यामस्तत ऊर्ध्वं विहरिष्याम इति ।। अवगृहीते चावग्रहे सत्युत्तरकालविधिमाह-तदेवमवगृहीतेऽवग्रहेससाधुः किंपुनः कुर्यादिति दर्शयति-येतत्रकेचन प्राघूर्णकाः 'साधर्मिकाः' साधवः ‘साम्भोगिकाः' एकसामाचारीप्रविष्टाः “समनोज्ञाः' उद्युक्तविहारिणः ‘उपागच्छेयुः' अतिथयो भवेयुः, ते चैवंभूता ये तेनैव साधुना परलोकार्थिना स्वयमेषितव्याः, तेच स्वयमेवागता भवेयुः, तांश्चाशनादिना स्वयमाहृतेन स साधुरुपनिमन्त्रयेद्, यथा-गृहीत यूयमेतनायाऽऽनीतमशनादिकं क्रियतां मामानुग्रहमित्येवमुपनिमन्त्रयेत्, न चैव 'परवडियाए'त्ति परानीतं यदशनादि तभृशम् 'अवगृह्य' आश्रित्य नोपनिमन्त्रयेत्, किं तर्हि ?, स्वयमेवानीतेन निमन्त्रयेदिति ॥ तथा __ मू. (४९१) से आगंतारेसु वा ४ जाव से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्य साहम्मिआअन्नसंभोइआ समणुना उवागच्छिन्ना जे तेण सयमेसित्तए पीढे वा फलए वा सिज्जा वा संथारए वा तेण ते साहम्मिए अन्नसंभोइए समणुन्ने उवनिमंतिजा नो वेवणं परवडियाए ओगिन्झिय उवनिमंतिज्जा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy