SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं-२, उद्देशक:३ ३७९ 'नीचाः' उच्चेस्त्वरहिताः 'संनिरूद्धाः' गृहस्थाकुला वसतयो भवन्ति, ताश्चैवं भवन्ति-तस्यां साधुवसतौ शय्यातरेणान्येषामपि कतिपयदिवसस्थायिनां चरकादीनामवकाशो दत्तो भवेत् । तेषां वा पूर्वस्थितानां पश्चात्साधूनामुपाश्रयो दत्तो भवेत्, तत्र कार्यवशाद्वसता रात्र्यादौ निर्गच्छता प्रविशता वा यथा चरकाधुपकरणोपघातो न भवति तदवयवोपघातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रिययायतितव्यं, शेषं कण्ठयं, नवरं 'चिलिमिली' यमनिका 'चर्मकोशः' पाणित्रं खल्लकादि ।। इदानीं वसतियाचनाविधिमधिकृत्याह मू. (४२३) से आगंतारेसु वा अणुवीय उवस्सयंजाइजा, जेतत्थईसरेजेतस्थ समहिट्ठाए ते अवस्सयं अनुनविजा-कामं खलु आउसो ! अहालंदं अहापरिनायं वसिस्सामो जाव आउसंतो! जावआउसंतस्स उवस्सएजाव साहम्मियाइंततो उवस्सयंगिहिस्सामोतेणपरं विहरिस्सामो वृ. स भिक्षुरागन्तागारादीनि गृहाणि पूर्वोक्तानि तेषुप्रविश्यानुविचिन्त्य च-किंभूतोऽयं प्रतिश्रयः? कश्चात्रेश्वरः? इत्येवं पर्यालोच्य च प्रतिश्रयं याचेत, यस्तत्र ईश्वरः' गृहस्वामीयो वा तत्र 'समधिष्ठाता' प्रभुनियुक्तस्तानुपाश्रयमनुज्ञापयेत्, तद्यथा-'काम' तवेच्छया आयुष्मन् त्वया यथापरिज्ञातं प्रतिश्रयं कालतो भूभागतश्च तथैवाधिवत्स्यामः, एवमुक्तः स कदाचिद् गृहस्थ एवं ब्रूयाद्-यथा कियत्कालं भवतामत्रावस्थानमिति?, एवं गृहस्थेन पृष्टः साधुः-वसति प्रत्युपेक्षक एतद् ब्रूयाद्-यथा । ___ कारणमन्तरेण ऋतुद्धे मासमेकं वर्षासुचतुरोमासानवस्थानमिति, एवमुक्तः कदाचित्परो ब्रूयात्-नैतावन्तं कालं ममात्रावस्थानं वसतिर्या, तत्र साधुस्तथाभूतकारणसद्भावे एवं ब्रूयाद्यावत्कालमिहायुष्मन्त आसते यावद्वा भवत उपाश्रयस्तावत्कालमेवोपाश्रयं गृहीष्यामः, ततः परेण विहरिष्याम इत्युत्तरेण सम्बन्धः, साधुप्रमाणप्रश्ने चोत्तरं दद्याद् यथा समुद्रसंस्थानीयाः सूरयो, नास्ति परिमाणं, यतस्तत्र कार्यार्थिनः केचनागच्छन्तिअपरेकृतकार्या गच्छन्त्यतो यावन्तः साधर्मिकाः समागमिष्यन्ति तावतामयमाश्रयः, साधुपरिमाणं नकथनीयमितिभावार्थः।। किञ्च मू. (४२४) से भिक्खू वा० जस्सुवस्सए संवसिजा तस्स पुवामेव नामगुत्तं जाणिज्जा, तओ पच्छा तस्स गिहे निमंतेमाणस्स वा अनिमंतेमाणस्स वा असणं वा ४ अफासुयं जाव नो पडिगाहेजा।। वृ. सुगम, नवरंसाधूनांसामाचार्येषा, यदुत शय्यातरस्य नामगोत्रादिज्ञातव्यं, तत्परिज्ञानाञ्च सुखेनैव प्राघूर्णिकादयो भिक्षामटन्तः शय्यातरगृहप्रवेशं परिहरिष्यन्तीति ।। किञ्च मू. (४२५) से भिक्खू वा० से जं० ससागारियं सागणियं सउदयं नो पन्नस्स निक्खमणपवेसाए जावऽनुचिंताए तहप्पगारे उवस्सए नो ठा०॥ वृ. स भिक्षुर्यं पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-ससागारिकं साग्निकं सोदकं, तत्र स्वाध्यायादिकृते स्थानादि न विधेयमिति ॥ तथा मू. (४२६) से भिक्खू वा० से जं० गाहावइकुलस्स मज्झमज्झेणं गंतुंपंथए पडिबद्धं वा नो पन्नस्स जाव चिंताए तह उ० नो ठा० ॥ वृ. यस्योपाश्रयस्य गृहस्थगृहमध्येन पन्थास्तत्र बह्नपायसम्भवात्तत्र न स्थातव्यमिति ॥ तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy