SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३५२ आचाराङ्ग सूत्रम् २/१/१/७/३७१ वृ.सभिक्षुर्भिक्षार्थप्रविष्टः सन्यदिपुनरेवंचतुर्विधमप्याहारंजानीयात्, तद्यथा- 'स्कन्धे' अर्द्धप्राकारे 'स्तम्भेवा' शैलदारुमयादी, तथा मञ्चकेवामालेवाप्रासादेवाहर्म्यतले वा अन्यतरस्मिन् वातथाप्रकारेऽन्तरिक्षजातेस आहारः 'उपनिक्षिप्तः' व्यवस्थापितो भवेत्,तंच तथाप्रकारमाहारं मालाहृतमिति मत्वा लाभे सति न प्रतिगह्णीयात्, केवली ब्रूयाद्यत आदानमेतदिति, तथाहिअसंयतो भिक्षुप्रतिज्ञया साधुदानार्थं पीठकं वा फलकं वा निश्रेणिवा उदूखलं वाऽऽहत्य-ऊर्ध्वं व्यवस्थाप्यारोहेत्, सतत्रारोहन्प्रचलेद्वा प्रपतेद्वा, सतत्र प्रचलन् प्रपतन् वा हस्तादिकमन्यतरद्वा कायेइन्द्रियजातं 'लूसेज्जत्तिविराधयेत्, तथाप्राणिनोभूतानिजीवान्सत्त्वानभिहन्याद्वित्रासयेद्वा लेषयेद्वा-संश्लेषंवा कुर्यात्तथा संघर्षवाकुर्यात्तथा सट्टचाकुर्यात्, एतच्चकुर्वस्तान्परितापयेद्वा क्लामयेद्वास्थानास्थानं सङ्कामयेदवा, तदेतज्ञात्वा यदाहारजातंतथाप्रकारंमालाहृतं तल्लाभे सति नो प्रतिगृह्णीयादिति ॥ सभिक्षुर्यदि पुनरेवंभूतमाहारंजानीयात्, तद्यथा-'कोष्ठिकातः' मृन्मयकुशूलसंस्थानायाः ता कोलेजाओ'त्ति अधोवृत्तखाताकाराद् असंयतः "भिक्षुप्रतिज्ञया' साधुमुद्दिश्य कोष्ठिकातः 'उक्कुजिय'त्तिऊध्र्वकायमुन्नम्यततः कुब्जीभूय, तथाकोलेजाओ अवउजिअ तिअधोऽवनम्य, तथा 'ओहरिय'त्ति तिरश्चीनो भूत्वाऽऽहारमाहृत्य दद्यात्, तर भिक्षुस्तथाप्रकारमधोमालाहृतमितिकृत्वा लाभे सतिन प्रतिगृह्णीयादिति ।। अधुना पृथिवीकायमधिकृत्याह मू.(३७२) से भिक्खूवा (२) से ज० असणं वा ४ मट्टियाउलितंतहप्पगारं असणं वा४ लाभेसं०, केवली० अस्संजए भि० मट्टिओलितं असणं वगउअिंदमाणं पुढविकायंसमारंभिज्जा तह तेउवाउवणस्सइतसकायंसमारंभिज्जा, पुनरविउल्लिपंमाणे पच्छाकम्मंकरिज्जा, अह भिक्खूणं पुब्धो जंतहप्पगारं मट्टिओलित्तं असणं वा लाभे०/ से भिक्खू० से जं० असणं वा ४ पुढविकायपइडियं तहप्पगारं असणं वा असासुयं से भिक्खूज० असणं वा ४ आउकायपइडियं चेव, एवं अगनिकायपइडियं लाभे केवली, अस्संज० भि० अगणिं उस्सक्किय निस्सक्किय ओहरिय आहड्डु दलइजा अह भिक्खूणं० जाव नो पडि०॥ दृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात्, तद्यथा-पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं तथाप्रकार मित्यवलिप्तं केनचित्परिज्ञानपश्चात्कर्मभयाञ्चतुर्विधमप्याहारं लाभे सतिन प्रतिगृह्णीयात्, किमिति?, यतः केवली ब्रूयात्कर्मादानमेतदिति, तदेव दर्शयति'असंयतः'गृहस्थो भिक्षुप्रतिज्ञया मृत्तिकोपलिप्तमशनादिकम्-अशनादिभाजनं तच्चोद्भिनन्दन पृथिवीकार्य समारभेत, स एव केवल्याह, तथा तेजोवायुवनस्पतित्रसकायं समारभेत, दत्ते सत्युत्तरकालंपुनरपिशेषरक्षार्थतद्भाजनमवलिम्पन्पश्चात्कर्मकुर्यात्, अथ भिक्षूणांपूर्वोपदिष्टा एषाप्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारंमृत्तिकोपलिप्तमशनादिजातं लाभे सति नोप्रतिगृह्णीयादिति। सभिक्षुर्गृहपतिकुलं प्रविष्टः सन्यदि पुनरेवंभूतमशनादिजानीयात्, तद्यथा-'सचित्तपृथिवीकायप्रतिष्ठितं पृथ्वीकायोपरिव्यवस्थितमाहारं विज्ञाय पृथिवीकायसङ्घटनादिभयाल्लाभे सत्यप्रासुकमनेषणीयं च ज्ञात्वा न प्रतिगृह्णीयादिति ॥ एवमकायप्रतिष्ठितमग्निकायप्रतिष्ठितं लाभे सति न प्रतिगृह्णीयाद्, यतः केवली ब्रूयादादानमेतदिति । तदेव दर्शयति-असंयतो भिक्षुप्रतिज्ञया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy