SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -२, चूडा-१, अध्ययनं-१, उद्देशक:५ ३४५ त्वरितमुपसंक्रमामि, एवं च कुर्वन् भिक्षुर्मातृस्थानं संस्पृशेदित्यतो नैवं कुर्यादिति ।। साम्प्रतं भिक्षाटनविधिप्रदर्शनार्थमाह मू. (३६०) से भिक्खू वा (२) जावसमाणे अंतरासेवप्पाणिवा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि अग्गलपासगाणि वा सति परक्कमे संजयामेव परिक्कमिजा, नो उजुयंगच्छिज्जा, केवली बूया आयाणमेयं, से तत्थ परक्कममाणे पयलिज्ज वा पक्खलेज वा पवडिज्ज वा, से तत्थ पयलमाणे वा पक्खलेजमाणे वा पवडमाणे वा, तत्थ से काए उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएए वा उवलित्ते सिया, तहप्पगारं कायं नोअनंतरहियाए पुढवीए नोससिणिद्धाए पुढवीएतोससरक्खाए पुढवीए नो चित्तमंताए सिलाए नो चित्तमंताए लेलूए कोलावासंसि वा दारुए जीवपइट्ठिए सअंडे सपाणे जाव ससंताणए नो आमज्जिज्ज वा पमज्जिज्ज वा संलिहिज्ज वा निलिहिज्ज वा उव्वलेज वा उब्वट्टिज वा आयाविज वा पयाविज वा, से पुवामेव अप्पससरक्खं तणं वा पत्तं वा कटुं वा सक्करंवा जाइजा, जाइत्ता सेतमायायएगंतमचक्कमिजार अहे झामथंडिलंसिवाजाव अनयरंसि वा तहप्पगारंसि पडिलेहिय पडिलेहिय पमज्जिय तओ संजयामेव आमजिज्ज वा जाव पयाविज वा।। वृ.स भिक्षुर्भिक्षार्थ गृहपतिकुलं-पाटकं रथ्यां ग्रामादिकं वा प्रविष्टः सन् मार्ग प्रत्युपेक्षेत, तत्र यदि 'अन्तरा' अन्तराले ‘से तस्य भिक्षोर्गच्छत एतानि स्यु, तद्यथा- 'वप्राः' समुन्नता वाऽर्गलपाशकावा-यत्रार्गलाऽग्राणिनिक्षिपन्ते, एतानि चान्तरालेज्ञात्वाप्रक्रम्यतेऽनेनेति प्रक्रमोमार्गस्तस्मिन्नयस्मिन् सति संयत एव तेने 'पराक्रमेत' गच्छेत्, नैवर्जुना गच्छेत्, किमिति ?, यतः 'केवली' सर्वज्ञो ब्रूयाद् ‘आदानं' कर्मादानमेतत्, संयमात्मविराधनातः, तामेव दर्शयति । 'स' भिक्षु 'तत्र' तस्मिन् वप्रादियुक्ते मार्गे 'पराक्रममाणः' गच्छन् विषमत्वान्मार्गस्य कदाचित् 'प्रचलेत् कम्पेत् प्रस्खलेद्वा तथा प्रपतेद्वा, सतत्रप्रस्खलन्प्रपतन्वाषण्णांकायानामन्यतमं विराधयेत्, तथा तत्र 'से' तस्य काय उच्चारेण वा प्रवणेन वा श्लेष्मणा वा सिवानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उपलिप्तः स्यादित्यत एवंभूतेन पथा न गन्तव्यम्, अथ मार्गान्तराभावात्तेनैव गतः प्रस्खलितः सन् कर्दमाधुपलिप्तकायो नैवं कुर्यादिति दर्शयति-स यतिस्तथाप्रकारम्-अशुचिकर्दमाधुपलिप्तंकायमनन्तर्हितया-अव्यवहितया पृथिव्या तथा 'सस्निग्धया' आर्द्रया एवं सरजस्कया वा, तथा 'चित्तवत्या' सचित्तया शिलया, चित्तवता 'लेलुना' पृथिवीशकलेन वा, एवं कोलाधुणास्तदावासभूते दारुणिजीवप्रतिष्ठिते साण्डे सप्राणिनि यावत्ससन्तानके ____'नो' नैव सकृदामृज्यानापिपुनः पुनः प्रमृज्यात्, करदमादिशोधयेदित्यर्थ, तथा तत्रस्थ एव 'न संलिहेजा न संलिखेत, नोद्वर्तनादिनोद्वलेत्, नापितदेवेषच्छुष्कमुद्वर्तयेत्, नापि तत्रस्थ एवसकृदातापयेत्, पुनः पुनर्वाप्रतापयेत्, यत्कुर्यात्तदाह-सभिक्षु पूर्वमेव तदनन्तरमेवाल्परजस्कं तृणादि याचेत, तेन चैकान्तस्थण्डिले स्थितः सन् गात्रं 'प्रमृज्यात्' शोधयेत्, शेषं सुगममिति ॥ किञ्च For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy