SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३३८ आचाराङ्गसूत्रम् २/१/१/२/३४७ -: चूडा-१, अध्ययन-१, उद्देशक-३:वृ. उक्तो द्वितीयः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्ध-इहानन्तरोद्देशके दोषसंभवात्सडिगमनं निषिद्धं, प्रकारान्तरेणापि तद्गतानेव दोषानाह मू. (३४८) से एगइओ अन्नयरं संखडिं आसित्ता पिबित्ता छड्डिन वा वमिञ वा भुत्ते वा से नो सम्मं परिणमिज्जा अन्नयरे वा से दुक्खे रोगायंके समुप्पजिजा केवली बूया आयाणमेयं ।। वृ.स भिक्षु एकदा कदाचिद् एकचरो वा अन्यतरां' काञ्चित्पुरःसङ्घडिं पश्चात्सङ्घडिं वा 'सङ्घडि'मिति सङ्घडिमत्कम् ‘आस्वाध' भुक्त्वा तथापीत्वा शिखरिणीदुग्धादि, तञ्चातिलोलुपतया रसगुद्धयाऽऽहारितं सत् 'छड्डेज वा' छर्दि विदध्यात्, कदाचिञ्चापरिणतं सद्विशूचिकां कुर्यात्, अन्यतरोवारोगः-कुष्ठादिकः आतङ्कस्त्वाशुजीवितापहारी शलादिकःसमत्पद्येत. केवली-सर्वज्ञो बूयात्, यथा 'एतत् सङ्घडीभक्तम् ‘आदानं' कर्मोपादानं वर्तत इति । यथैतदादानं भवति तथा दर्शयति। मू. (३४९) इह खलु भिक्खूगाहावईहि वा गाहावईणीहिं वा परिवायएहिंवा परिवाईयाहिं वा एमजं सद्धिं सुंड पाउं जो वइमिस्सं हुरत्था वा उवस्सयं पडिलेहेमाणो नो लभिजा तमेव उवस्सयं संमिस्सीभावभावजिजा, अन्नमणे वा से मत्ते विपरियासियभूए इस्थिविग्गहे वा किलबे वा तं भिक्खु उवसंकमित्तु बूया। आउसंतो समणा! अहे आरामंसि वा अहे उवस्सयंसि वा राओ वा वियाले वा गामधम्मनियंतियं कट्टरहस्सियं मेहुणधम्मपरियारणाए आउट्टामो, तं चेवेगईओ सातिजिजा. अकरणिज्जं चेयं संखाए एएआयाणा (आयतणाणि) संति संविजमाणा पञ्चवाया भवंति, तम्हा से संजए नियंठेतहप्पगारंपुरेसंखडिंवा पच्छासंखडिं वासंखडिं संखडिपडियाए नोअभिसंधारिजा गमणाए॥ वृ.'इहे' ति सङ्खडिस्थानऽस्मिन् वा भवेऽमी अपायाः आमुष्मिकास्तुदुर्गतिगमनादयः, खलुशब्दोवाक्यालङ्कारे, भिक्षणशीलोभिक्षुगृहपतिभिस्तद्भार्याभिर्वापरिव्राजकैः परिव्राजिकाभिर्वा सार्द्धमेकद्यम-एक-वाक्यतया संप्रधार्य 'सोंड' ति सीधुमन्यद्वा प्रसन्नादिकं पातुं पीत्वा ततः 'हुरवत्था वा बहिर्वा निर्गत्योपाश्रयं याचेत, यदा च प्रत्युपेक्षमाणो विवक्षितमुपाश्रयं न लभेत ततस्तमेवोपाश्रयं यत्रासौ सङ्घडिस्तत्रान्यत्र वा गृहस्थपरिव्राजिकादिभिर्मिश्रीभावमापद्येत, तत्र घासावन्यमना मत्तो गृहस्थादिको विपर्यासीभूतआत्मानं नस्मरति, स वा भिक्षुरात्मानं नस्मरेत्, अस्मरणाञ्चैवं चिन्तयेद्-यथाऽहं गृहस्थ एव, यदिवा-स्त्रीविग्रहे शरीरे 'विपर्यासीभूतः' अध्युपपन्नः ‘क्लीबेवा' नपुंसकेवा, साचस्त्री नपुंसको वा,तंभिक्षुम् उपसङक्रम्य' आसन्नीभूय ब्रूयात, तद्यथा-आयुष्मन ! श्रमण! त्वया सहकान्तमहं प्रार्थयामि, तद्यथा-आरामे वोपाश्रये वा कालतश्च रात्री वा विकाले वा, तं भिडुं ग्रामधर्म-विषयोपभोगगतैव्यापरिनियन्त्रितं कृत्वा, तद्यथा-मम त्वया विप्रियं न विधेयं, प्रत्यहमहमनुसर्पणीयेति, एवमादिभिर्नियम्य ग्रामासन्ने वा कुत्रचिद्रहसि मिथुनं-दाम्पत्यं तत्र भवं मैथुनम्-अब्रह्मेति तस्य धर्मा-तद्गता व्यापारास्तेषा परियारणा-आसेवना तया आउट्टामो'त्ति प्रवद्महे, इदमुक्तं भवति। _ साधुमुद्दिश्य रहसिमैथुनप्रार्थनां काचित्कुर्यात्, तांचैकः कश्चिदेकाकी वा 'आयतनानि' कर्मपादानकारणानि सन्ति' भवन्ति संचीयमानानि प्रतिक्षणमुपचीयमानानि, इदमुक्तं भवति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy