SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २९० आचाराङ्ग सूत्रम् 9/-10/६/२३२ शरण्यो द्वितीयोऽस्तीत्येवं संदधानो यद्यद्रोगादिकमुपतापकारणमापद्यते तत्तदपरशरणनिरपेक्षो मयैवैतत्कृतं मयैव सोढव्यमित्येतदध्यवसायी सम्यगधिसहते। कुत एतदधिसहत इत्यत आहलावियमित्यादि,चतुर्थोद्देशकवदतार्थं, यावत् सम्मत्तमेवसमभिजाणियात्ति॥इह द्वितीयोद्देशके उद्गमोत्पादनैषणा प्रतिपादिता, तद्यथा-'आउफसंतो समणा!' अहं खलु तव अट्ठाए असणं वा ४ वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाई भूयाई जीवाई सत्ताई समारंभ समुद्दिस्सं कीयं पामिच्चं अच्छेअं अणिसिटुआहहुंचेएमि इत्यादिना ग्रन्थेनेति, तथाऽनन्तरोद्देशके ग्रहणैषणा प्रतिपादिता, "सियायसे एवं वयंतस्सविपरोअभिहडं असणं वा ४ आहङदलएज्जा" इत्यादिना ग्रन्थेना ततो नासैषणाऽवशिष्यते, अतस्तत्प्रतिपादनायाह-- मू. (२३३) से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा आसाएमाणे, दाहिणाओ वामं हणुयं नो संचारिज्जा आसाएमाणे, से अणासायमाणे लापवियं आगममाणे तवे से अभिसमन्त्रागए भवइ, जमेयं भगवया पवेइयं तमेवं अभिसमिम्रा सबओ सम्मत्तमेव समभिजाणिया। वृ. 'स' पूर्वव्यावर्णितो 'भिक्षुः साधुः साध्वीवाअशनादिकमाहारमुद्गमोत्पादनैषणाशुद्धं प्रत्युत्पनंग्रहणैषणाशुद्धंच गृहीतंसदङ्गारिताभिधूमितवर्जमाहारयेत्, तयोश्चाङ्गारिताभिधूमितयो रागद्वेषो निमित्तं, तयोरपि सरसनीरसोपलब्धिः, कारणाभावे च कार्याभाव इतिकृत्वा रसोपलब्धिनिमित्तपरिहारंदर्शयति-सभिक्षुराहारमाहारयन्नोवामतो हनुतोदक्षिणांहनूरसोपलब्धये सञ्चारयेदास्वादयन्नशनादिक, नापि दक्षिणतो वामां सञ्चारयेदास्वादयन, तत्सञ्चरास्वादनेन हि रसोपल्ब्धौ रागद्वेषनिमित्तेअङ्गारित्वाभिधूमितत्वे स्यातमतो यत्किञ्चिदप्यास्वादनीयंनास्वादयेत्, पाठान्तरं वा 'आढायमाणे' आदरवानाहारे मूर्छितो गृद्धो न सञ्चारयेदिति, हन्वन्तरसङक्रमवदन्यत्रापि नास्वादयेदिति दर्शयति-स ह्याहारं चतुर्विधमप्याहारयन् रागद्वैषो परिहरन्नास्वादयेदिति, तथा कुतश्चिनिमित्ताद्धन्वन्तरं सञ्चारयाप्यनास्वादयन् सञ्चारयेदिति । किमिति यत आह-आहारलाधवमागमयन्-आपादयन् नो आस्वादयेदित्यास्वादनिषेधेन चान्तप्रान्ताहाराभ्युपगमोऽभिहितोभवति, एवंचतपः से तस्य भिक्षोरभिसमन्वागतं भवतीत्यादि गतार्थं यावत् ‘सम्मत्तमेव समभिजाणिय'त्ति ॥तस्य चान्तप्रान्ताशितयाऽपचितमांसशोणितस्य जरदस्थिसन्ततः क्रियाऽवसीदत्कायचेष्टस्य शरीरपरित्यागबुद्धिः स्यादित्याह मू. (२३४) जस्स णं भिक्खुस्स एवं भवइ-से गिलामि चत खलु अहं इममि समए इमं सरीरंग अनुपुब्वेण परिवहित्तए, से अणुपुब्वेणं आहारं संवट्टिजा, अनुपुब्वेणं आहारं संवहिता कसाए पयणुए किच्चा समाहियाचे फलगायवट्ठी उट्ठाय भिक्खू अभिनिवुडच्चे। वृ. 'णम्' इति वाक्यालङ्कारेयस्यैकत्वभावनाभावितस्य भिक्षोराहारोपकरणलाघवंगतस्य 'एव'मिति वक्ष्यमाणोऽभिप्रायो भवति, 'से' इति तच्छब्दार्थे तच्छब्दोऽपि वाक्योपन्यासार्थे, 'चः' शब्दसमुच्चये खलुः' अवधारणे, अहंचास्मिन् समये अवसरे संयमावसरेग्लायामिग्लानिमेव गतो रूक्षाहारतया तत्समुत्थेन वा रोगेण पीडितोऽतो न शक्नोमि रूक्षतपोभिरभिनिष्टप्तं शरीरकमानुपूर्व्या-यथेष्टकालावश्यकक्रियारूपया परिचोढुं नालमहं क्रियासु व्यापारयितुम, अस्मिन्नवसरे इदं प्रतिक्षणं शीर्यमाणत्वाच्छरीरकमिति मत्वा स भिक्षुरानुपूर्व्याचतुर्थषष्ठाचाम्लादिकयाआहारं संवर्तयेत् संक्षिपेत्न पुनादशसंवत्सरसंलेखनाऽऽनुपूर्वीह गृह्यते, ग्लानस्य www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy