SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २८२ आचारागसूत्रम् 9/-14/३/२२० मू. (२२०)मज्झिमेणं वयसाविएगे संबुज्झमाणा समुडिया, सुधा मेहावी वयणं पंडियाणं निसामिया समियाए धम्मे आरिएहिं पवेइएते अणवकंखमाणा अणइवाएमाणा अपरिग्गहेमाणा नो परिग्गहावंती सव्वावंति च णं लोगंसि निहाय दंडं पाणेहिं पावं कम्मं अकुब्बमाणे एस महं अगंधे वियाहिए, ओए जुइमस्स खेयन्ने उववायंचवणं च नमा। वृ.इह त्रीणिवयांसि-युवामध्यमवयावृद्धश्चेति,तत्रमध्यभवयाः परिपक्वबुद्धित्वाद्धार्ह इत्यादौ दर्शयति-मध्यमेन वयसाऽप्येके सम्बुध्यमानाः धर्माचरणाय सम्यगुत्थिताः समुत्थिता इति, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुल्यायोग्यत्वाच्च प्रायो विनिवृत्त भोगकुतूहल इति निष्प्रत्यूहधर्माधिकारीतिमध्यमवयोग्रहणं कथं सम्बुध्यमानाः समुत्थिता इत्याह-इह त्रिविधाः सम्बुध्यमानकामवन्ति,तद्यथा-स्वयंबुद्धाःप्रत्येकबुद्धाःबुद्धबोधिताश्च, तत्रबुद्धबोधितेनेहाधिकार इति दर्शयति- 'मेधावी' मर्यादाव्यवस्थितः पण्डितानां तीर्थकृदादीनां वचनं हिताहितप्राप्तिपरिहारप्रवर्तकं श्रुत्वा' आकर्ण्य पूर्वं पश्चात् निशम्य' अवधार्य समतामालम्बेत, किमिति ? यतःसमतया-माध्यस्थ्येनार्यः-तीर्थकृभिधम्मः श्रुतचारित्राख्यः प्रवेदितः' आदौप्रकर्षण वाकथित इति, तेचमध्यमे वयसि श्रुत्वा धर्म सम्बुध्यमानाः समुत्थिताः सन्तः किं कुर्युरित्याहते निष्क्रान्ताः मोक्षमभि प्रस्थिताः कामभोगानभिकाङ्क्षन्तः तथा प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृह्णन्तः,आधन्तयोर्ग्रहणेमध्योपादानमपि द्रष्टव्यम्, गथा मृषावादमवदन्त इत्याद्यपि वाच्यम्, एवम्भूताः स्वदेहेऽप्यममत्वाः 'सव्वावंति'तिसर्वस्मिन्नपिलोके, चःसमुच्चयेसच भित्रक्रमः, 'णम्' इति वाक्यालङ्कारे, नोपरिग्रहवन्तश्च भवन्तीतियावत, किंच-प्राणिनोदण्डयतीति दण्ड:परितापकारी तं दण्डं प्राणिषुप्राणिभ्यो वा 'निधाय' क्षिप्त्वा त्यक्त्वा 'पाप' पापोपादानं 'कर्म' अष्टादशभेदभिन्नतत् अकुर्वाणः' अनाचरन्नेषुमहान्न विद्यतेग्रन्थः सबाह्याभ्यन्तरोऽस्येत्यग्रन्थः 'व्याख्यातः' तीर्थकरगणधरादिभिः प्रतिपादित इति । कश्चैवम्भूतः स्यादित्याह - ___ 'ओजः' अद्वितीयो रागद्वेषरहितः 'द्युतिमान् संयमो मोक्षो वा तस्य 'खेदज्ञो' निपुणो देवलोकेऽप्युपपातंच्यवनंचज्ञात्वासर्वस्थानानित्यताहितमतिः पापकर्मवर्जीस्यादिति। केचित्तु मध्यमवयसि समुत्थिता अपिपरीषहेन्द्रियैग्लानतां नीयन्त इति दर्शयितुमाह - मू. (२२१) आहारोवचया देहापरीसहपभंगुरापासह एगेसव्विंदिएहिं परिगिलायमाणेहिं वृ. आहारेणोपचयो येषां तेआहारोपचयाः, केते? -दिह्यन्त इति देहास्तदभावेतुम्लायन्ते नियन्ते वा, तथ परीषहप्रभञ्जिनः' परीषहै: सद्भिर्भरा देहा भवन्ति, ततश्चाहारोपचितदेहा अपिप्राप्तपरीषहावातादिक्षोभेण वापश्यत यूयमेकेक्तीबाः सर्वैरिन्द्रियैग्लायमानैः क्लीवतामीयुः, तथाहि-क्षुत्पीडितो न पश्यतिनश्रृणोतिन जिघ्रतीत्यादि, तत्र केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद् आस्तां तावदपरः प्रकृतिमारशरीर इति, स्यान्मतं-अकेवल्यकृतार्थत्वात्क्षुद्वेदनीयसद्भावाचाहारयतिदयादीनि व्रतान्यनुपालयति, केवलीतुनियमात्सेत्स्यतीत्यतः किमर्थं शरीरंधारयति? तद्धरणार्थंचाहारयतीति?,अत्रोच्यते, तस्यापिचतुःकार्मसद्भावान्नैकान्तेन कृतार्थता, तत्कृतेशरीरंबिभृयात, तध्धरणंचनाहारमन्तरेण, क्षुद्वेदनीयसद्भावान्चेति, तथाहि-वेदनीयसद्भावात्तत्कृता एकादशापि परीषहाः केवलिनो व्यस्तसमस्ताः प्रादुष्यन्ति इत्यत आहारयत्येव केवलीति स्थितम्, अत आहारमृते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy