SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २६६ आचाराङ्गसूत्रम् 9/-/६/५/२०८ परिसमाप्ती, ब्रवीमीत्येतत् पूर्वोक्तं यदि वैतद्वक्ष्यमाणमित्याह मू. (२०९)कायस्स वियाघाए एस संगामसीसेवियाहिए सेहुपारंगमेमुनी, अविहम्पमाणे फलगायवट्ठी कालोवणीए कंखिज कालं जाव सरीरभेउ-त्तिबेमि ।। पृ. 'कायः' औदारिकादित्रयं घातिचतुष्टयं वा तस्य 'व्याघातो' विनाशः,अथवा चीयत इति कायस्तस्य विशेषेणाङ्गमर्यादयाऽऽयुष्कक्षयावधिलक्षणयाघातो व्याघातः-शरीरविनाशः एषसङ्गङग्रामशीर्षरूपतयाव्याख्यातो,यथा हिसङ्गाम शिरसिपरानीकनिशिताकृष्टकृपाणनिर्यत्प्रभासंवलितोद्यकत्सूर्यत्विडुद्भूतविद्युन्नयनचमत्कृतिकारिणि कृतकरणोऽपि सुभटश्चित्तविकारं विधत्ते, एवं मरणकालेऽपि समुपस्थिते परिकर्मितमतेरप्यन्यथाभावः कदाचित्स्याद् अतो यो मरणकाले न मुह्यति स पारगामी मुनिः संसारस्य कर्मणो वा उत्क्षिप्तभारस्य वा पर्यन्तयायीति। किं च-विविधं परीषहोपसर्गर्हन्यमानो विहन्यमानः न विहन्यमानोऽविहन्यमानः न निर्विण्णः सन् वैहानसं गार्द्धपृष्ठमन्यद्वा बालमरणं प्रतिपद्यत इति, यदिवा हन्यमानोऽपि सबाह्याभ्यन्तरतया तपः परीषहोपसर्गः,फलकवदवतिष्ठतेनकातरीभवति, तथा कालेनोपनीतः कालोपनीतो-मृत्युकालेनान्यवशतां प्रापितः सन् द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगह्वरादिस्थण्डिलपादपोपगमनेङ्गितमरणभक्तपरिज्ञान्यतरावस्थोपगतः कालं मरणकालमायुष्कक्षयं यावच्छरीस्य जीवेन सार्द्ध भेदो भवति तावदाकाङ्क्षद्, अयमेव च मृत्युकालो यदुत शरीरभेदो, न पुनर्जीवस्यात्यन्तिको विनाशोऽस्तीति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीत्यादिकं पूर्ववदिति, अध्ययनं-६-उद्देशकः- ५ समाप्तः अध्ययन-६-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता-संपादिता शीलाझाचार्यविरचिता प्रथमश्रुत स्कन्धेषठंअध्ययनटीका परिसमाता सप्तम् अध्ययनम् व्युच्छिन्नम् (अध्ययन-८-विमोक्षं) बृ. उक्तं षष्ठमध्ययनं, अथ सप्तमाष्टमाध्ययनमारभ्यते, अधुना सप्तमाध्ययनस्य महापरिज्ञाख्यस्यावसरः, तब व्यवच्छिन्नमितिकृत्वाऽतिलङ्याष्टमस्य सम्बन्धोवाच्यः, सचायम्इहानन्तराध्ययने निजकर्पशरीरोपकरणगौरवत्रिकोपसर्गसन्मानविधूननेन निःसङ्गताऽभिता, सा चैवं साफल्यमनुभवति यद्यन्तकालेऽपि सम्यग्निर्याणं स्यादित्यतः सम्यग्निर्याणप्रतिपादनायेदमारभ्यते, यदिवा निःसङ्गविहारिणा नानाविधाः परीषहोपसर्गाःसोढव्याइत्येतप्रतिपादितं, तत्र मारणान्तिकोपसर्गनिपाते सति अदीनमनस्केन सम्यग्निर्याणमेव विधेयमित्यस्यार्थस्य प्रतिपादनायेदमारभ्यते इत्यनेनसम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनिचत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमद्वारायातोऽर्थाधिकारी द्वेधा, तत्राप्यध्ययनार्थाधिका; प्रागभिहितः, उद्देशार्थाधिकारंतु नियुक्तिकारो बिमणिपुराह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy