SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं ६, उद्देशका३ २५३ आमिमुख्येन सोढं भवति । एतच्चनमयोच्यते इत्येतद्दयितुमाह- यथा' येन प्रकारेण ‘इदमिति यदुक्तं वक्ष्यमाणंचैतद्भगवता-वीरवर्द्धमानस्वामिना प्रकर्षणादौ वा वेदितं प्रवेदितमिति, यदि नाम भगवता प्रवेदितंततः किमित्याह-तद्-उपकरणलाघवमाहारलाघवं वा 'भिसमेत्य' ज्ञात्वा एवकारोऽवधारणे,तदेवलाघवंज्ञात्वेत्यर्थः, कथमितिचेत्तदुच्यते-'सर्वत' इति द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः आहारोपकरणादौ क्षेत्रतः सर्वत्र ग्रामादौ कालतोऽहनि रात्री वा दुर्भिक्षादौ वा सर्वात्मनेति भावतः कृत्रिमकल्काद्यभावेन, तथा 'सम्यकत्व मिति प्रशस्तं शोभनं एकं सङ्गतं वा तत्त्वं सम्यकत्वं, यदुक्तम्॥१॥ “प्रशस्तःशोभनश्चैव, एकः सङ्गत एव च। इत्येतैरुपसृष्टस्तु, भावः सम्यकत्वमुच्यते" तदेवम्भूतं सम्यकत्वमेव समत्वमेव वा 'समभिजानीयात्' सम्यगाभिमुख्येन जानीयात्परिच्छिन्द्यात, तथाहि-अचेलोऽप्येकचेलादिकं नावमन्यते, यत उक्तम्॥१॥ “जोऽविदुवत्थतिवत्यो एगेण अचेलगो व संथरइ । नहु ते हीलंति परंसव्वेऽविय ते जिणाणाए" ॥२॥ (तथा)- "जे खलु विसरिसकप्पा संघयणधियादिकारणं पण। नऽवमन्नइण यहीणं अप्पाणं मन्नई तेहिं" ॥३॥ सव्वेऽविजिणाणाए जहाविहिं कम्पखवणअट्ठाए। विहरति उज्जया खलु सम्मं अभिजाणई एवं" यदिवा तदेव लाघवमभिसमेत्य सर्वतो द्रव्यादिना सर्वात्मना नामादिनसम्यकत्वमेव सम्यगभिजानीयात्, तीर्थकरगणधरोपदेशात् सम्यकुर्यादिति तात्पर्यार्थः । एतच्च नाशक्यानुष्ठानं ज्वरहरतक्षकचूडालङ्काररलोपदेशवद्भवतः केवलमुपन्यस्यते, अपित्वन्यैर्बहुभिश्चिरकालमासेवितमित्येतद्दर्शयितुमाह-एवम् इत्यचेलतयापर्युषितानांतृणादिस्पर्शानधिसहमानानांतेषांमहावीराणां सकललोकचमत्कृतिकारिणां 'चिररात्रं प्रभूतकालं यावजीवमित्यर्थः, तदेव विशेषतो दर्शयति 'पूर्वाणि' प्रभूतानि वर्षाणि रीयमाणानां' संयमानुष्ठानेन गच्छता, पूर्वस्य तु परिमाणं वर्षाणां सप्ततिः कोटिलक्षाः षट्पञ्चाशच्च कोटिसहाः, तथा प्रभूतानि वर्षाणि रीयमाणानां, तत्र नाभेयादारभ्य शीतलं दशमतीर्थकरं यावत्पूर्वसङ्ख्यासद्भावत् पूर्वाणीत्युक्तं, ततः आरतः श्रेयांसादारभ्यवर्षसङ्ख्याप्रवृत्तेर्वषाणीत्युक्तमिति,तथा 'द्रव्याणां भव्यानांमुक्तिगमनयोग्यानां 'पश्य' अवधारय यत्तृणस्पर्शादिकं पूर्वमभिहितं तदधिसोढव्यमिति सम्यवाणेन स्पतिसहनं कृतमेतदवगच्छेति । एतच्चाधिसहमानानां यत्स्यात्तदाह मू. (१९९) आगयपन्नाणाणं किसा बाहवो भवंति पयणुए य मंससोणिए विस्सेणिं कट्ट परित्राय, एस तिण्णे मुत्ते विरए वियाहिए-तिबेमि-॥ आगतंप्रज्ञानंपदार्थाविर्भावकंयेषांतेतथातेषामागतप्रज्ञानानांतपसापरीषहातिसहनेन चकृशा बाहवः भुजा भवन्ति, यदिवा सत्यपि महोपसर्गपरीषहादावागतप्रज्ञानत्वाद् 'बाधाः' पीडाः कृशाभवन्ति, कर्मक्षपणायोस्थितस्य शरीरमात्रपीडाकारिणःपरीषहोपसर्गान्सहायानिति मन्यमानस्य नमनःपीडोत्पद्यत इति, तदुक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org ww
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy