SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २४२ आचाराङ्ग सूत्रम् १/-/६/१/१८७ वृ. वातपित्तश्लेष्मसन्निपातजं चतुर्द्धा गण्डं, तदस्यास्तीति गण्डी- गण्डमालावानित्यादि, अथवेत्येतव्यतिरोगमभिसम्बध्यते, अथवा राजांसी अपस्मारीत्यादि, अथवा तथा 'कुष्ठी' कुष्ठमाष्टादशभेदं तदस्यास्तीति कुष्ठी, तत्र सप्त महाकुष्ठानि, तद्यथा अरुणोदुम्बरनिशयजिह्नकपालकाकनादपौण्डरीकदद्रुकुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश क्षुद्रकुष्ठानि तद्यथा-स्थूलारुष्क १ महाकुष्ठै २ ककुष्ठ ३ चर्मदल ४ परिसर्प ५ विसर्प ६ सिध्म ७ विचर्चिका ८ किटिभ ९ पामा १० शतारुक ११ संज्ञानीति, सर्वाण्यप्यष्टादश, सामान्यतः कुष्ठं सर्वं सन्निपातजमपि वातादिदोषोत्कटतया तु भेदभाग्यभवतीति । तथा-राजांसो - राजयक्ष्मा सोऽस्यास्तीति राजांसी, क्षयीत्यर्थः, स च क्षयः सन्निपातजश्चतुर्भ्यः कारणेभ्यो भवति इति, उक्तं च • 119 11 तथा - अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाञ्चतुर्द्धा, तद्वानपगतसदसद्विवेकः भ्रममूर्च्छादिकामवस्थामनुभवति प्राणीति, उक्तं च 119 11 'त्रिदोषो जायते यक्ष्मा, गदोहेतुचतुष्टयात् । वेगरोधात् क्षयश्चैव, साहसाद्विषमाशनात् 11 "भ्रमावेशः ससंरम्भो, द्वेषोद्रेको हतस्मृतिः । अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः " तथा 'काणियं 'ति अक्षिरोगः, स च द्विधा - गर्भतस्योत्पएते जातस्य च तत्र गर्भस्थस्य ६ष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेवैकाक्षिगतं काणं विधत्ते, तदेव रक्तानुगतं रक्तार्क्ष पित्तातनुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षं वातानुगतं विकृताक्षं, जातस्य च वातादिजनितोऽभिष्यन्दो भवति, तस्माच्च सर्वे रोगाः प्रादुष्वन्तीति, उक्तं च“वातात्पित्तात्कफाद्रक्तादभिष्यन्दश्चतुर्विधः । 119 11 प्रायेण जायते घोरः, सर्वेनेत्रामयाकरः इति, तथा झिमियंति जास्यता सर्वशरीरावयवानामवशित्वमिति, तथा कुणियंति गर्भाधानदोषाद् ह्रस्वैकपादो न्यूनैकपाणिर्वा कुणिः, तथा 'खुज्जियं' ति कुब्जं पृष्ठादावस्यास्तीति कुष्ठ मातापितृशोषितशुक्रदोषेण स्थदोषोद्मवाः कुब्जवामनकादयो दोषा भवन्तीति, उक्तं च"गर्भे वातप्रकोपेन, दौहृदे वाऽपमानिते । भवेत् कुब्जः कुणिः पङ्गुर्मुको मन्मन एव वा 119 11 ?? -मूको मन्मन एवेत्येतदेकान्तरिते मुखदोषे लगनीयमिति । तथाउदरिं च पास मूयं च, सूणीयं च गिलासणिं । वेवई पीढसप्पिं च, सिलिवयं महुमेहणिं ॥ मू. (१८८) FP वृ. 'उदरिं च 'त्ति चः समुचये वातपित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः शेषास्त्वचिरोत्थिताः साध्या इति, ते चामी भेदा: Jain Education International 119 11 “पृथक् समस्तैरपि चानिलाद्यैः, प्लीहोदरं बद्धगुदं तथैव । आगन्तुकं सप्तममष्टमं तु, जलोदरं चेति भवन्ति तानि For Private & Personal Use Only " www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy