SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २३४ आचाराङ्ग सूत्रम् १/-/५/६/१७९ भू. (१७९) अणाणाए एगे सोवद्वाणा आणाए एगे निरुवद्वाणा एयं ते मा होउ, एवं कुसलस्स दंसणं, तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सन्नी तन्निवेसणे । वृ. इह तीर्थकरगणधरादिनोपदेशगोचरीभूतो विनेयोऽभिधीयते, यदिवा सर्वभावसम्भवित्वाद्भावस्य सामान्यतोऽभिधानम्, अनाज्ञा - अनुपदेशः स्वमनीषिकाचरितोऽ नाचारस्तयाऽनाज्ञया तस्यांचा 'एके' इन्द्रियवशगा दुर्गतिं जिगमिषवः स्वाभिमानग्रहग्रस्ताः सह उपस्थानेनधर्मचरणाभासोद्यमेन वर्त्तन्त इति सोपस्थानाः, किल वयमपि प्रव्रजिताः सदसद्धर्मविशेषविवेकविकलाः सावद्यारम्भतया प्रवर्त्तन्ते, एके तुन कुमार्गवासितान्तःकरणाः, किन्तु आलस्यावर्णस्तम्भाद्युपबृंहितबुद्धयः, 'आज्ञायां' तीर्थकरोपदेशप्रणीते सदाचारे निर्गतमुपस्थानम् उद्यमो येषां ते निरुपस्थाना:- सर्वज्ञप्रणीतसदाचारानुष्ठानविकलाः । एतत्कुमार्गानुष्ठानं सन्मार्गावसीदनं च द्वयमपि 'ते' तव गुरुविनयोपगतस्य दुर्गतिहेतुत्वान्मा भूदिति । सुधर्म्मस्वामी स्वमनीषिकापरिहारार्थमाह www 'एतद्' यत्पूर्वोक्तं यदिवा अनाज्ञायां निरुपस्थानत्वमाज्ञायां च सोप स्थानत्वमित्येत् 'कुशलस्य' तीर्थकृतो दर्शनमभिप्रायः, यदिवैतद्वक्ष्यमाणं कुशलस्य दर्शनमित्याह- कुमार्गं परित्यज्य सदाऽऽचार्यान्तेवासिना एवंभूतेन भाव्यं, तस्य - आचार्यस्य दृष्टिस्तदृष्टिस्तया वर्त्तितव्यं, सा वा तीर्थकरप्रणीतागमदृष्टिस्तदृष्टिस्तयेति, तथा तस्य- आचार्यस्य तीर्थकृतो वा मुक्तिस्तन्मुक्तिस्तया, तथा तमाचार्यं सर्वकार्येषु पुर; करोतीति तत्पुरस्कारः - आचार्यानुमत्या क्रियानुष्ठायीत्यर्थः, तथा तत्संज्ञी - तज्ज्ञानोपयुक्तः, तथा तन्निवेशनः सदा गुरुकुलनिवासी।। स एवंभूतः किंगुणः स्यादित्याह मू. (१८०) अभिभूय अक्खू अनभिभूए पभूनिरालंबणयाए जे महं अबहिमने, पवाएण पवार्थ जाणिज्जा, सहसंमइयाए परवागरणेणं अन्नेसिं वा अंतिए सुच्चा । वृ. 'अभिभूय' पराजित्य परीषहोपसर्गान् घातिचतुष्टयं वा तत्त्वमद्राक्षीत् किं चनाभिभूतोऽनभिमूतः अनुकूलप्रतिकूलोपसर्गैः परतीर्थिकैर्वा स एवम्भूतः प्रभुः' समर्थो निरालम्बनतायाः - नात्र संसारे मातापितृकलत्रादिकमालम्बनमस्तीति तीर्थकृद्धचनमन्तरेण नरकादी पततामित्येवम्भूतभावनायाः समर्थो भवति, कः पुनः परीषहोपसर्गाणां जेता केनचिदनभिभूतो निरालम्बनतायाः प्रभुर्भवति ? इत्येवं पृष्टे तीर्थकृत् सुधर्म्मस्वाम्यादिको वाऽऽचार्योऽन्तेवासिनमाहयः पुरस्कृतमोक्षो 'महान् ' महापुरुषो लघुकर्म्मा ममाभिप्रायान्न विद्यतेबहिर्मनो यस्यासावबहिर्म्मनाः, सर्वज्ञोपदेशवर्त्तीिति यावत्, कुतः पुनस्तदुपदेशनिश्चय इति चेदाह - प्रकृष्टये वादः प्रवादःआचार्यपारम्पर्योपदेशः प्रवादस्तेन प्रवादेन प्रवादं सर्वज्ञोपदेशं 'जानीयात्' परिच्छिन्द्यादिति । यदिवाऽणिमाद्यष्टविधैश्वर्यदर्शनादपि न तीर्थकृद्धचनाद्बहिर्मनो विधत्ते, तीर्थिकानिन्द्रजालिककल्पानिति मत्वा तदनुष्ठानं तद्वादांश्च पर्यालोचयति, कथमित्याह -- पवाएण पवायं जाणिज्जा' प्रकृष्टथे वादः प्रवादः - सर्वज्ञवाक्यं तेन मौनीन्द्रेण प्रवादेन तीर्थिकप्रवादं 'जानीयात्' परीक्षयेत्, तद्यथा-वैशेषिकाः तनुभुवनकरणादिकमीश्वरकर्तृकमिति प्रतिपन्नाः, तदुक्तम्“अन्यो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितोगच्छेत्स्वर्गं वा श्वभ्रमेव च ।।" 11911 इत्यादिकं प्रवादमात्मीयप्रवादेन पर्यालोचयेत्, तद्यथा - अनेन्द्रधनुरादीनां विनसा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy