SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २१६ आचाराङ्गसूत्रम् १/-/५/३/१६४ द्रव्येषुत्यक्तेषुसत्स्वपरिग्रहवन्तो भवन्ति, यदिवैतेष्वेवषट्सुजीवनिकायेषुममत्वाभावादपरिग्रहा भवन्ति। स्यात्-कथमपरिग्रहभावः स्यादित्याह-'सोच्चा' इत्यादि वईत्तिसुब्ब्यत्ययेन द्वितीयार्थे प्रथमाऽतोवाचं-तीर्थकराज्ञामागमरूपां श्रुत्वा आकर्ण्य मेधावी मर्यादाव्यवस्थितः सश्रुतिको हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा पण्डितानां गणधराचार्यादीनांविधिनियमात्मकंवचनंनिशम्य सचित्ताचित्तपरिग्रहपरित्यागादपरिग्रहो भवति । स्यादेतत्-कदा पुनरुत्पन्ननिरावरणज्ञानानां तीर्थकृतां वाग्योगो भवति येनासावाकर्ण्यते?, उच्यतेधर्मकथाऽवसरे, किम्भूतस्तैः पुनधर्मः प्रवेदित इत्यारेकापनोदार्थमाह-समिय'त्ति 'समता' समशत्रुमित्रता तयाऽऽर्यैर्द्धर्मः प्रवेदित इति, उक्तंच॥१॥ “जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेति । संधुणइ जो अनिंदति महेसिणो तत्थ समभावा' यदिवाऽऽर्येषु-देशभाषाचरित्राऽऽर्येषुसमतया भगवता धर्मः प्रवेदितः, तथा चोक्तम्"जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई"त्यादि, अथवा शमिनो भावः शमिता तया सर्वहेयधारातीयवर्तभिः आर्यैः प्रकर्षणादौ वाधर्मोवेदितः प्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थकृ द्भिर्द्धर्मः प्रज्ञापित इतियावत् । स्याद्-अन्यैरपि स्वाभिप्रायेण धाः प्रवेदिता एवेत्यतस्तदव्युदासार्थं भगवानेवाह-'जहेत्थे त्यादि, सदेवमनुजायांपर्षदि भगवानेवमाह-यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः 'झोसिओ'त्ति सेवित इति, यदिवा। ___ 'अत्र' अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गेसमभावात्मके इन्द्रियनोइन्द्रियोपशमरूपे मया मुमुक्षुणा स्वत एव सन्धानं सन्धिः-कर्मसन्ततिः सन्धीयत इति वा भवाद्भवान्तरमनेनेति सन्धिः-अष्टप्रकारकर्मसन्ततिरूपः स झोषितः-क्षपितः अतोय एव तीर्थकृभिर्द्धर्मोऽभिहितः सए वमोक्षमार्गोनापर इत्येतदेवाह-यथाऽत्र मया सन्धिझेषितः एवमन्यत्र-अन्यतीर्थिकप्रणीते मोक्षमार्गसन्धिः-कर्मसन्ततिरूपः दुझेष्योभवति-दुःक्षयो भवति, असमीचीनतया तदुपायाभावाद्, यदि नाम भगवताऽत्र कर्मसन्धिोषितस्ततः किमित्याह यस्मादस्मिन्नेव मार्गे व्यवस्थितेनमयाऽपि विकृष्टतरेणतपसा कर्म क्षपितंततोऽन्योऽपि मुमुक्षुः संयमानुष्ठाने तपसि च वीर्यं 'नो निहन्यात्' नो निगूहयेद् अनिगूहितबलवीर्यो भूयाद्, एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयः परहितैकोपदेशशदायीत्येतद्वीरवर्द्धमानस्वाम्याह, सुधर्मस्वामी स्वशिष्याणां कथयति स्म ।। कश्चैवम्भूतः स्यादित्याह मू. (१६५) जे पुबुट्ठाई नो पच्छानिवाई, जे पुब्बुहाई पच्छानिवाई, जे नो पुवुट्ठायी नो पच्छानिवाई, सेऽवि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति। वृ. यः कश्चिद्विदितसंसारस्वभावतया धर्मचरणैकप्रवणमनाः पूर्व-प्रव्रज्याऽवसरे संयमानुष्ठानेनोत्थातुंशीलमस्येति पूर्वोत्थायी पश्चाच्च श्रद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, निपतितुं शीलमस्येति विगृह्य णिनिः निपतनं वा निपातः सोऽस्यास्तीति निपाती, सिंहतया निष्कान्तः सिंहतयाविहारीच गणधरादिवत्प्रथमोभङ्गः। द्वितीयभङ्गसूत्रेणैवदर्शयन्नाहपूर्वमुत्थातुं शीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्मपरिणतेस्तथविधभवितव्यतानियोगात्पश्चानिपती स्यात्, नन्दिषेणवत्, कश्चिद्दर्शनतोऽपिगोष्ठामाहिलवदिति ।तृतीयभङ्गस्य चाभावादनुपादानं, स चायम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy