SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०६ आचाराङ्ग सूत्रम् 9/14/9/१५४ कुर्वन्ति, तदेवमर्थादनाद्वाप्राणिनोहत्वा एतेष्वेव-षड्जीवनिकायस्थानेषुविविधम्-अनेकप्रकार सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदेन तानेकेन्द्रियादीन् प्राणिनस्तदुपधातकारिणः परामृशन्ति, तान् प्रपीड्य तेष्वेवानेकश उत्पद्यन्त इतियावत्, यदिवा तत्षड्जीवनिकायबाधाऽवाप्तं कर्म तेष्वेव कायेषूत्पद्य ते तैस्तैः प्रकारैरुदीफ विपरामशन्ति-अनुभवन्तीति, नागार्जुनीयास्तु पठन्ति कायबाधाऽवाप्तं कर्म तेष्वेव कायेषूत्पद्य ते तैस्तैः प्रकारैरुदीर्णं विपरामशन्ति-अनुभवन्तीति, नागार्जुनीयास्तु पठन्ति ___ “जावंतिकेइअलोएछक्कायवहंसमारभतिअहाए अणठाएवा" इत्यादि, गतार्थं, स्याद्असौ किमर्थमेवंविधानि कर्मणि कुरुते यान्यस्य कायगतस्य विपचन्ते?, तदुच्यते-'गुरू से कामा' 'से' तस्यापरमार्थविदः काम्यन्त इति कामाः-शब्दादयस्ते गुरवो दुस्त्यजत्वात्, कामा ह्यल्पसत्त्वैरनवाप्तपुण्योपचयैरुलझयितुं दुष्करमित्यतस्तदर्श कायेषु प्रवर्तते तत्प्रवृत्तौ च पापोपचयस्तदुपचयाच यत्स्यात्तदाह-'ततः षड्जीवनिकायविपरामर्शात्परमकामगुरुत्वाच्चासौ मरणं मार:- आयुषः क्षयस्तस्यान्तर्वर्तते, मृतस्य च पुनर्जन्म जन्मनि चावश्यंभावि मृत्युरेवं जन्ममरणात् संसारोदन्वति मजनोन्मजनरूपान्न मुच्यते ॥ ततः किमपरमित्याह-- 'जओ से' इत्यादि, यतोऽसौ मृत्योरन्तस्ततोऽसौ 'दूरे' परमपदोपायात् ज्ञानादित्रयात् तत्कार्याद्वा मोक्षाद्, यदिवा सुखार्थी कामान परित्यजति, तदपरित्यागे च मारान्तर्वर्ती, यतश्चमारान्तर्वर्ती ततो जातिजरामरणरोगशोकाभिभूतत्वादसौ सुखाहूरे । यस्मादसौ कामगुरुस्तद्गुरुत्वान्मारान्तवर्तीतदन्तर्वतित्वात्किम्भूतो भवतीत्यत आह-नेवसे इत्यादि, नैवासी विषयसुखस्यान्तर्वर्तते, तदभिलाषापरित्यागाच्च नैवासी दूरे, यदिवा यस्य गुरवः कामाः स किं कर्मणोऽन्तर्बहिर्वेति प्रश्नावसरे सत्याह 'नेव से' इत्यादि, नैवासी कर्मणोऽन्तः-मध्ये भिन्नग्रन्थित्वात्सम्भावितावश्यंभाविकर्मक्षयोपपत्तेः, नाप्यसौ दूरे देशोनकोटीकोटिकमस्थितिकत्वात, चारित्रावाप्तवपि नैवान्तर्नैव च दूरे इत्येतच्छक्यते वक्तुं, पूर्वोक्तादेव कारणादिति, अथवा येनेदं प्राणायिकिमसा वन्तर्भूतः संसारस्याहोश्विद्बहिर्वर्तते इत्याशङ्कयाह-'नेव से'इत्यादि, नैवासी संसारान्तः घातिकर्मक्षयात् नापि दूरे अद्यापि भवोपग्राहिकर्मसद्मावादिति । यो हि भिन्नग्रन्थिको दुरापावाप्तसम्यकत्वः संसारारातीयतीरवर्ती स किमध्यवसायी स्यादित्याह मू.(१५५) सो पासइ फुसियमिव कुसग्गे पणुन्नं निवइयं वाएरियं, एवं बालस्स जीवियं मंदस्स अवियाणओ, कूराइंकमाईबाले पकुब्वमाणे तेन दुक्खेण मूढे विपरिआसमुवेइ, मोहेण गम्भमरणाइ एइ, एस्थ मोहे पुणो पुणो वृ. 'से पासई त्यादि, 'सः' अपगतमिथ्यात्वपटलः सम्यकत्वप्रभावावगतसंसारासारः 'पश्यति' शिरुपलब्धिक्रियइत्यत उपलभते-अवगच्छति, किं तत्? - ‘फुसियमिवत्ति कुशाग्र उदकबिन्दुमिव बालस्य जीवितमिति सम्बन्धः, तत्किम्भूतमित्याह-'पणुन' मित्यादि, प्रणुनम्अनवरतापरापरोदकपरमाणूपचयात् प्रणुन्नं-प्रेरितं वातेनेरितं सन्निपतितं भाविनि भूतवदुपचारानिपतदेव वा निपतितं, दार्शन्तिकं दर्शयति-'एव मिति यथा कुशाग्रे बिन्दुः क्षणसम्भावितस्थतिकः एवं बालस्यापि जीवितम्, अवगततत्वो हि स्ययमेवागच्छति नाप्यसौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy