SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् 9/19/-1[नि.१] भवति, सूत्रंच सूत्रानुगमे, सच सूत्रोच्चारणरूपः पदच्छेदूपश्चेति ।अनन्तधर्माध्यासितंवस्त्वेकेनैव धर्मेण नयन्तिपरिच्छिन्दन्तीति ज्ञानविशेषा नयाः, ते च नैगमादयः सप्तेति । साम्प्रतमाचाराङ्गस्योपक्रमादीनामनुयोगद्वाराणां यथायोगकिञ्चिद्विभणिषुरशेषप्रत्यूहोपशमनाय मङ्गलार्थं प्रेक्षापूर्वकारिणां च प्रवृत्त्यर्थं सम्बन्धाभिधेयनयोजनप्रतिपादिकां नियुक्तिकारो गाथामाह -- नि. [9] वंदित्तु सव्वसिद्धे जिणे अ अनुओगदायए सव्वे । आयारस्स भगवओ निनुत्तिं कित्तइस्सामि वृ. तत्र वन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनम्, अनुयोगदायकानित्येतच्च सम्बन्धवचनमपि, आचारस्येत्यभिधेयवचनं, नियुक्ति करिष्ये इतिप्रयोजनकथनमिति तात्पर्यार्थः, अवयवार्थस्तु वन्दित्वे ति वदि अभिवादनस्तुत्यो रित्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं कायेन स्तुतिर्वाचा, अनयोश्चमनःपूर्वकत्वात्करणत्रयेणापिनमस्कार आवेदितो भवति,सितंभातमेषामिति सिद्धाः-प्रक्षीणाशेषकर्माणः, सर्वे च ते सिद्धाश्च सर्वसिद्धाः, सर्वग्रहणं तीर्थातीर्थानन्तरपरम्परादिसिद्धप्रतिपादकं, तान्वन्दित्वेति सम्बन्धः सर्वत्रयोज्यः, रागद्वेषजितो जिना:-तीर्थकृतस्तानपि सर्वान् अतीतानागतवर्तमानसर्वक्षेत्रगतानिति, अनुयोगदायिनः-सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानिति, अनेन चाम्नायकथनेन स्वमनीषिकाव्युदासः कृतो भवति, 'वन्दित्वे'ति क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तर क्रि यामाह-'आचारस्य' यथार्थनाम्नः भगवत' इति अर्थधर्मप्रयत्नगुणभाजस्तस्यैवंविधस्य, निश्चयेनार्थप्रतिपादिका युक्तिर्नियुक्तिस्तां 'कीर्तयिष्ये' अभिधास्ये इति अन्तस्तत्वेन निष्पन्नां नियुक्ति बहिस्तत्त्वेन प्रकाशयिष्यामीत्यर्थः ।। यथाप्रतिज्ञातमेव बिभणिषुर्निक्षेपाणि पदानि तावत् सुहृद्भूत्वाऽऽचार्यः संपिण्ड्य कथयतिनि. [२] आयार अंग सुयखंध बंभ चरणे तहेव सत्ये य । __ परिण्णाए संणाए निक्खेवो तह दिसाणंच वृ.आचार अङ्गश्रुतस्कन्धब्रह्मचरणशस्त्रपरिज्ञासंज्ञादिशामित्येतेषां निक्षेपः कर्तव्य इति तत्राचारब्रह्मचरणशस्त्रपरिज्ञाशब्दा नामनिष्पन्ने निक्षेपेद्रष्टव्याः, अङ्गश्रुतस्कन्धशब्दाओघनिष्पन्ने, संज्ञादिक्शब्दौ सूत्रालापकनिष्पन्ने निक्षेपे द्रष्टव्याविति॥ एतेषां मध्ये कस्य कतिविधो निक्षेप इत्यत आह -- नि. [३] चरणदिसावजाणं निक्खेवो चउक्क ओ य नायव्यो । चरणंभि छविहो खलु सत्तविहो होइ उदिसाणं वृ.चरणदिग्वर्जानांचतुर्विधो निक्षेपः, चरणस्य षड्विधः, दिक्शब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथासम्भवमायोज्यम् ।। नामादिचतुष्टयं सर्वव्यापीति दर्शयितुमाह -- नि. [४] जत्थ यजंजाणिज्जा निक्खेवं निक्खिवे निरवसेसं। जस्थविय न जाणिज्जा चउक्त यं निक्खिवे तत्थ वृ. 'यत्र' चरणदिक्शब्दादौ यंनिक्षेपं-क्षेत्रकलादिकंजानीयात्तं तत्र निरवशेषं निक्षिपेद्, यत्र तु निरवशेषं न जानीयादाचाराङ्गादौ तत्रापिनामस्थापनाद्रव्यभावचतुष्कात्मकं निक्षेपं निक्षिपेदित्युपदेश इति गाथार्थः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy